________________
उद्देशक : १, मूलं - १७, [ भा. २३६५ ]
६५
शिष्येषु देशविशेषेषु वा । एतदुत्तरत्र भावयिष्यते अथ किमर्थमत्र चतुर्लघु प्रायश्चित्तमुक्तम् ? अत्रोच्यते
[भा. २३६६ ]
दुविहपमाणतिरेगे, सुत्तासेन तेन लहुगा उ । मज्झिमगं पुन उवहिं, पडुच्च मासो भवे लहुओ ॥
वृ-द्विविधं-द्विप्रकारं गणना-प्रमाणभेदाद् यत् प्रमाणं ततोऽतिरिक्ते उपधौ सूत्रादेशेन चतुर्लघुका भवन्ति । यतं उक्तं निशीथसूत्रे जे भिक्खू गणनाइरित्तं वा पमाणाइरित्तं वा उवहिं घरेइ से आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्धाइयं इति । अतः सूत्रादेशेन चतुर्लघुकम्। यदा तूपधिनिष्पन्नं चिन्त्यते तदा अयं घटीमात्रको मध्यमोपधिभेदेष्ववतरतीति कृत्वा मध्यमं पुनरुपधिं प्रतीत्य लघुको मासो भवति । अथ "धारयितुं वा परिहर्तुं वा" इति पदद्वयव्याख्यानमाह
[भा. २३६७] धारणया उ अभोगो, परिहरणा तस्स होई परिभोगो । दुविहेन वि सो कप्पई, परिहारेणं तु परिभोत्तुं ॥
वृ- इह द्विधा परिहारः, तद्यथा-धारणा परिहरणा च । तत्र धारणा 'अभोगः' अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापमित्यर्थः । परिहरणा नाम 'तस्य' घटीमात्रकादेरुपकरणस्य 'परिभोगः' व्यापारणम् । एतेन द्विविधेनापि परिहारेण स घटीमात्रको निर्ग्रन्थीनां परिभोक्तुं कल्पते । स च दिवसं यावत् पानकपूर्णस्तिष्ठति । अथ किमर्थमयं गृह्यते ? इत्याह
[भा. २३६८] उड्डाहो वोसिरणे, गिलाणआरोपणा य धरणम्मि । बिइयपयं असईए, भिन्नोऽवह अद्धलित्तो वा ।।
वृ-संयतीमिरुत्सर्गतो द्रव्यप्रतिबद्धायां वसतौ स्थातव्यम् । तत्र घटीमात्रकाग्रहणे सागारिकाणां पश्यतां बहि कायिकीव्युत्सर्जन 'उड्डाहः' प्रवचनलाघवमुपजायते । अथ कायिक्या वेगं धारयन्ति ततो धरणे ‘ग्लानारोपणा' परिताप-महादुःखादिका भवति । यत एवमतो ग्रहीतव्यो घटीमात्रकः संयतीभिः । द्वितीयपदमत्र- 'असति' अविद्यमाने घटीमात्रके यदि वा विद्यते घटीमात्रकः परं 'भिन्नः' भग्न अर्द्धलिप्तो वा अत एव 'अवहः' अव्याप्रियमाणः ततो बहिर्गत्वा कायिकी यतनया व्युत्सर्जनीया । निर्ग्रन्थाः पुनरप्रतिबद्धोपाश्रये तिष्ठन्ति अतस्ते घटीमात्रकं न गृह्णन्ति, कारणे तु गृह्णन्त्यपि । यत आह
[भा.२३६९] लाउय असइ सिनेहो, ठाइ तहिं पुव्वभाविय कडाहो । सेहे व सोयवायी, धरंति देसिं व ते पप्प ॥
वृ- अलाबुपात्रकस्याभावे ग्लानार्थं च स्नेहे ग्रहीतव्ये पूर्वभावितं कटाहकं घटीमात्रकं वा ग्रहीतव्यम् । यतस्तत्र गृहीतः 'स्नेहः' धृतं तिष्ठति' न परिश्रवति । शैक्षो वा कश्चित् साधूनां मध्येऽत्यन्तं शौचवादी स शौचार्थं घटीमात्रकं गृह्णीयात् । 'देशीं वा' देशविशेषं शौचवादिबहुलं प्राप्य घटीमात्रकं धारयन्ति, यथा गोल्लविषये । अथास्यैव ग्रहणे विधिमाह
[भा. २३७०] गहणं तु अहागडए, तस्सऽ सई होइ अप्पपरिकम्मे ।
तस्सऽ सइ कुंडिगादी, घेत्तुं नाला विउज्जंति ॥
वृ-प्रथमतो यथाकृतस्य घटीमात्रकस्य ग्रहणं कर्त्तव्यम् । तस्यासत्यल्पपरिकर्मणि ग्रहणं भवति
19 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org