________________
बृहत्कल्प-छेदसूत्रम् -२-१/४८
तृतीयसाक्षिणि पार्श्ववर्त्तिनि न सहसा साहसं समाचरति । एवं तावत् कायिकीभूमिमङ्गीकृत्योक्तम् । अथोच्चारभूमिमधिकृत्याह[भा. ३२१२]
२४८
एए चेव य दोसा, सविसेसुच्चारमायरंतस्स । सबितिज्जगनिक्खमणे, परिहरिया ते भवे दोसा ॥
वृ- 'एत एव' स्तेना -ऽऽरक्षिकादयो दोषाः सप्रायश्चित्ताः 'सविशेषाः' समधिका रजन्यामेकाकिनमुञ्चारमाचरतो मन्तव्याः । यदा तु विचारभूमो गच्छन् सद्वितीयः प्रतिश्रयाद् निष्क्रमणं करोति तदा 'ते' स्तेनादयो दोषाः परिह्यता भवेयुः ॥ कथम् ? इत्याह
[भा.३२१३] जति दोन्नि तो निवेदित्तु नेति तेनभए ठाति दारेक्को । सावयभयम्मि एक्को, निसिरति तं रक्खती वितिओ ॥
वृ-यदि द्वौ संयती कायिकी भूमौ निर्गच्छतः तदा यस्तत्र जागर्त्ति तस्य निवेद्य द्वावपि निर्गच्छतः। स्तेनभये तु तयोर्द्वयोर्मध्यादेको द्वारे तिष्ठति द्वितीयः कायिकीं व्युत्सृजति । अथ श्वापदभयं त एकस्तत्र कायियीं निसृजति, द्वितीयो दण्डकहस्तः 'तं' कायिकीं व्युत्सृजन्तमात्मानं च रक्षति ॥
अथैकाकिनो यतना प्रतिपाद्यते
[भा. ३२१४] सभयाऽसति मत्तस्स उ, एक्को उपओग डंडओ हत्थे । वति कुडतेण कडी, कुणति य दारे वि उपयोगं ।।
वृ-यदि सभयं द्वितीयस्य च संयतस्य तत्राभावस्ततो मात्रके व्युत्सर्जनीयम् । अथ मात्रकं न विद्यते तत उपयोगं कृत्वा दण्डकं हस्ते गृहीत्वा वृतेर्वा कुडयस्य वा अन्तेत- पार्श्वेन कटीं कृत्वा कायिकीं व्युत्सृजति । द्वारेऽपि च स्तेनादिप्रवेशविषयमुपयोगं करोति ॥
[भा. ३२१५] बितियपदे उ गिलाणस्स कारणा अहव होज एगागी । पुव्व ट्ठिय निद्दोसे, जतणाए निवेदिउच्चारे ॥
वृ- द्वितीयपदेन तु ग्लानस्य कारणादेकोऽपि निर्गच्छेत्, अथवा स साधुरशिवादिभि कारणैरेकाकी भवेत्, यद्वा तत्र पूर्वं निर्दोष-निर्भयमिति मत्वा स्थिताः पश्चात् सभयं सञ्जातं तत्रापि यतनया निवेद्य तथैवोच्चारभूमौ प्रश्रवणभूमौ वा गच्छन्ति ॥
अथ “ग्लानस्य कारणात्” इति पदं व्याख्यानयति
[भा. ३२१६ ] एगो गिलाणपासे, बितिओ आपुच्छिऊण तं नीति । चिरगते गिलाणमितरो, जग्गंतं पुच्छिउं नीति ॥
वृ- इह ते त्रयो जनाः, तेषां च मध्ये एको ग्लानो विद्यते, एकश्च तस्य ग्लानस्य पार्श्वे तिष्ठति, द्वितीयस्तमापृच्छय कायिक्यादिभूमौ निर्गच्छति । स च यदि चिरगतो भवति ततः 'इतरः ' ग्लानपार्श्वस्थितो ग्लानं जाग्रतमापृच्छय निर्गच्छति ॥ एवं स्तेनादीनां सम्भवे विधिरुक्तः । अथ तदम्भवे विधिमाह
[भा. ३२१७]
जहितं पुन ते दोसा, तेनादीया न होज पुव्वुत्ता । एक्को वि निवेदेतुं, निंतो वि तहिं नऽतिक्कमति ।।
वृ-यत्र पुनः 'ते' पूर्वोक्ताः स्तेनादयो दोषा न भवन्ति तत्रैकोऽपि शेषसाधूनां जाग्रतां निवेद्य निर्गच्छत् न भगवदाज्ञामतिक्रामति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org