________________
२५०
बृहत्कल्प-छेदसूत्रम् -२-१/४९
वृ-अस्य व्याख्या प्राग्वत्॥अथ भाष्यम्[भा.३२२२] सोचेवय संबंधो, नवरिपमाणम्मि होइ नाणत्तं ।
. जे यजतीणं दोसा, सविसेसतरा उ अजाणं ॥ वृ-'स एव' निर्ग्रन्थसूत्रोक्तः सम्बन्ध इहापिसूत्रे ज्ञातव्यः । 'नवरं' केवलंप्रमाणे निर्ग्रन्थेभ्यो निर्ग्रन्थीनां नानात्वम्, निर्ग्रन्थानां द्वयोस्त्रयाणां वा निर्गन्तुं कल्पते, निर्ग्रन्थीनां तु द्वयोस्तिसृणां चतसृणां वा इत्ययं सङ्ख्याकृतो विशेष इति भावः । 'ये च' स्तेना-ऽऽरक्षिकादयो यतीनामेकाकिनिर्गमने दोषाः पूर्वसूत्रे उक्ताः आर्याणामपि त एव सविशेषतरा मन्तव्याः, तरुणाधुपद्रवसहिता इति भावः ॥ [भा.३२२३] बहिया वियारभूमी, निग्गंथेगाणियाए पडिसिद्धा।
चउगुरुगाऽऽयरियादी, दोसा ते चेव आणादी। वृ-रात्रौ बहिर्विचारभूमौ गमनमेकाकिन्या निर्ग्रन्थ्याः प्रतिषिद्धम् । अत एवैतत् सूत्रमाचार्य प्रवर्त्तिन्या न कथयति चतुर्गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिशृण्वन्तिमासलघु। प्रवर्तिनीवचनमतिक्रम्य भिक्षुण्यो बलामोटिकया एकाकिन्यो गच्छन्ति चतुर्गुरवः । दोषाश्च त एवाज्ञादयो द्रष्टव्याः ॥ [भा.३२२४]भीरू पकिच्चेवऽबला चलाय, आसंकितेगा समणी उ रातो।
मा पुप्फभूयस्स भवे विनासो, सीलस्स थोवाण न देंति गंतुं॥ वृ-इह स्त्री प्रकृत्यैव' स्वभावेनैव भीरु' अल्पसत्त्वा, पुरुषंचप्राप्यसा अबला' अकिञ्चित्करी, अत एव तस्या अबलेति नाम, अबला चस्वभावादेव चञ्चला, अत एव एकाकिनी श्रमणी रात्री विचारभूमौ गच्छन्ती आशङ्किता स्यात्-अवश्यमेषा व्यभिचारिणीति । अतो म 'पुष्पभूतस्य' शिरीषपुष्पसुकुमारस्य शीलस्य विनाशो भवेदिति कृत्वा स्तोकानामार्याणां रात्रौ विचारभूमौ गन्तुंभगवन्तः 'न ददति' नानुजानन्तीत्यर्थः ॥उपाश्रयेऽपि ताभिरीशे वस्तव्यमिति दर्शयति[भा.३२२५] गुत्ते गुत्तदुवारे, कुलपुत्ते इत्थिमज्झे निदोसे।
भीतपरिस मद्दविदे, अज्जा सिज्जायरे भणिए ।। वृ-'गुप्तोनाम' वृत्यादिपरिक्षिप्तः, 'गुप्तद्वारः' सकपाटः, ईशेउपाश्रयेस्थातव्यम्।शय्यातरश्च तासां कुलपुत्रको गवेषणीयः। तस्यैव शय्यातरस्यया भगिनीप्रभृतयः स्त्रियस्तासां सम्बन्धि यद् गृहं तन्मध्यवर्ती संयतीनामुपाश्रयो भवति । सोऽपि 'निर्दोषः' पुरुषसागारिकादिदोषरहितः । कुलपुत्रकश्च भीतपर्षद् मार्दविकश्चान्वेषणीयः । भीतपर्षद् नाम-यद्भयात् तदीयः परिवारोन कमप्यनाचारं कर्तुमुत्सहते।मार्दविको नाम-मधुरवचनः । ईशआर्यायाः शय्यातरो भणितः॥
रात्रौ च प्रतिश्रये ताभिरियं यतना कर्तव्या[भा.३२२६] पत्थारो अंतो बहि, अंतो बंधाहि चिलिमिली उवरिं।
तंतह बंधति दारं, जहणं अन्ना न याणाई॥ वृ-'प्रस्तारः' कटः स एकः प्रतिश्रयाभ्यन्तरे द्वितीयस्तु प्रतिश्रया बहि कर्तव्यः । 'अन्तश्च' अभ्यन्तरे कटस्योपरि चिलिमिलिकां 'बधान' नियन्त्रय । तत्र च प्रतिहारी तथा बघ्नाति द्वारं यथा “णं" इति ‘तान्’ बन्धान् नान्या संयती मोक्तुं जानाति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org