________________
२७८
बृहत्कल्प-छेदसूत्रम् -२-२/५२ प्रवसति ।प्रोषितेच तस्मिन् गृह एव वा निश्चिन्ततया धान्यानां व्यापारमवहमाने तेषामपि संयतानां प्रीतिकं भवति-साधु साधु सागारिकवर्जितं जातम् ॥ अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टे[भा.३३३९] तेसु ठिएसु पउत्थो, अच्छंतो वा वि न वहती तत्तिं ।
जति वि य पविसितुकामो, तह वि य न चएति अतिगंतुं॥ वृ-'तेषु' संयतेषु तत्र स्थितेषु स सागारिको निश्चिन्ततया प्रोषितो गृहे वा तिष्ठन् धान्यानां 'तप्ति' व्यापारं न वहति । यद्वा धान्यं सम्भालयितुं यद्यप्यसौ तत्र प्रवेष्टुकामः तथापि 'नातिगन्तुं' न प्रवेष्टुं शक्नोति ॥ कुतः ? इति चेद् उच्यते[भा.३३४०] संथारएहि य तहिं, समंततो आतिकिन्न विइकिन्न ।
सागारितो न एती, दोसे य तहिं न जाणाती॥ वृ-संस्तारकैः ‘तत्र' उपाश्रये समन्ततः ‘अतिकीर्ण' परिपाट्या प्रसृतैर्मालितं 'व्यतिकीर्णं' तैरेवानानुपूर्व्या प्रसृतैव्याप्तं दृष्ट्वा सागारिकः 'नैति' नागच्छति, ततो ये तत्र धान्यपरिशटनादयो दोषास्तानसौनजानीते॥गता अनुज्ञापनायाअयतना।अथ संयतलक्षणस्वपक्षविषयांयतनामाह[भा.३३४१] ते तत्थ सन्निविट्ठा, गहिया संथारगा जधिच्छाए।
नानादेसी साधू, कासइ चिंता समुप्पन्ना ।। कृ'ते' अगीतार्था तत्र' उपाश्रये सन्निविष्टाः' स्थिताः, यदृच्छया चतैस्तत्र संस्तारका गृहीताः, न गणावच्छेदिकेन यथारनाधिकं प्रदत्ता इति भावः, नानादेशीयाश्च तत्र साधवः, तेषां मध्ये “कासई"त्ति कस्यचिद् मन्दधर्मणश्चिन्ता समुत्पन्ना ॥ यथा[भा.३३४२] अनुहूया धन्नरसा, नवरं मोत्तूण सेडगतिलाणं ।
काहामि कोउहल्लं, पासुत्तेसु समारद्धो । वृ-अनुभूतास्तावदपरेषां धान्यानां रसाः, 'नवरं' केवलं “सेडगतिलाणं"ति श्वेतकतिलानां रसं मुक्त्वा, अत एतद्विषयं 'कौतुकम्' अभिलाषं करिष्यामि' पूरयिष्यामीत्यर्थः । एवं विचिन्त्य शेषसाधुषु रात्रौ प्रसुप्तेषु समारब्धस्तान् तिलान् भक्षयितुम् । ततश्च[भा.३३४३] विगयम्मि कोउहल्ले, छट्ठवतविराधन त्ति पडिगमनं ।
वेहानस ओहाणे, गिलाण सेधेण वा दिट्ठो॥ वृ-'विगते' व्यतीते सति कौतुके षष्ठव्रतस्य विराधना ममाभूत्, एकव्रतभङ्गे च सर्वव्रतभङ्गः' इति कृत्वा ‘प्रतिगमनं' भूयोऽपि गृहवासाश्रयणं कुर्यात्, वैहायसं वा मरणमभ्युपगच्छेत्, 'अवधावनं वा' संविग्नविहारं कुर्वीत, पार्श्वस्थादिविहारमाद्रियेत इत्यर्थः । अथवा स संयतस्तिलभक्षणं विदधानो ग्लानेन वा शैक्षेण वा दृष्टो भवेत् । ततश्च[भा.३३४४] दटूण वा गिलाणो, खुधितो भुंजेज जा विराधनत ।
एणेव सेधमादी, भुंजे अप्पच्चयो वा सिं ॥ वृ- तं साधुं तिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितः सन् तांस्तिलान् भुञ्जीत्, ततश्चापथ्यप्रतिसेवनेन या तस्य परितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव शैक्षादयोऽपि तं तिलान् भुञ्जानं दृष्ट्वा तथैव भुञ्जीरन्, अप्रत्ययो वा तेषां भवेत्-यथैतद् मृषा तथाऽन्यदप्यमीषामेवंविधमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org