________________
उद्देशक : १, मूलं- ४७, [भा. ३१९८ ]
२४५
पुरादौ प्रविश्य प्रज्ञापयन्ति । तथापि चेन्न प्रवेशो लभ्यते ततः “परिकिरण" त्ति ता आर्थिका ग्लानप्रायोग्यं गृहीत्वा साधूनां पात्रेषु चेत्र परिकिरन्ति प्रक्षिपन्ति । तत आर्यिकाणा हस्ताद् ग्लानप्रायोग्यं प्रतीच्छन्ति ।। इदमेव स्पष्टयति
[भा. ३१९९] अलब्भमाणे जतिणं पवेसे, अंतेपुरे इब्मधरेसु वा वि । उज्जाणाई व संठियाणं, उज्जाउ कारिंति जतिप्पवेसं ॥
वृ- राजादिनामन्तःपुरे वा इभ्यगृहेषु वा यतीनां प्रवेशेऽलभ्यमाने उद्यानादिषु वा संस्थितानां साधूनामनागन्तुकानामित्यर्थः, आर्यास्तत्र यतीन् प्रवेशं कारयन्ति । कथम् ? इति चेद् उच्यतेता आर्यिका अन्तःपुरादौ गत्वा प्रज्ञापयन्ति यथैते भगवन्तो महातपस्विनो निस्पृहाः, एतेभ्यो दत्तं बहुफलं भवति । एवमादिप्रज्ञापनया यदा तानि कुलानि भावितानि भवन्ति तदा साधवः प्रविशन्ति ।। अथ तथापि प्रवेशो न लभ्यते ततः किं कत्तुव्यम् ? इत्याह
[भा. ३२०० ] पुराणमाईसु व नीणवेंति, गिहत्थभाणेसु सयं व ताओ । अंगारिकाए जतिच्चएही, हिट्ठोवभोगेहि अ आनवेंती ॥
वृ- आर्यिका गृहस्तभाजनेषु ग्लानप्रायोग्यं गृहीत्वा पुराणादिभिर्गृहस्थैः साधुसमीपं 'नाययन्ति' प्रापयन्तीत्यर्थः । अथ ताशो गृहस्थो न प्राप्यते ततः स्वयमेव ता आर्यिका गृहिभाजनेषु गृहीत्वा साधुसमीपं नयन्ति । अथागारिणः शङ्कां कुर्युः - 'नूनमेता गृहस्थभाजनेष्वेवंविधमुत्कृष्टद्रव्यं गृहीत्वा केषाञ्चिदविरतिकानां प्रयच्छन्ति' ततो यतीनां सत्कानि यानि अधस्तादुपभोग्यानि - असम्भोग्यानि भाजनानि उपहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति आनयन्ति वा ॥ अथ न सन्ति साधूनामसम्भोग्यानि माजनानि ततः
[भा.३२०१] तेसामभावा अहवा वि संका, गिण्हंति मानेसु सएसु ताओ । भोमासु उ तस्स भोगो, गारत्थि तेसेव य भोगिसू वा ॥
वृ- 'तेषां' संयतभाजनानामभावात्, अथवा तेषु गृह्यमाणे गुहस्थानां 'शङ्का भवेत्' 'एतानि संयतभाजनानि, तदवश्यमेताः संयतानां प्रयच्छन्ति' ततः 'ताः' आर्यिका स्वकेषु भाजनेषु गृह्णन्ति । ततः साधवोऽसम्भोग्यभाजनेषु गृहीत्वा 'तस्य' प्रायोग्यद्रव्यस्य मोगं कुर्वते । असम्भोग्यभाजनाभावे गृहस्थभाजनेषु । अथ तान्यपि न सन्ति ततः 'तेष्वेव' संयतीभाजनेषु भुञ्जते । अथ संयतीनां तैर्भाजनैः शीघ्रं प्रयोजनं ततः साम्भोगिकेष्वपि भाजनेषु प्रतिप्यते । एवं तावद् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ॥ अथ सङ्घडीगमने कारणान्तराण्याह[भा. ३२०२ ] अद्धाणनिग्गयादी, पविसंता वा वि अहव ओमम्मि । उवधिस्स गहण लिंपण, भावम्मि य तं पि जयणाए ।
वृ- अध्वनो निर्गताः आदिशब्दादशिवादिनिर्गता वा, अध्वनि वा प्रविशन्तः, अथवा 'अवमे' दुर्भिक्षे वर्त्तमानाः सङ्घडिं गच्छेयुः । अथवा यत्र ग्रामोदौ सङ्घडिस्तत्र 'उपधिः' वस्त्रपात्रादिकः सुलभस्तस्य ग्रहणार्थं गन्तव्यम्; पात्रकाणि वा लेपनीयानि सन्ति, तत्र च लेपः प्रचुरः सुप्रापश्च; भावो वा शैक्षस्य सङ्घडिगमने समुत्पन्नः; एतैः कारणैः 'तदपि ' सङ्घडिगमनं यतनया कर्त्तव्यमिति सङ्ग्रहगाथासमासार्थः ।। साम्प्रतमेनाभेव विवृणोति
[भा.३२०३] पविद्रुकामा व विहं महंतं, विनिग्गया वा वि ततोऽधवोमे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org