________________
२४६
बृहत्कल्प-छेदसूत्रम् -२-१/४७
अप्पायणट्ठाय सरीरगाणं, अत्ता वयंती खलु संखडीओ ।।
वृ- 'विहम्' अध्वानं 'महान्तं' विप्रकृष्टं प्रवेष्टुकामाः, 'ततो वा' अध्वनो निर्गता जनपदं प्राप्ताः, अथवा 'अव दुर्भिक्षे चिरमटन्तोऽपि न पर्याप्तं लभन्ते, अतस्ते शरीराण्येव दुर्बलाहारदग्धान्त्रतया कुत्सितत्वात् शरीरकाणि तेषामाप्यायनार्थम् 'आत्ता' प्रथम द्वितीयपरीषहपीडिताः, अथवा ‘आप्ताः' राग-द्वेषरहिताः, यद्वा "भीमो भीमसेनः" इति न्यायत् आत्तः - गृहीतः सूत्रार्थो यैस्ते आत्ता :- गीतार्था सङ्घीर्व्रजन्ति ॥
[भा. ३२०४] वत्थं व पत्तं व तहिं सुलंभं, नाणादिसिं पिंडियवाणिएसु । पवत्ति तत्थ कुलादिकज्जे, लेचं व घेच्छामो अतो वयंति ॥
वृ- 'तत्र' क्षेत्रे नानाप्रकाराभ्यो दक्षिणापथादिरुपाभ्यो दिग्भ्यो वस्त्रादिविक्रयार्थं समागत्य पिण्डिताः- मिलिता ये वणिजस्तेषु वस्त्रं वा पात्रं वा सुलभम् । अथवा तत्र क्षेत्रे प्राप्ताः 'कुलादिकार्याणि' कुल-गण-सङ्घप्रयोजनानि प्रवर्त्तयिष्यामः, लेपं वा तत्र प्राप्ताः सन्तो ग्रहीष्यामः। अत एवंविधं पुष्टालम्बनमवलम्ब्य सङ्घडीं व्रजन्ति ॥
अथ "शैक्षस्य सङ्घडिगमने भावः समुत्पन्न” इति पदं विवृणोति -
[भा. ३२०५] सेहं विदित्ता अतितिव्वभावं, गीया गुरुं विन्नवयंति तत्थ । जे तत्थ दोसा अभाविंसु पुव्विं, दिवेत्तु ते तस्स हिता वयंति ॥
वृ- 'शैक्षम्' अभिनवप्रव्रजितम् 'अतितीव्रभावं' सङ्घडिग्रामे गमनेऽतीवतीव्राभिलाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति, तत आचार्यास्तं शैक्षं भणन्ति एते वृषभास्ते सहायाः समर्पिताः, एतैः समं भवता सङ्घड्यां गन्तव्यमिति । ततस्ते वृषभाः 'तत्र' सङ्खड्यां गच्छतां पथि वर्त्तमानानां तत्र प्राप्तानां च दोषाः पूर्वमभवन् अभिहिता इति भावः तान् ‘तस्य' शैक्षस्य 'हिताः' मातृवदनुकुलाः सन्तो दीपयन्ति । दीपयित्वा च ततस्तं गृहीत्वा व्रजन्ति ॥
[भा. ३२०६ ] पुव्वोदितं दोसगणं च तं तू, वज्जेंति सेज्जाइजुतं जताए । पुणमेवं तु भवे गणित्तं, जं कंखियाणं पविणेति कंखं ॥
वृ-‘पूर्वोदितं' प्राग्भणितं शय्या वसति तदादिभिर्युतं सम्बद्धं दोषगणं 'यतनया' प्रागुक्तलक्षणया वर्जयन्ति । आह किमेवं शैक्षस्यानुवर्त्तनां कृत्वा सङ्घडिगमनमाचार्या अनुजानन्ति ? इत्याह'सम्पूर्णम्' अखण्डमेवंविदधानस्याचार्यस्य 'गणित्वम्' आचार्यकं भवति, यत् 'काङ्क्षतानां' सङ्घडिगमनाद्यभिलाषवतां शिष्याणां काङ्क्ष प्रकर्षेण-तदीप्सितसम्पादनलक्षणेन विनयति-स्फेटयति । उक्तञ्च दशाश्रुतस्कन्धे गणिसम्पद्वर्णनाप्रक्र मे - कंखियस्स कंखं पविणित्ता भवइ त्ति ।
मू. (४८) नो कप्पइ निग्गंथस्स एगानियस्स राओ वा वियाले वा बहिया वियारभूमिं वा बिहारभूमिं वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पबिइयस्स वा अप्पतइयस्स वा राओ वा वियाले वा बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा ॥ वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा. ३२०७]
आहारा नीहारो, अवस्समेसो तु सुत्तसंबंधो। तुं पुन न प्पडिसिद्धं, वारे एगस्स निक्खमणं ॥
वृ- पूर्वसूत्रे सङ्घडिप्ररुपणाद्वारेणाहार उक्तः, तस्माच्चाहरादवश्यम्भाव नीहार इत्यतस्तद्विषयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org