SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं - ८८, [ भा. ४०६६ ] ४२३ अथ गाथाक्षरार्थः- वारत्तकेन प्रव्रज्यायां गृहीतायां पुत्रस्तस्य - वारत्तकस्य प्रतिमां देवकुलेऽचीकरत् । तत्र च स्थली प्रवर्त्तिता । साधुश्चैकेन प्रतिग्रहेण भिक्षार्थमायातः । प्रतिचरणं च कर्वाणैस्तेनैव प्रतिग्रहेण ‘आचमनं ' निर्लेपनं कुर्वाणं दृष्ट्वा तस्य 'उद्वालना' निष्काशना कृता । तस्यान्येषां च साधूनां व्यवच्छेदः कृतः । एवं मात्रकस्याग्रहणे उड्डाहो भवेत् ॥ अथ प्रमाणद्वारमाह[ भा. ४०६७ ] जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं, वासावासासु अहिकारो ॥ वृ-यो 'मागधः' मगधदेशोद्भवः 'प्रस्थः ' “दो असईओ पसई, दो पसईओ य सेइया होति । चउसेइयाहि पत्थो" इति क्रमनिष्पन्नः, ततो मागधप्रस्थात् सविशेषतरं मात्रकप्रमाणं भवति । तेन च मात्रकेण 'द्वयोरपि' ऋतुबद्ध-वर्षावासयोर्गुरु-ग्लानादियोग्यस्य भक्त-पानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु व्याचक्षते - " दोसु वि" त्ति प्रतिग्रहे भक्तं मात्रके पानकं गृह्यते । वर्षावासे तु विशेषतो मात्रकेणाधिकारः, यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति, यतः कदाचिद् व्याधारितं वर्षं निपतेद् येन गृहाद् गृहं सञ्चरितुं न शक्यते ततः पानकेन विना प्रतिग्रहो लेपकृतो भवति । अथवा वर्षावासे भक्त पानं संसज्यत इति कृत्वा मात्रकेण तस्य शोधनं कार्यम् ॥ प्रकारान्तरेण मात्रकप्रमाणमाह [भा. ४०६८ ] सुक्खोल्लुओदणस्सा, दुगाउतद्धाणमागओ साहू । भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥ वृ- शुष्कैदनस्यान्यभाजनगृहीतेन तीमनेनार्द्रस्य भृतं यद् 'एकस्थाने' एकवारं द्विगव्यूतमात्रादध्वन आगतः साधुर्भुङ्क्ते एतत् खलु मात्रकप्रमाणं मन्तव्यम् ॥ यदि वा[भा. ४०६९ ] भत्तस्सं व पानस्स व, एगतरागस्स जो भवे भरिओ । पत्तो साहुस्स उ, बितियं पि य मत्तयपमाणं ।। वृ-भक्तस्य वा पानकस्य वाऽनयोरेकतरस्य यद् भृतं सद् एकस्य साधोः पर्याप्तं भवति एतद् द्वितीयमपि मात्रकप्रमाणमवगन्त्वयम् ॥ अथ हीनद्वारमाह [भा. ४०७०] डहरस्सेसे दोसा, ओभावण खिंसणा गलंते य । छहं विराधना भाणभेदो जं वा गिलाणस्स ।। वृ-‘डहरस्य’ यथोक्तप्रमाणाद् लघुतरस्य मात्रकस्येमे दोषाः, तद्यथा- 'अपभ्राजना' तद् लघुतरं मात्रकमतीव भ्रियमाणं दृष्ट्वा लोको ब्रूयात्-अहो ! अमी बुभुक्षादुःखभग्नाः प्रव्रजन्ति । अथवा भक्त - पानं परिगलद् विलोक्य 'अहो ! अमी असन्तुष्टा एवं सिच्यमाना अपि न गणयन्ति' इति खिंसां कुर्यात् । अतिभूते च गलति षट्कायानां विराधना । अथ परिगलनभयात् तत्रैवोपयोगं ददाति ततः स्थाण्वादौ प्रस्खलितस्य भाजनभेदो भवेत् । यद्वा ग्लानस्य उपलक्षणत्वाद् बालवृद्धादीनां च तेन डहरमात्रकेणापर्याप्तं भवति तन्निष्पन्नं प्रायश्चित्तम् ॥ तथा [ भा. ४०७१] पडणं अवंगुतम्मिं, पुढवी-तसपान-तरुगणादीणं । आनिते गामंतरा गलणे य छक्काया ॥ वृ- डहरमात्रके आकण्ठभृते लेपकृतीकरणभयाद् 'अपावृते' उद्घाटिते पृथिवीरजःत्रसप्राणितरुगणादीनां पतनं भवेत् । अथवा ग्रामान्तरादतिभृते तस्मिन् आनीयमाने परिगलति "Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy