________________
१७८
बृहत्कल्प-छेदसूत्रम् -२-१/४२ कुलस्थविरस्याप्रमाणीकरणेमूलम्, गणस्थविरस्याप्रमाणनेऽनवस्थाप्यम्, सङ्घस्थविरस्यातिक्रमणे पाराञ्चिकम् । एवं मणिप्रकाशादिष्वपि मन्तव्यम्, नवरं मणिप्रकाशे षङ्गुरुकात् प्रदीपप्रकाशे छेदाद् उद्दीप्ते मूलादारब्धव्यम् । अभीक्ष्णसेवायां तु सप्तभिवरिः पाराञ्चिकम् । भावना तुप्रागेव कृतेति ॥ तृतीया भाव्यते[भा.२८६७] तइयादेसे भोत्तूण आगया नेव कस्सइ कर्हिति ।
तेसऽन्नतो व सोचा, खिंसंतऽह भिक्खुणो तेउ॥ वृ- 'तृतीयदेशे' तृतीयायां नावि तथैव भुक्तवा समागताः सन्तो नैव कस्यापि कथयन्ति । नवरंभिक्षवस्तेषां परस्परं संलापं श्रुत्वा, तैर्वाऽन्यस्य कस्यापि श्रावकादेः कथितं ततो वा श्रुत्वा भिक्षवस्तान् ‘अथ' श्रवणानन्तरं 'खिसंति' खरण्टयन्तीत्यर्थः ।। खरण्टिताश्च यद्यतिक्रामन्ति तत इयं प्रायश्चित्तवृद्धि[भा.२८६८] भिक्खुणो अतिक्कमंते, छल्लहुगा वसभे होंति छग्गुरुगा।
गुरु-कुल-गण-संधाइक्कमे यछेदाइ जा चरिमं॥ वृ-भिक्षूनतिक्रामति षड्लघुकाः, वृषभाणामतिक्रमे षड्गुरुकाः, गुरुणामतिक्रमे छेदः कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम् ॥ अथ चतुर्थी नावमुपदर्शयति[भा.२८६९] भिक्खु वसभाऽऽयरिए, वयणं गच्छस्स कुल गणे संघे।
गुरुगादऽइक्कमंते, जा सपद चउत्थ आदेसो । वृ-ज्योत्स्नाप्रकाशादिषुभुक्त्वा गुरुणामालोचितेभिक्षुभिनोदिता यद्यावृत्तास्ततश्चतुर्गुरुकाः। अर्थ भिक्षूणां वचनमतिकामन्ति ततोऽपि चतुर्गुरु, वृषभाणां वचनमतिक्रामतः षड्लघुकाः, आचार्यानतिक्रामतः षड्गुरुकाः, गच्छममन्यमानस्यच्छेदः, कुलमप्रभाणीकुर्वतोमूलम्, गणमप्रमाणयतोऽनवस्थाप्यम्, सङ्घ व्यतिक्रामतः ‘स्वपदं' पाराञ्चिकम् ।अभीक्षणसेवायामपिप्रथमे द्वितीये च वारे चतुर्गुरुकम्, तृतीयादिष्वष्टमान्तेषु वारेषु षड्लघुकादि पाराञ्चिकान्तम् । एषः 'चतुर्थ आदेशः' चतुर्थी नौः इत्यर्थः ।। अथ पूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतून सन्दर्शयति[भा.२८७०] पेच्छह उ अनायारं, रत्तिं भुत्तुं न कस्सइ कहति ।
एवं एक्केवनिवेयनेन वुड्डी उ पच्छित्ते।। वृ-'पश्यताममीषामनाचारंयदेवंरात्रौ भुक्त्वान कस्यापि कथयन्ति' एवं भिक्षुभिखरण्टिता यदि नावर्तन्ते ततो भिक्षवो वृषभाणां कथयन्ति, वृषभा गुरूणाम्, गुरवोऽपि कुलस्येत्यादि । एवमेकैकस्य-वृषभादेर्निवेदनेन प्रायश्चित्तस्य वृद्धिर्भवति॥ [भा.२८७१] को दोसो को दोसो, त्ति भणंते लग्गई बिइयठाणे।
. अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो॥ वृ-चन्द्रोद्योतादिषको दोषः? को दोषः? इत्युत्तरप्रदानेन द्वितीयं प्रायश्चित्तस्थानं 'लगति' प्राप्नोति।अथवा 'अभीक्ष्णग्रहणे पुनःपुनरासेवायाम्, अथवा वस्तुनः' आचार्योपाध्यायादिरूपस्य यः अतिचारः' रात्रिभक्तलक्षणस्तस्मात् प्रायश्चित्तवृद्धिर्भवति।यत एवंप्रायश्चित्तजालम् अतो न कल्पते चतुर्विधमपि रात्रिभक्तम् । कारणसद्भावे पुनः कल्पते॥तान्येव कारणानिदर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org