SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उद्देशकः २, मूलं-५१, [भा. ३३०९] २७१ वृ-केचिदध्वनिर्गतादयः साधवो विवक्षितं ग्रामंप्राप्ताः, तत्र च गीतार्था पुरतो गत्वा त्रिकृत्वः शुद्धां वसतिं समीक्षन्ते-प्रत्युपेक्षन्ते । यदि तथासमीक्षितेन प्राप्यते तदा शाल्यादिबीजेषूत्कीर्णेषु प्रथमं स्थिरसंहननिषु तिष्ठन्ति, तदभावेऽस्थिरसंहननिष्वपि । तानिच बीजानि यतनया प्रमृज्य तत एकान्ते संहरन्ति-संस्थापयन्ति । संह्त्य च तत्र जधन्यं वा मध्यमं वा यथालन्दं वसन्ति । 'कारणं वा' अध्वपरिश्रमादिकं ज्ञात्वोत्कृष्टमपि यथालन्दं वसन्ति । अत्र पाठान्तरम्-“साहट्टमेगं तु" ति तानि बीजानि संहृत्य ततः ‘एकम्' इति जघन्यं यथालन्दं वसन्ति, शेषं प्राग्वत् । उत्कीर्णानामभावे विकीर्णेषु, तेषामभावेव्यतिकीर्णेषुतदप्राप्तौ विप्रकीर्णेष्वपि तिष्ठन्ति । तत्रापि प्रथमं प्रत्येकेषु, ततः साधारणेष्वपि । अथोक्रमेण तिष्ठन्ति ततो मासलघु । संयतीनामप्येवमेव द्वितीयपदं मन्तव्यम् ॥ म. (५२) अह पुन एवंजाणिजा-नो उक्खित्ताइं नो विक्खित्ताईनो विइकिन्नाइं नो विपकिन्नाई रासिकडाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि वा लंछियाणि वा मुद्दियाणि वा पिहिताणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु वत्थए। वृ-अथ पुनरेवंजानीयात्-तानि शाल्यादीनि बीजानि तत्रोपाश्रये नोउत्क्षिप्तानि नो विक्षिप्तानि नो विकीर्णानि नो विप्रकीर्णानि, किन्तु राशीकृत्वानी वा पुजीकृतानि वा भित्तिकृतानि वा कुलिकाकृतानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा, तत एवं कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त-ग्रीष्मेषु वस्तुमिति सूत्राक्षरार्थः ।। अत्र भाष्यम्[भा.३३१०] रासीकडा य पुंजे-कुलियकडा पिहित मुद्दिते चेव । ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु ॥ वृ. यत्रोपाश्रये राशीकृतानि पुञ्जीकृतानि पिहितानि मुद्रितानी चशब्दार्द भित्तिकृतानि लाञ्छितानि च बीजानितत्र तिष्ठतां चतुर्लघुकाः। कस्य पुनरेतत् प्रायश्चित्तम् ? उच्यते-अगीतार्थस्य। 'सूत्रंतु' सूत्रं पुनर्गीतार्थविषयं द्रष्टव्यमिति वाक्यशेषः॥अथ राशीकृतादिपदानां व्याख्यानमाह- [भा.३३११] पुंजो य होति वट्टो, सो चेव य ईसिआयतो रासी। कुलिया कुड्डल्लीणा, भित्तिकडा संसिया भित्ती॥ वृ-'वृत्तः' वृत्ताकारो धान्योत्करः पुञ्ज इत्युच्यते । स एव 'ईषदायतः' मनाग दीर्थो राशिः । अपुञ्जः पुनः कृतानीति व्युत्पत्त्या पुजीकृतानि, एवं राशीकृतानीत्यपि। तथा कुलिका कुड्यमुच्यते, ततः कुलिकाकृतानि नाम कुड्यालीनानि कृत्वा स्थापितानि । भित्तिकृतानि तु मित्तौ संश्रितानि, भित्तिनिश्रया स्थापितानीत्यर्थः । अथ कुड्य-भित्त्योः कः प्रतिविशेषः? उच्यते-इष्टकादिरचिता भित्तिः, मृत्पिण्डादिनिर्मितं कुड्यम् ।। [मा.३३१२] छारेण लंछिता, मुद्दा पुन छाणपानियं दिन्नं । परिकल्लाई करेत्ता, किलिंजकडएहि पिहिताई। वृ-लाञ्छितानि नाम ‘क्षारेण 'भस्मना चिह्नितानि । तथा मुद्रा पुनः छगणपानीयं तद् यत्र प्रदत्तं तानि मुद्रितानि । “परिकल्लाइं" ति यानि नापि लाञ्छितानि नापि मुद्रितानि तानि पिहितान्युच्यन्ते । एवंविधेषु बीजेषु हेमन्त-ग्रीष्मयोर्गीतार्थस्य वस्तुं कल्पते नागीतार्थस्येति ।। परःप्रेरयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy