________________
३३४
बृहत्कल्प-छेदसूत्रम् -२-२/७०
अच्छिन्ना च ।। अर्थता एव भावयति[भा.३६२१] संकप्पियं व दव्वं, दिट्ठा खेत्तेण कालतो छिन्नं ।
दोसु उ पसंगदोसा, सागारिए भावतो दुविहो ॥ वृ-यद् द्रव्यं सङ्कल्पितम् यथा-अमुकं धृतपूरादिकं तत्र गृहे नेतव्यम्, वाशब्दस्यानुक्तप्रकारान्तरद्योतकत्वाद् यद् वा तत्र गृहे नयनार्थं पृथक् स्थापितम्, तदुभयमपि द्रव्यतश्छिन्नम् । या पृतराहृतिका स्वगृहमानीयमाना सागारिकेण दृष्टा सा क्षेत्रतश्छिन्ना । तथा 'अमुकस्यां वेलायांनेतव्यम्' इति निर्दिष्टं द्रव्यं कालतश्छिन्नम् । उपलक्षणमिदम्, तेन ‘न नेष्यामि' इति यत्र भावो निवृत्तस्तभावतश्छिन्नम्।अच्छिन्ना त्वाहृतिका चतुर्द्धाऽप्येतद्विपरीता। तथा 'द्वयोर्भङ्गयोः' 'द्रव्यतः प्रतिगृहीता न भावतः, नापि द्रव्यतो नापि भावतः प्रतिगृहीता न द्रव्यतः' इत्येवंरुपो यो भङ्गः, यश्च 'द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता' इत्येवंलक्षणो द्विविधः प्रतिगृहीतो भङ्गः, एतयोः सागारिकपिण्ड इति कृत्वा न कल्पते ॥ अथैनामेव नियुक्तिगाथां व्याचष्टे[भा.३६२२] संकप्पियं वा अहवेगपासे, सगारिदिळं अमुगंतु वेलं। .
नियट्ट भावे नऽमुगं अदिट्ठा, काले न निद्देस अछिन्न भावे ।। वृ-यद् घृतपूरादि तत्र गृहे नयनाय सङ्गल्पितम्, अथवा यदेकपार्थे विश्वक् स्थापितं तदेतद् द्रव्यतश्छिन्नम् । सागारिकेण स्वगृहमानीयमानं यद् दृष्टं तत् क्षेत्रतश्छिन्नम् । 'अमुकस्यां' मध्याह्लादिलक्षणायां वेलायां नेतव्यमिति निर्दिष्टं कालतश्छिन्नम् । यत्रतु 'न नेष्यामि' इति भावो निवृत्तस्तद्भावतश्छिन्नम् । एवं चतुर्द्धाऽपि छिन्नं व्याख्यातम् । अथाच्छिन्नं व्याख्याति-“नऽमुगं" इत्यादि । यद् द्रव्यममुकं नेतव्यमिति न सङ्कल्पितं न वा पृथक् स्थापितं तद् द्रव्यतोऽच्छिन्नम् । या वा आहृतिका सागारिकेणानीयमाना न द्दष्टा तत् क्षेत्रतोऽच्छिन्नम् । कालेऽच्छिन्नं यत्र प्रतिनियताया वेलाया निर्देशो नास्ति। भावेऽच्छिन्नं तु यत्राद्यापि नेष्यामि' इतिभावोऽव्यवच्छिन्नः, न निवर्त्तते इत्यर्थः ॥अथात्रैव ग्रहणविधिमाह[भा.३६२३] भावो जाव न छिज्जइ, विप्परिणय गेण्ह मोत्तु खेत्तं तु।
खेते वि होति गहणं, अद्दिढे विपरिणतम्मि॥ वृ-भावो यावदद्यापि न व्यवच्छिद्यते तावन्न कल्पते । यदा तु 'न नेष्यामि' इति भावः 'विपरिणतः' व्यवच्छिन्नस्तदा क्षेत्रच्छिन्नं मुक्त्वा यदन्यत् क्षेत्रतोऽच्छिन्नं यञ्च द्रव्यतः कालतश्च छिन्नमच्छिन्नं वा तद्ग्रहीतुंकल्पते, क्षेत्रच्छिन्नस्यापि ग्रहणं भवति यदि स तद्रव्यं नयनपान्तराले 'न नेष्यामि' इति विपरिणतो भवति, तञ्च सागारिकेण अष्टम्-अश्यमानं ग्रहीतव्यम् । यतः[भा.३६२४] पुरतो पसंग-पंता, अचियत्तं चेव पुव्वभणियं तु ।
बितिय-ततिया उ पिंडो, पढम-चउत्था पसंगेहिं । वृ-अथ सागारिकस्य पुरतो गृह्णन्ति ततो भद्रकः प्रसङ्गः तन्निश्रया तत्र प्रक्षेपम्, प्रान्तश्च निष्काशनादिकं कुर्यात्, अप्रीतिकंच पूर्वभणितं तस्य तथापश्यतो गृह्यमाणे भवति, ततः पुरतो न ग्रहीतव्यम् । तथा द्वितीय-तृतीयौ भङ्गौ शय्यातरपिण्ड इति कृत्वा परिहत्तव्यौ । प्रथम चतुर्थी तु न शय्यातरपिण्डः, परं प्रसङ्गदोषभयात् तावपि परिहर्तव्यौ ॥ अथाचार्यो विनेयवर्गव्युत्पादनार्थमाक्षेप-परिहारौ निरुपयितुकाम इदसाह
Jain Education International
For Privatë & Personal Use Only
www.jainelibrary.org