________________
१७९
उद्देशकः १, मूलं-४२, [भा. २८७२] [भा.२८७२] बिइयपयं गेलने, पढमे बिइए य अणहियासम्मि ।
फिट्टइचंदगवेझं, समाहिमरणं व अद्धाणे॥ . · वृ-'द्वितीयपदं नाम' 'दिवा गृहीतं दिवा भुक्तम्' इत्यादिचतुर्भङ्गीप्रतिसेवनात्मकं तदागाढे ग्लानत्वेआसेवितव्यम्। प्रथमद्वितीयपरीषहातुरतायांवा, “अणहियासम्मि"त्तिअसहिष्णुतायां वा, चन्द्रकवेधं नामानशनं तदसमाधिमुपगतस्य 'स्फिटति' न निर्वहतीति भावः, अतस्तस्य यथा समाधिमरणंतथा चतुर्भङ्गयाऽपियतितव्यम्।अध्वनि वाचतुर्वपि भङ्गेषुग्रहणंकर्तव्यमिति द्वारगाथासमासार्थ ॥अथैनामेव विवरीषुग्लानत्वद्वारं व्याख्यानयति[भा.२८७३] पइदिनमलब्ममाणे, विसोहि समइच्छिउं पढम भंगो।
दुल्लभ दिवसंते वा, अहि-सूलरुयाइसुं बिइओ॥ . [भा.२८७४] एमेव तइयभंगो, आइ तमो अंतए पगासो उ ।
दुहओ वि अप्पगासो, एमेव य अंतिमो भंगो।। वृ- यदा ग्लानस्य प्रतिदिनं विशुद्धं भक्तपानं न लभ्यते तदा पञ्चकपरिहाण्या ये विशोधिकोट्यादयोदोषास्तेषु प्रतिदिवसंग्रहीतव्यम्, यावच्चतुर्लघुकाःप्रायश्चित्तम्; यदातदपि समतिक्रान्तस्तदा प्रथमभङ्गो भवति, रात्रौ परिवास्य दिवा दातव्यमित्यर्थः । तथा 'दुर्लभं' ग्लानप्रायोश्यमशनादि द्रव्यं तच्च गृहीत्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतः सविता अतो दिवा गृहीत्वा रात्रौ ग्लानस्य दातव्यम्; अथवा कश्चिद् दिवसान्ते 'अहिना' सर्पण खाघेत, शूलरुग् वा कस्यापि तदानीमुद्धावेत, आदिग्रहणाद् विष-विसूचिकादिष्वागाढेषु समुत्पन्नेषु सर्पडकाद्युपशमनलब्धप्रत्ययमगदाद्यौषधमानीययावद्दीयते तावदस्तंगतो रविअतोरात्रावपि दातव्यम्, एषद्वितीयो भङ्गः । एवमेवतृतीयोभङ्गो वक्तव्यः, यानिप्रथम-द्वितीयभङ्गयोः कारणानि तानि तृतीयभङ्गेऽपि भवन्तीति भावः । अत्र च भङ्गे आदौ 'तमः' अन्धकारं रात्रिपदमित्यर्थः, अन्तेच 'प्रकाशः' दिवापदम्। अन्तिमः' चतुर्थो भङ्गः सोऽपि एवमेव' अहिदष्टादावागढकारणे प्रतिसेवितव्यः, नवरमसौ द्विधाऽप्यप्रकाशो मन्तव्य इति ॥
गतं ग्लानद्वारम् । अथ प्रथम-द्वितीया-ऽसिष्णुपदानि व्याचष्टे[भा.२८७५] पढमबिइयाउरस्सा, असहुस्स हवेज अहव जुअलस्स।
कालम्मि दुरहियासे, भंगचउक्केण गहणंतु॥ . वृ- प्रथमः-क्षुधापरीषहो द्वितीयः-पिपासापरीषहस्ताभ्यामातुरस्य, 'असहिष्णोर्वा' स्थूलभद्रस्वामिलघुभ्रातृश्रीयककल्पस्य, युगलं-बाल-वृद्धरूपं तस्य वा असहिष्णोः, काले वा 'दुरधिसहे' अवमौदर्यलक्षणे भङ्गचतुष्केणापिग्रहणं कर्तव्यम् ॥ [भा.२८७६] एमेव उत्तिमढे, चंदगवेज्झसरिसे भवे भंगा।
उभयपगासो पढमो, धई अंते य सव्वतमो॥ वृ-चन्द्रो नाम-चक्राष्टकोपरिवर्त्तिन्याः पुत्तलिकायावामाक्षिगोलकः तस्यवेधः-ताडनंतत्सदृशेतद्वद्दुराराधे 'उत्तमार्थे' अनशने प्रतिपन्ने सतियदि कदाचिदसमाधिरुत्पद्यते तदा ‘मा नमस्कार नाराधयिष्यति, असमाधिमृत्युना वा मा म्रियताम्' इति कृत्वा चत्वारोऽपि भङ्गाः प्रयोक्तव्या भवेयुः । तत्र च प्रथमो भङ्ग उभयप्रकाशः, द्वितीयो भङ्ग आदौ प्रकाशवान् अन्ते तमस्वान्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org