________________
४२२
बृहत्कल्प - छेदसूत्रम् -२-३/८८
[भा. ४०६२] जिनकप्पे तं सुत्तं, सपडिग्गहकस्स तस्स तं एगं । नियमा थेराण पुनो, बितिजाओ मत्तओ होइ ।।
वृ- हे नोदक ! यदेकपात्रादिप्रतिपादकं सून्नं तद् जिनकल्पविषयं मन्तव्यम् । तथाहि-यः सप्रतिग्रहो जिनकल्पिकस्तस्य 'तत्' प्रतिग्रहलक्षणमेकं पात्रं भवति, स्थविराणां पुनर्नियमाद् द्वितीयं मात्रकं भवति, “एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ ।" इति वचनात् ॥ [भा. ४०६३ ] ननु दव्वोमोयरिया, तरुणाइविसेसओ य मत्तो वि । अप्पोवही दुपत्तो, जेनं तिप्पमिति बहुसद्दो ॥
वृ-यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्र द्वयोः पात्रयोर्धारणे ननु द्रव्यावमौदरिका किं न भवति ? त्रिप्रभृतीनामग्रहणाद् भवत्येवेति भावः । यच्चाभिहितम् "जे भिक्खू तरुणे” इत्यादि तत्र यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यं ततः किं तरुणादिभिर्विशेषणैरभिहितैः ? अतो ज्ञायते तरुणादिविशेषणाभिधानाद् मात्रकमपि सामध्यार्दनुज्ञातम् । यद्यपि "अप्पोवही" इत्यादी अभिहितं तत्र तु 'द्विपात्रः' पात्रद्वयोपेतोऽल्पोपधिरेव भवति, यतस्त्रप्रभृतिष्वेव पदार्थेषु बहुशब्दो वर्त्तते, अतो ग्रहीतव्यं मात्रकम् ।। अथ न गृह्णाति तत इमे दोषाः
[भा. ४०६४ ] अग्गहणे वारत्तग, पमाण हीनाऽधि सोहि अववाए । परिभोग गहण - बितियपय-लक्खणाई मुहं जाव ॥
वृ-मात्रकस्याग्रहणे दोषा वक्तव्याः । वारत्तगध्ष्टान्तश्चात्र भवति । प्रमाणम् हीना-ऽधिकप्रमाणे च दोषाः । 'शोधिः' मात्रकपरिभोगे प्रायश्चित्तम् । 'अपवादः ' हीना ऽधिकधारणालक्षणः । परिभोगः कारणे मात्रकस्य यथा विधीयते । ग्रहण-द्वितीयपद-लक्षणादीनि मुखं यावद् यानि प्रतिग्रहद्वाराण्यभिहितानि तदेतत् सर्वं वक्तव्यमिति द्वारगाथासङ्क्षेपार्थ ॥ अथैनामेव विवरीषुराह[ भा. ४०६५ ] मत्तअगेव्हणे गुरुगा, मिच्छत्ते अप्प परपरिचाओ । संसत्तग्रहणम्मिं, संजमदोसा सवित्थारा ॥
- मात्रकं यदि न गृह्णाति ततश्चतुर्गुरुकाः । येऽभिनवश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुनर्निर्लेपनं च कुर्वाणं दृष्ट्वा 'दुर्द्दष्टधर्माणोऽमी' इति मिथ्यात्वं गच्छेयुः । यदि प्रतिग्रहे आचार्यादीनामर्थाय गृह्णाति तत आत्मपरित्यागः । अथात्मनो गृह्णाति ततः परेषाम् आचार्यादीनां परित्यागः कृतो भवति । संसक्तभक्त पानं चाप्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति ततः संयमदोषाः सविस्तराः “छक्काय चउसु लहुगा" इत्यादिविस्तरसहिता वक्तव्याः ।। अथ वारत्तगदृष्टान्तमाह[भा. ४०६६ ] वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू । पडियरणेगपडिग्गह, आयमनुव्वालणा छेओ ।।
वृ- वारत्तगपुर नगरं । तत्थ य अभयसेनो राया । तस्स अमचो वारत्तगो नाम, सो पत्तेगबुद्धो घरसारं पुत्तस्स निसिरियं पव्वइओ । तस्स पुत्तेण पिउभत्तीए देवकुलं कारेत्ता रयहरण-मुहपोत्तियपडिग्गहधारिणी पिउ पडिमा ठाविया, तत्थ य सत्तागारो पवत्तिओ । तत्थ य एगो साहू एगपडिग्गहधारी पडिग्गह भिक्खं घेत्तुं तं भोत्तुं तत्थेव पडिग्गहे पुनो पानगं घेत्तुं सन्नं वोसिरिउं तेनेव डिग्गणं निल्लेवेइ । तेसिं सत्ताकारनिउत्ताणं चिंता जाया- 'कहं निल्लेवेइ ?' त्ति पडियरिओ । दिट्ठो तेहिं, निच्छूढो । तस्स अन्नेसिं च साहूणं वोच्छेओ तत्थ जाओ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org