________________
२४४
बृहत्कल्प-छेदसूत्रम् -२-१/४७ ततः पृष्टः सन्नेवंब्रूयात्-अतिक्रमिष्याम्यहं सङ्घडीम्, अग्रतोगमिष्यामीत्यर्थः; अथवा अन्यायपदेशं करोति, अन्यत् किमपि प्रतिवचनं ब्रूत इति भावः॥ [भा.३१९४] तहियं पुव्वं गंतुं, अप्पोवासासु ठाति वसहीसु।
जेय अविपक्कदोसा, न नेति ते तत्थ अगिलाणे॥ वृ-'तत्र' सङ्खडिग्रामे पूर्वमेवगत्वायाअल्पावकाशावसतयस्तासु तिष्ठन्ति ।गाथायां "ठाइ" त्ति एकवचननिर्देशः प्राकृतत्वात्, एवमन्यत्रापि वचनव्यत्ययो यथायोगं द्रष्टव्य इति । विस्तीर्णावकाशासु पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त एवासङ्खडादयो दोषाः । ये च तत्र ‘अविपक्वदोषाः' इन्द्रिय-कषायान् निग्रहीतुमसमर्था अविकोविदा वा साधवः, आह च चूर्णिकृत्- अविपक्वदोसा नाम जे असमत्था निगिहिउं इंदिय-कसाए अविकोविया वा । ते तत्रालङ्कृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षया 'अग्लाने' ग्लानकार्याभावे न निर्गच्छन्ति॥
अथ ग्लान्सय प्रायोग्यग्रहणे विधिमाह[भा.३१९५]विना उ ओभासित-संथवेहि, जंलब्मती तत्थ उ जोग्गदव्वं ।
गिलाणभुत्तुवरियं तगंतु, न भुंजमाणा वि अतिक्कमंति॥ वृ-अवभाषणमवभाषितं-याचनमित्यर्थः, संस्तवनं संस्तवः-दातुर्गुणविकत्यनं तेन सहात्मनः सम्बन्धविकत्थनं वा, ताभ्यां विनाऽपि 'तत्र' सङ्खड्यां यत् प्रायोग्यद्रव्यं लभ्यते तत् प्रथमतो ग्लानस्य दातव्यम् । ततो ग्लानेन तन्मध्याद् यद् भुक्तं तत उद्वरितं भुजाना अपि साधवः 'नातिक्रामन्ति' न भगवदाज्ञां विलम्पन्ति। [भा.३१९६] ओभासियं जंतु गिलाणगट्ठा, तंमानपत्तंतु निवारयति ।
तुझे व अन्ने व जया तुति, मुंजेत्थ तो कप्पति नऽन्नहा तू ॥ कृ-'यत्तु यत्पुनःप्रायोग्यद्रव्यंग्लानार्थमवभाषितंतद्यदा'मानप्राप्त वैद्योपदिष्टपथ्यमात्राप्राप्त भवति तदा 'निवारयन्ति' पर्याप्तमायुष्मन् । एतावता अतः परं ग्लानस्य नोपयोक्ष्यते । एवमुक्ते यदातेगृहस्थाएवंब्रूवते-'यूयं वाअन्येवासाधवोभुञ्जीध्वम् तदाग्लानप्रायोग्यप्रमाणादधिकमपि ग्रहीतुंकल्पते नान्यथा।तुः पादपूरणे ॥ इदमेव स्फुटतरमाह[भा.३१९७]दिने दिने दाहिसि थोव थोवं, दीहा रुया तेन न गिण्हिमोऽम्हे। ...
न हावयिस्सामो गिलाणगस्सा, तुब्भेवता गिण्हह गिण्हणेवं ॥ वृ-भोः श्रावक ! ग्लानस्य 'दीर्धा' चिरकलस्थायिनी 'रुग्' रोगः समस्ति, अतो दिने दिने स्तोकं स्तोकमिद ग्लानयोग्यं द्रव्यं दास्यसि, तेन कारणेन वयमिदं न गृह्णीमः । ततो यदि ते गृहस्था ब्रूवेत-वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः, यूयमपि च तावत् प्रसादं कृत्वा गृह्णीत । एवमुक्तेप्रमाणप्राप्त दधिकस्यापि ग्रहणं कर्त्तव्यम्॥एवंतावत्साधूनांप्रवेशे लभ्यमाने विधिरुक्तः । अथ यत्र साधवः प्रवेशं न लभन्ते नद्विषयं विधिमाह[भा.३१९८] न विलब्भई पवेसो, साधूणं लब्भएत्थ अज्जाणं ।
वावारण परिकिरणा, पडिच्छणा चेव अजाणं ॥ वृ- यत्रान्तःपुरादौ 'नापि' नैव साधूनां प्रवेशो लभ्यते किन्तु लभ्यते तत्रार्यिकाणां प्रवेशः, · कर्मकर्तर्ययं प्रयोगः ततः षष्ठी विभाक्तिरदुष्टा, तत्रार्यिकाणां व्यापारणा विधेया। ततस्ता अन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org