________________
उद्देशकः १, मूलं-४८, [भा. ३२०७]
२४७ विधिरनेनसूत्रेणोपवायते। कथम्? इत्याह-'तत्पुनः' नीहारकरणमाहारानन्तरमवश्यम्भावित्वान्न प्रतिषिद्धमे, किन्तु तदर्थं यद् ‘एकस्य' एकाकिनो निष्क्रमणं तदत्र सूत्रे वारयतीति । एष सूत्रसम्बन्धः। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते 'निर्ग्रन्थस्य' साधोरेकाकिनो रात्री वा विकाले वा बहिर्विचारभूमिं वा विहारभूमि वा उद्दिश्य प्रतिश्रयाद् निष्कमितुं वा प्रवेष्टुं वा । कल्पते "से" तस्य निर्ग्रन्थस्यात्मद्वितीयस्य वाआत्मतृतीयस्य वा रात्रौवा बिकालेवा बहिर्विचारभूमि वा विहारभूमिं वा निष्कमितुं वा प्रवेष्टुं वा इति सूत्रसमासार्थ ॥अथ नियुक्तिविस्तरः[भा.३२०८] रत्तिं वियारभूमी, निग्गंथेगाणियस्स पडिकुट्ठा।
लहुगो य होति मासो, तत्थ वि आणाइणो दोसा॥ वृ-रात्रौ उपलक्षणत्वा विकाले वा विचारभूमी निर्ग्रन्थस्यैकाकिनो गन्तव्ये प्रतिकुष्टा । साच द्विविधा-कायिकीभूमि उच्चारभूमिश्च । कायिकीभूमिं यदि रात्रावेकाकी गच्छति ततो लघुमासः प्रायश्चित्तम्, तत्राप्याज्ञादयो दोषाः ।। तथा[भा.३२०९] तेना-ऽऽरकिखय-सावय-पडिनीए थी-नपुंस-तेरिच्छ।
ओहाणपेहि वेहानसे य वाले य मुच्छा य॥ वृ-स्तेनैरुपधि संयतो वा हियते । आरक्षिका एकाकिनं दृष्ट्वा चौर इति बुद्धा ग्रहणाऽऽकर्षणादिकं कुर्युः । श्चापदा वा-सिंह-व्या-दयो भक्षयेयुः । प्रत्यनीको वा तमेकाकिनं मत्वा प्रान्तापनादिकं कुर्यात् । स्त्री वा नपुंसको वा तमेकाकिनमुदारशरीरं दृष्ट्वा बलादपि गृह्णीयात्। तिर्यञ्चो वा दुष्टगवादयस्तमभिघातयेयुः, तिर्यग्योनिकां वा स एकाकी प्रतिसेवेत । यो वा अवधावनप्रेक्षी स एकाकी निर्गतः सन्तत एव पलायेत । स्त्रिया वा पण्डकेन वा प्रतिस्खलितः सन् ‘भग्नव्रतोऽहं जातः' इति बुद्ध्या 'वैहायसम्' उद्वन्धनं कुर्यात् । 'व्यालेन वा' सर्पण वा दश्येत। मूच्छा वातत्र गतस्य भवेत्, तद्वशेन भूमौ प्रपतितस्यपरिताप-महादुःखप्रभृतयो दोषाः। अस्या एव गाथाया लेशतो व्याख्यानमाह[भा.३२१०] थी पंडे तिरिगीसु व, खलितो वेहानसं व ओधावे।
सेसोवधी-सरीरे, गहणादी मारणंजोए॥ वृ-स्त्रियां पण्डके तिर्यग्योनिकायां वा 'स्खलितः' मैथुनप्रतिसेवनया अपराधमापन्नः सन् 'भग्नव्रतस्य किं मे जीवितेन ?' इति बुद्धया वैहायसमभ्युपगच्छेत् । यो वा अवधावनप्रेक्षी स ततएवावधावेत्। शेषाणि' सप्त द्वाराणितेषु यथाक्रमभेते दोषाः। तद्यथा-स्तेनेषूपधि-शरीरहरणम्, आरक्षिकेषु ग्रहणा-ऽऽकर्षणादि, शेषेषु तु श्चापदादिषु 'मारणम्' उपघातः संयतस्य भवतीति ‘यजयेत्' योजनं कुर्यात् ।। यत एवमतः[भा.३२११] दुप्पभिई उ अगम्मा, न य सहसा साहसं समायरति।
वारेति च णं वितिओ. पंच य सक्खी उधम्मस्स ॥ वृ-द्विप्रभुतयः साधवो रात्रौ कायिकीभूमौ गच्छन्तः स्तेना-ऽऽरक्षिकादीनामगम्या भवन्ति। न च द्वितीये साधौ तटस्थे सति सहसा 'साहसं' मैथुनप्रतिसेवन-वैहायसादि समाचरति । समाचरितुकाममपिच “णं" एनं द्वितीयः साधुर्वारयति। यतः 'धर्मस्य' पञ्चमहाव्रतरुपस्यपञ्च साक्षिणो भवन्ति, तद्यथा-अर्हन्तः सिद्धाः साधवः सम्यग्दृष्ट्यो देवा आस्मा चेति । अतः साधौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org