________________
दृहत्कल्प-छेदसूत्रम् -२-१/८ द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स ढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः। संविग्नो द्विधा-द्रव्यो भावतश्च ।तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात्। भावतोयः संसारभयोद्विग्नः सन् नित्यं पूर्वरात्रा-ऽपररात्रकाले सप्रेक्षते-किं मया कृतम् ? किं वा मे कर्तव्यशेषम् ? किंवा शक्यमपि तपः कर्मादिकमहं न करोमि ? इत्यादि । “वज्ज"त्ति अकारप्रश्लेषाद् अवयं-पापं "सूचनात् सूत्रम्" इति कृत्वा तद्भीरु-अवधभीरु । ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति । सहः-द्रव्यतोवस्त्रादिभिर्भावतः सूत्राभ्याम्, उपग्रहः-द्रव्यतऔषधादिभिर्भावतो ज्ञानादिभिः, एतयोः संयतीविषययोः सङ्गहोपग्रहयोः कुशलःदक्षः। तथा सूत्रार्थविद् गीतार्थः । एवंविधः ‘गमाधिपति' आर्यिकाणांगणधरः स्थापनीयः॥ अथौजस्तेजसी व्याचष्टे[भा.२०५१] आरोह-परीणाहा, चियमंसो इंदिया य पडिपुत्रा।
अह ओओ तेओ पुन, होइ अनोतप्पया देहे ॥ वृ-आरोहो नाम-शरीरेण नातिदैर्ध्य नातिहस्वता, परिणाहो नाम-नातिस्थौल्यं नातिदुर्बलता; अथवा आरोहः-शरीरोच्छ्रायः परिणाहः-बाह्रोर्विष्कम्भः, एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ । “चियमंसो"त्ति भावप्रधानत्वाद् निर्देशस्य 'चितमांसत्वं नाम' वपुषि पांसुलिका नावलोक्यन्ते। तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षु-श्रोत्राद्यवयवविकलतेति भावः । अथ' एतद्आरोहादिकमोजउच्यते, तद्यस्यास्तिसओजस्वी।तेजः पुनः 'देहे शरीरे अनपत्रप्यता' अलज्जनीयता दीप्तियुक्तत्वेनापरिभूतत्वम्, त विद्यते यस्य स तेजस्वी ॥गतं गणधरप्ररूपणाद्वारम् । अथ क्षेत्रमार्गणाद्वारमाह[भा.२०५२] खित्तस्स उ पडिलेहा, कायव्वा होइ आनुपुवीए।
किं वच्चई गणहरो, जो चरई सो तणं वहइ॥ वृ-'क्षेत्रस्य' संयतीप्रायोग्यस्य 'आनुपूर्त्या “थुइमंगलमामंतण" इत्यादिना पूर्वोक्तक्रमेण प्रत्युपेक्षणा गणधरेणकर्तव्या। आह किं केन हेतुनागणधरः स्वयमेव क्षेत्रप्रत्युपेक्षणायव्रजति? उच्यते-योबलीवादिश्चारिं चरतिसएव तृणभारंवहति, एवंयोनिर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्ताभारमुद्वहति॥आह संयत्यः किमर्थं न गच्छन्ति ? इत्युच्यते[भा.२०५३] संजइगमणे गुरुगा, आणादी सउणि पेसि पिल्लणया।
उवलोभे तुच्छा आसियावणाइणो भवे दोसा॥ वृ-यदि संयत्यः क्षेत्रप्रत्युपेक्षितं गच्छन्ति ततआचार्यस्य चतुर्गुरव आज्ञादयश्च दोषाः। यथा 'शकुनिका' पक्षिणी श्येनस्य गम्या भवति यथा वा "पेसि"त्ति मांसपेशिका आम्रपेशिका वा सर्वस्याप्यभिलषणीया भवति तथा एता अपि; अत एव "पेल्लणय"त्ति विषयार्थिना प्रेर्यन्ते । तथातुच्छास्ताः, ततोयेन तेनाप्याहारादिलोभेनोपप्रलोभ्य आसियावणम्-अपहरणंतासां क्रियते। एवमादयो दोषा भवन्ति ।। इदमेव भावयति[भां.२०५४] तुच्छेण वि लोभिज्जइ, भरुयच्छाहरण नियडिसड्डेणं ।
जंतनिमंतण वहणे, चेइय रूढाण अक्खिवणं॥ कृतुच्छेनापिआहार-वस्त्रादिना स्त्रीलोभ्यते।अत्रच भृगुकच्छप्राप्तेननिकृतिश्राद्धेनोदाहरणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org