________________
उद्देशक : ३, मूलं-९४, [भा. ४२७७]
वृ-एते सर्वेऽप्याधाकर्मादयो दोषाः प्रथमे समवसरणे वस्त्रादिकं गृह्णतान वर्जिता भवन्ति । अथ पूर्वं दर्पतो न ग्रहीतमुपकरणं ततः प्रथमे समवसरणे यो गृह्णाति सोऽपि जिनैः-तीर्थकरैर्ये दृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो मन्तव्यः, भावतस्तेन दोषाणामङ्गीकृतत्वात् ।। [भा.४२७८] पढमम्मि समोसरणे, जावतियं पत्त-चीवरं गहियं ।
सव्वं वोसिरियव्वं, पायच्छित्तं च वोढव्वं ॥ वृ-प्रथमे समवसरणे दर्पतो यावत् पात्र-चीवरं गृहीतं तावत्सर्वमपि व्युस्रष्टव्यम्, प्रायश्चित्तं च गुरुप्रदत्तं यथोक्तं वोढव्यम् । अथवा कार्ये समुत्पन्ने यत् पात्रं वा चीवरंवा-चारणादिषु गृहीतं , तत्सर्वं कृते कार्येपरिष्ठापनीयम्, अपरिणामकप्रत्ययनिमित्तंचयथालघीयःप्रायश्चित्तंवोढव्यम्॥ [भा.४२७९] सज्झायट्ठा दप्पेण वा वि जाणंतए विपच्छित्तं ।
कारण गहियं तु विदू, धरेतऽगीएसु उज्झंति॥ वृ-स्वाध्यायार्थ दर्पण वा यदि "बहि-अंत-ऽसन्नि-सन्निसु, जं दिढं तेसु चेव जमदिटुं।" इत्यादिकं क्रममुलाय गृहीतं तत्र 'जानतोऽपि' गीतार्थस्यापि प्रायश्चित्तम् । यत्तु कारणे क्रमेण विधिना गृहीतं तद् यदि सर्वेऽपि 'विदः' गीतार्थास्तदा धारयन्ति । अथागीतार्थमिश्रास्ततोऽन्यस्मिन्नुपकरणे लब्धे तद् उज्झन्ति॥
अथ यस्मिन् काले वर्षावासे स्थातव्यं यावन्तं वा कालं येन वा विधिना तदेतदुपदर्शयति[भा.४२८०] · आसाढपुन्निमाए, वासावासासु होति अतिगमनं ।
मग्गसिरबहुलदसमी, उजाव एक्कम्मि खेत्तम्मि ॥ कृ-आषाढपूर्णिमायांवर्षावासप्रायोग्ये क्षेत्रे अतिगमनं प्रवेशःकर्तव्यो भवति।तत्रचापवादतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षेत्रे वस्तव्यम् । एतच्च चिक्खल्ल-वर्षादिकं वक्ष्यमाणं कारणमङ्गीकृत्योक्तम् । उत्सर्गतस्तु कार्तिकपूर्णिमायां निर्गन्तव्यम् ॥
इदमेव भावयति[भा.४२८१] बाहि ठिया वसभेहिं, खेत्तं गाहेत्तु वासपाउगं।
कपं कधेत्तु ठवणा, सावणबहुलस्स पंचाहे ॥ वृ-यत्राषाढमासकल्पः कृतस्तत्रअन्यत्र वाप्रत्यासनग्रामेस्थिता वर्षाक्षेत्रंवृषभैः साधुसामाचारी ग्राहयन्ति।तेच वृषभा वर्षाप्रायोग्यं संस्तारक-तृण-डगल-क्षार-मल्लकादिकमुपधिंगृह्णन्ति।तत आषाढपूर्णिमायां प्रविष्टाः प्रतिपद आरभ्य पञ्चभिरहोभि पर्युषणाकल्पं कथयित्वा श्रावण बहुलपञ्चम्यां वर्षाकालसामाचार्या स्थापनां कुर्वन्ति, पर्युषणयन्तीत्यर्थः॥ [भा.४२८२] एत्थ य अनभिग्गहियं, वीसतिरायं सवीसगं मासं ।
तेन परमभिग्गहियं, गिहिणायं कत्तिओ जाव ॥ वृ- 'अत्र' इति श्रावणबहुलपञ्चम्यादावात्मना पर्युषितेऽपि 'अनभिगृहीतम्' अन्वधारितं गृहस्थानांपुरतः कर्तव्यम् । किमुक्तं भवति? -यदि गृहस्थाः पृच्छेयुः-आरयाः! यूयमत्र स्थिता वा? नवा? इति; एवं पृष्टे सति स्थिता वयमत्र' इति सावधारणंन वक्तव्यम्, किन्तु साकारम्, यथा-नाद्यापिकोऽपि निश्चयःस्थिताअस्थिता वेति। इत्थमनभिगृहीतं कियन्तं कालं वक्तव्यम्? [19301
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org