________________
उद्देशक : ३, मूलं - ८८, [भा. ३९२३]
वृ-अथ आचार्य ! त्वम् 'इच्छसि' मन्यसे 'तेच' वस्त्रच्छेदनसमुत्थाः शब्द-पक्ष्म-वातादिपुद्गला न 'दूरं' लोकान्तं यान्ति तर्हि तैः 'संक्षोभिताः' चालिताः सन्तोऽपरे व्रजन्ति, एवमपराऽपरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्द्धमधस्तिर्यक् चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति ।।
यत एवमतः
[भा. ३९२४] विन्नाय आरंभमिणं सदोसं, तम्हा जहालद्धमधिट्ठिहिज्जा । वुत्तं सएयो खलु जाव देही, न होति सो अंतकरी तु वाव ॥
वृ- 'इमम्' अनन्तरोक्तं सर्वलोकपुरणात्मकमारम्भं 'सदोषं' सूक्ष्मजीवविराधनया सावद्यं विज्ञाय 'तस्मात् ' कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्, न छेदनादिकं कुर्यात् । यतः 'उक्तं' भणितं व्याख्याप्रज्ञप्तौ-यावदयं 'देही' जीवः 'सैजः' सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:-जाव नं एस जीवे सया समियं एयइ वेयइ चलइ फंदह घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव नं तस्स जीवस्स अंते अंतकिरिया न भवति । अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेया इति, नैवम्, यतः[भा. ३९२५] जा यावि चिट्ठा इरियाइआओ, संपस्सहेताहिं विना न देहो ।
संचिट्ठए नेवमछिजमाणे, वत्थम्मि संजायइ देहनासो ॥
३९३
वृ-याश्चापि चेष्टा ईर्यादिकाः सम्पश्यत, तत्रेरणमीर्या भिक्षा-संज्ञाभूम्यादौ गमनम्, आदिशब्दाद् भोजन-शयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् 'न सन्तिष्ठते' न निर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्र पुनरच्छिद्यमाने नैवं देहनाशः सज्जायते, अतो न तत् छेदनीयम् ॥ किञ्च
[भा. ३९२६] जहा जहा अप्पतरो से जोगो, तहा तहा अप्पतरो से बंधो । निरुद्धजोगिस्स व से न होति अछिद्दपोतस्स व अंबुनाधे ॥
वृ-यथा यथा “से” रास्य जीवस्याल्पतरो योगस्तथा तथा “से” तस्याल्पतरो बन्धो भवति, यो वा निरुद्धयोगी - शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहति तस्य 'सः' कर्मबन्धोन भवति । दृष्टान्तमाह-अच्छिद्रपोतस्येव 'अम्बुनाथे' समुद्रे । यथा किल निश्छिद्रप्रवहणं सलिलसञ्चयसम्पूर्णऽपि जलधौ वर्त्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जन चूर्णसमुद्गकवद् निरन्तरनिचितेऽपि लोके वर्त्तमानः स्वल्पीयोऽपि कर्म नोपादत्ते । अतः कर्मबन्धस्य योगान्वय-व्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वस्त्रच्छेदनादिव्यापारो न विधेयः ।। इत्यथं परेण स्वपक्षे स्थापिते सति सूरिराह
[भा. ३९२७]आरंभमिट्ठो जति आसवाय, गुत्तीय सेआय तधा तु साधू ! । मा फंद वारेहि व छिजमाणं, पतिन्नहाणी व अतोऽन्नहा ते ।।
वृ- "आरंभमिट्ठी' त्ति मकारोऽलाभणिकः, हेनोदक! यद्यारम्भस्तव 'आश्रवाय' कर्मोपादानाय 'इष्टः' अभिप्रतेः 'गुप्तिश्च' तत्परिहाररुपा 'श्रेयसे' कर्मानुपादानायामिप्रेता, तथा च सति हे साधो ! मा स्पन्द मा वा वस्त्र छिद्यमानं वारय । किमुक्तं भवति ? - यदि वस्त्रच्छेदनमारम्मतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाया हस्तस्पन्दनादिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ । 'अतः '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org