________________
२६८
बृहत्कल्प-छेदसूत्रम् -२-२/५१ स्थानम् । एतान्येकार्थानि नानाव्यञ्जनानि' पृथगक्षराण्युपाश्रयस्य नामानि । अथवगडाया निक्षेपः कर्तव्यः॥ तमेवातिदेशेनाह[भा.३२९६] एमेव होति वगडा, चउव्विहा सा उ वतिपरिक्खेवो ।
दव्वम्मि तिप्पगारा, भावे समणेहि भुजंती ॥ वृ. 'एवमेव' उपाश्रयवद् वगडा अपि नामादिभेदात् चतुर्विधा भवति । तत्र द्रव्यवगडा गृहसम्बन्धी वृतिपरिक्षेपो मन्तव्यः । स च त्रिप्रकारा, तद्यथा-सचित्ता अचित्ता मिश्रा च । इयं त्रिप्रकाराऽपि यथा मासकल्पप्रकृते द्रव्यपरिक्षेपः उक्तस्तथैव वक्तव्या । 'भावे' भाववगडा 'श्रमणैः' साधुभिर्यो वृतिपरिक्षेपः परिभुज्यते सा मन्तव्या॥
अथ कोऽसावुपाश्रयो यस्यैषा वगडा वर्णिता ? उच्यते[भा.३२९७] वलया कोट्ठागारा, हेट्ठा भूमी य होइ रमणिज्जा ।
वीएहिं विष्पमुक्को, उवस्सओ एरिसो होइ॥ वृ-'वलयानि' कटपल्यादीनि 'कोष्ठागाराणि च' सुप्रतीतानि यत्र भवन्ति, अधस्ताच्च तत्र भूमिर्भवति 'रमणीया' बीजायभावेन प्रशस्या, ईद्दश उपाश्रयो बीजैविप्रभुक्तो भवति ।
इदमेव व्याख्यानयति[भा.३२९८] कडपल्लाणं सन्ना, तणपल्लाणं च देसितो वलया।
निप्परिसाडिमभुजंतगा य कयभूमिकम्मंता ॥ वृ- 'देशीत' देशीभाषामाश्रित्य कटपल्यानां तृणपल्यानांच वलयानीति संज्ञा । तेषां मालेषु बद्धेषु धान्यानि क्रियन्ते । तानि च यत्र 'निपरिशाटीनि' परिशाटिरहितानी, 'अभुज्यमानानि' अव्यापार्यमाणानि, तथा कृतं भूमिकर्म-छगणलेपनादिकम् अन्तेषु-प्रान्तप्रदेशेषु येषां तानि कृतभूमिकर्मान्तानि, अधस्ताच्च भूमिका बीजादिविप्रभुक्ता, ईशे प्रतिश्रये वस्तुं कल्पते ।।
अथ कोष्ठागाराणि व्याचष्टे[भा.३२९९] चाउस्सालघरेसुव, जत्थोब्वर-कोट्ठएसु धन्नाई।
निचट्ठइतमभोगा, तेसु निवासं न वारेइ॥ कृ-अथवा चतुःशालादिगृहेषु यत्रोपाश्रयेऽपवरकेषुवाइष्टकादिमयेषु कोष्ठकेषुवा मृत्तिकामयेषु धान्यानि 'नित्यस्थगितानि' सदापिहितानी 'अभोग्यानि' परिभोगरहितानी तिष्ठन्ति तत्र ये शेषा अपवरकाः कोष्ठका वा तेषु निवासं न वारयति ॥क्व पुनस्तर्हि वस्तुं न कल्पते? इत्याह[भा.३३००] सालीहिं वीहीहिं, तिल-कुलत्थेहिं विप्पकिन्नेहिं ।
आदिन्ने वितिकिन्ने, अहलंद न कप्पती वासो॥ वृ- शालिभि/हिभिस्तिलैः कुलत्थैः उपलक्षणत्वाद् मुद्ग-माषादिभिश्च विप्रकीर्णैराकीर्णैर्व्यतिकीर्णे उपलक्षणत्वाद् विकीर्णैश्च सङ्खले उपाश्रये निर्ग्रन्थानां निर्ग्रन्थीनांच यथालन्दमपि काल न कल्पते वासः । एषा श्रीभद्रबाहुस्वामिकृता गाथा । अनया सूत्रपदानि संगृहीतानिआकीर्णग्रहणेन च उत्क्षिप्तपदं विकीर्णग्रहणे तु विक्षिप्तपदं गृहीतं मन्तव्यम् ।। अत्र परः प्राहननुजातिवाचकाः शब्दाः ‘सम्पन्नः शालि' इत्यादिवदेकवचननिर्देशेन व्यवहियमाणा उपलभ्यन्ते, ततः किमर्थमत्र "शालिभि/हिभिः" इत्यादी बहुवचनेन निर्देशः कृतः उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org