________________
उद्देशक : १, मूलं - ८, [भा. २०५४]
कथम् ? इत्याह- "णंत "त्ति वस्त्राणि तैर्निमन्त्रणं कृत्वा 'वहने' प्रवहणे चैत्यवन्दनार्थमारूढानां संयतीनां तेन 'आक्षेपणम्' अपहरणं कृतमिति । जहा भरूअच्छे आगंतुगवाणियओ तञ्चन्नियसड्डो संजईओ रूववईओ हूण कवडसढत्तणं पडिवन्नो । ताओ तस्स वीसंभियाओ । गमनकाले पवत्तिणिं विन्नवेइ-वहणट्ठाणे मंगलट्ठा पडिलाहणं करेमि तो संजईओ पट्ठवेह, अम्हे वि अनुग्गहिया होज्जामो । तओ पट्ठविया । तत्थ गया कवडसड्डेणं भन्नंति-पढमं वहणे चेइयाइं वंदह, तो पडिलाहणं करेमि त्ति । ताओ जाणंति-अहो ! विवेको । तओ चेइयवंदनत्थमारूढाणं पयट्टियं वहणं, जाव आसियावियाओ ॥
[ भा. २०५५ ]
एएहि कारणेहिं, न कप्पई संजईण पडिलेहा । गंतव्व गणहरेणं, विहिना जो वन्निओ पुव्वि ॥
वृ- एतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षा कर्तुं न कल्पते। केन पुनस्तर्हि प्रत्युपेक्षणाय गन्तव्यम् ? इत्याह-गन्तव्यं गणधरेण विधिना । कः पुनर्विधि ? इत्याह-यः पूर्वमत्रैव मासकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः । आह कीशं क्षेत्रं तासां योग्यं गणधरेण प्रत्युपेक्षणीयम् ? उच्यते
[भा.२०५६] जत्थाहिवई सूरो, समणाणं सो य जाणइ विसेसं । एतारिसम्म खेत्ते, समणाणं होइ पडिलेहा ॥
[भा. २०५७] जहियं दुस्सीलजणो, तक्कर - सावयभयं व जहि नत्थि । निप्पच्चवाय खेत्ते, अज्जाणं होइ पडिलेहा ।।
वृ- 'यत्र' ग्रामादी 'अधिपति' भोगिकादिकः 'शूरः' चौर-चरटादिभिरनभिभवनीय इत्यर्थः, स च 'श्रमणानां साधूनां विशेषं जाना, यथा-ईशममीषां दर्शने व्रतम्, ईशश्च समाचारः । एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, एवंविधं क्षेत्रं तासां हेतोः प्रत्युपेक्षणीयमिति भावः ॥ तथा यत्र दुःशीलजनः तस्कर - श्वापदभयं वा यत्र नास्ति ईध्शे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्ये प्रत्युपेक्षणा कर्त्तव्या भवति ॥ अथ वसतिद्वारमाह
[भा. २०५८]
गुत्ता गुत्तदुवारा, कुलपुत्ते सत्तमंत गंभीरे । भीयपरिस मद्दविए, ओभासण चिंतना दाने ॥
वृ- 'गुप्ता' वृत्या कुड्येन वा परिक्षिप्ता । 'गुप्तद्वारा' कपाटद्वयोपेतद्वारा । यस्यां च शय्यातरः कुलपुत्रकः, कथम्भूतः ? 'सत्त्ववान्' न केनापि क्षोभ्यते, महदपि च प्रयोजनं कर्तुमध्यवस्यति । 'गम्भीरो नाम' संयतीनां पुरीषाद्याचरणं दृष्ट्वाऽपि विपरिणामं न याति । तथा मीता - चकिता पर्षद् यस्य स भीतपर्षद्, आज्ञैकसारतया यस्य भ्रुकुटिमात्रमपि दृष्टवा परिवारः सर्वोऽपि भयेन कम्पमानस्तिष्ठति न च कचिदन्याये प्रवृत्तिं करोति । मार्दवम् - अस्तब्धता तद् विद्यते यस्य स मार्दविकः । एवंविधो यदि कुलपुत्रको भवति ततः “ओभासण "त्ति संयतीनामुपाश्रयस्यावभाषणं कर्त्तव्यम् । अवभाषिते च यद्यसावुपाश्रयमनुजानीते - अनुग्रहो मे, तिष्ठन्तु भगवत्यो यथाऽभिप्रेतं कालमत्र' इति ततो भण्यते "चिंतन"त्ति यथा स्वकीयाया दुहितुः स्नुषाया वा चिन्तां करोषि तथा यद्येतासामपि प्रत्यनीकादुपसर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोऽत्र स्थापयामः । स प्राहबाढं करोमि चिन्तां परं कथं पुनरमू रक्षणीयाः ? । ततोऽभिधातव्यम्-यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दूयमाने रक्ष्येते तथैता अपि यद्यात्ममानुषैरपरमानुषैर्वा उपद्रूयमाणा रक्षसि तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org