________________
उद्देशक : ३, मूलं-८८, [भा. ४०५६]
४२१ वृ-यथा 'सपरिकर्मणः' अल्पपरिकर्मपात्रकसय लाभेऽपि यथाकृतं मार्गयो विपुला निर्जरा भवति, तथायथाकृतालाभे 'इतरस्मिन् बहुपरिकर्मणि लभ्यमानेऽपि द्वितीयस्य' अल्पपरिकर्मणो मार्गणे उपलक्षणत्वादल्पपरिकर्मणोऽप्यलाभे बहुपरिकर्ममार्गणे विपुलैव निर्जराद्रष्टव्या।। अथवा* [भा.४०५७] असिवे ओमोदरिए, रायडुढे भए व गेलन्ने ।
सेहे चरित्त सावयभए यततियं पि गिण्हिज्जा ॥ वृ-यत्र यथाकृतमल्पपरिकर्मवा भाजनं प्राप्यते तत्रअपान्तराले वाऽशिवमवमौदर्यं राजद्विष्टं 'भयं वा' बोधिकस्तेनादिसमुत्थं वर्तते, ग्लानत्वं वा कस्यापि साधोः सञ्जातं तत्प्रतिबन्धेन न शक्यते तत्र गन्तुम्, शैक्षस्य वा तत्र सागारिकम्, चारित्रस्य वा चरिकाधुपसर्गसमुत्थो भेदः, श्वापदाः-सिंहादयस्तेषां वा भयम्, एवमादिभि कारणैः 'तृतीयमपि' बहुपरिकर्म पात्रं स्वस्थाने गृह्णीयात् ।। उक्तमेवार्थं सिंहावलोकितेनाह[भा.४०५८] आगंतुगाणि तानि य, चिरपरिकम्मे य सुत्तपरिहाणी।
एएण कारणेणं, अहाकडे होति गहणं तु ।। वृ-यथाकृतेयानि बीजानितान्यागन्तुकानि, चिरकालपरिकर्मणिच क्रियमाणेसूत्रार्थपरिहाणि, एतेन कारणेन यथाकृतस्य ग्रहण कार्यम्, नाल्पपरिकमदिः ॥अथ मुखद्वारमाह[भा.४०५९] बितिय-ततिएसु नियमा, मुहकरणं होज्ज तस्सिमं मानं ।
तंचिय तिविहं पायं, करंडगं दीह वर्ल्ड च ॥ . वृ-'द्वितीय-तृतीययोः' अल्पपरिकर्म-सपरिकर्मणोनिर्यमाद् मुखकरणं भवेत् । 'तस्य च' मुखस्य 'इदं वक्ष्यमाणं मानम् । तत्र यस्य पात्रस्य मुखं विचारयितव्यं तत् त्रिविधम्-करण्डकं दीर्घवृत्तं च । 'करण्डक' करण्डकाकारं बहुपृथत्वमल्पोच्छ्रयम्, 'दीर्घम् अल्पपृथुत्वं बहूच्छ्रयम्, 'वृत्तं चतुरस्रम् ॥ एतेषां मुखप्रमाणमाह[भा.४०६०] अकरंडगम्मि भाणे, हत्थो उटुंजहा नघट्टेति ।
एवं जहन्नगमुहं, वत्थु पप्पा विसालतरं॥ वृ- ‘अकरण्डके' करण्डकाकाररहिते दीर्धे समचतुरस्त्र वा भाजने हस्तः प्रविशन् निर्गच्छत् वा यथा 'ओष्ठं' कर्णं 'न घट्टयति' न स्पृशति एतत् सर्वजघन्यं मुखप्रमाणम् । अतः परं 'वस्तु' बृहत्तरपात्रादिकं प्राप्य' प्रतीत्य विशालतरं मुखं क्रियते । यत् पुनः करण्डकाकारं पात्रं तस्य विशालमेव मुखं कर्तव्यम्, अन्यथा तद् दुःप्रत्युपेक्षं भवति । एष प्रतिग्रहविधिरुक्तः । इदानीं मात्रकविधि, तत्र परःप्रेरयति-ननुतीर्थकरैस्तावमात्रकं नानुज्ञातम्, कथम्? इतिचेद् उच्यते[भा.४०६१] दवे एगं पायं, भणिओ तरुणो य एगपाओ उ ।
अप्पोवही पसत्थो, चोएति न मत्ततो तम्हा॥ वृ- उपकरणद्रव्यावमौदरिकायामेकमेव पात्रमुक्तम् । तथा चागमः एगे वत्थे एगे पाए चियत्तोवगरणसाइजणया। तथा यो भिक्षुस्तरुणो युगवान् बलवान् स एकपात्रो भवेत्। तथा च आचारसूत्रम्-जे भिक्खूतरुणेजुगवंबलवं० से एगं पायंधारेज्जा ।अरुपोपधिश्च प्रशस्तः। तथा च दशवैकालिकसूत्रम्-अप्पोवही कलहविवज्जणाय, विहारचरिया इसिणं पसत्था। यत एवमतो न मात्रकं ग्रहीतव्यम्, गाथायां पुंस्त्वं प्राकृतत्वाद् इति परः प्रेरयति ॥अथ सूरिराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org