________________
१६७
-
उद्देशकः १, मूलं-४१, [भा. २८२६] भविष्यति इति विचिन्त्य लोभाद्भयांसि वस्त्राणिदत्त्वा प्रलोभयेत् । यस्तु तरुणः स विकारबहुल उत्कटमोहश्च भवति, संसृष्टः पूर्वोभ्द्रामकः, 'भोक्ता' प्राक्तनो भर्ता, एतेषां हस्तादादीयमाने वस्त्रे शङ्कादय आत्मोभयसमुत्थाश्च दोषा भवन्ति ॥ [भा.२८२७] दाहामो णं कस्सइ, नियया सो होहिई सहाओ ने।
सन्नी वि संजयाणं, दाहिइ इति विप्परीणामे॥ वृ-मातृ-पितृप्रभृतयः 'निजकाः' स्वजनाश्चिन्तयन्ति-यस्य क स्याप्येनां वयं दास्यामः सः अस्माकं सहायो भविष्यति; यस्तु संज्ञी' श्रावकः सोऽपि-एषा मेधर्मसहाया भविष्यति, अन्यच्च संयतानामेषा विपुलं भक्तपानंमदीये गृहेवर्तमाना दास्यति; इति एवंचिन्तयित्वा विपरिणामयेत्, विपरिणाम्यचोन्निष्क्रमणंकारयेत् । यत एवमत एतानि स्थानानि वर्जयित्वायानि भावितकलानि तेषु ग्रहीतव्यम् । भावितकुलानामभावे प्रतिषिद्धस्यानेष्वेव पश्चानुपूर्व्या गृह्णीयात्-प्रथमं यः सभोगिनीकः श्रावकस्स्य सकाशाद् ग्रहीतव्यम्, तस्याभावेऽभोगिनीकश्रावकहस्तादपि, एवं प्रतीपक्रमेण तावद्वक्तव्यंयावद्भिक्षुकाणामभावेकापालिकानांसकाशादपियतनया वस्त्रग्रहणं कर्तव्यम् ।। यतनामेवाह[भा.२८२८] मग्गंति थेरियाओ, लद्धं पि य थेरियाउ गेहंति ।
आगार द? तरुणीण व देंते तं न गिण्हंति ॥ वृ-याः स्थविराधर्मश्रद्धालवो गीतार्थाश्च ता वस्त्राणिमार्गयन्ति । लब्धमपिच वस्त्रं दायकसकाशात् स्थविरा एव गृह्णन्ति । अथासौ दाता काणाक्षिप्रभृतीनाकारन् करोति, स्थविरयावा हस्ते प्रसारितेभणति-तवन ददामि, एतस्यास्तरुण्याःप्रयच्छामीति। एवमाकारान् दृष्ट्वा तरुणीनां वा ददतं दायकं विज्ञाय तद वस्त्रं न गृह्णन्ति॥
एवमादिदोषविप्रमुक्तं वस्त्रमुत्पाद्य वसति प्राप्तानामयं विधिः[भा.२८२९] सत्त दिवसे ठवित्ता, कप्पे कते थेरिया परिच्छंति ।
सुद्धस्स होइ धरणा, असुद्ध छेत्तुंपरिट्ठवणा ।। वृ-सप्तदिवसान् वस्त्रं स्थापयन्ति । यद्यथापयित्वा परिभुञ्जते तदा चत्वारो गुरव आज्ञादयश्च दोषाः । यत एवं ततः स्थापयित्व कल्पं-प्रक्षालनं कुर्वन्ति । कृते च कल्पे स्थविरास्तद् वस्त्रं प्रावृत्य परीक्षन्ते । यदि शुद्धं ततस्तस्य धारणम्, अथ 'अशुद्धम्' अशुद्धभावोत्पादकं तद् वस्त्रं ततस्तत् छित्त्वा परिष्ठापनं कर्त्तव्यम् ॥अथ वस्त्रोत्पादनविनिर्गतानां निर्ग्रन्थानां निर्ग्रन्थीनां च सामान्यतो लाभा-ऽलाभादिनिमित्तपरिज्ञानोपायमाह[भा.२८३०] जंपुन पढमं वत्थं, चउकोणा तस्स होति लाभाए।
वितिरिच्छंऽता मज्झे, य गरहिया चउगुरू आणा ॥ वृ-यत् पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारो कोणकास्ते वक्ष्यमाणाञ्जन-खञ्जनलेपादिचिह्नोपलक्षिता लाभाय भवन्ति, उपलक्षणमिदम्, तेन यौ अञ्चलमध्यभागौ तावपि लाभाय भवतः । यौ तु वितिरश्चीनौ कर्णपट्टिकाया अन्त्यौ विभागौ यश्च तयोर्मध्यवर्ती विभागः एते त्रयोऽप्यञ्जनलेपादिचिह्नोपलक्षिताः 'गर्हिताः' अप्रशस्ताः । एतेषु चात्मविराधनासद्भावाच्चतुर्गुरुकमाज्ञा च भगवतां विराधिता भवति । अयमेवार्थोऽन्याचार्यपरिपाट्याऽभिधीयते
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org