SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २, मूलं - ५२, [ भा. ३३७९] २८५ भवन्ति । अथ महिला काचित् तत्र धान्यं नयति ततस्तां महिलां तथा भणन्ति यथा तद् वचनमन्यः शृणोति ॥ इदमेव व्यक्तीकरोति [भा. ३३८० ] साहूणं वसहीए, रत्तिं महिला न कप्पती एंती । बहुगं च नेसि धन्नं, किं पाहुणगा विकालो य ॥ वृ- साधूनां वसतौ रात्रौ 'महिला' स्त्री न कल्पते “एंती” आगच्छन्ती, त्वं च बह्निदं धान्यं गृह्णासि किं प्राघुणकाः समायाताः ? विकालश्च सम्प्रति वर्त्तते ततो नेदानीं ते ग्रहीतुमवसर इति ।। [भा. ३३८१] तेनेसु निसट्टेसुं, पुव्वा ऽवररत्तिमल्लियंतेसु । तेनबियरक्खणट्ठा, वयणमिणं बेंति गीतत्था ।। वृ- 'निसृष्टेषु' आक्रान्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा तत्राऽऽलीयमानेषु स्तेनेभ्यः सकाशाद् बीजानां रक्षणार्थं गीतार्था उच्चशब्देनेदं वचनं ब्रुवते ॥ किं तत् ? इत्याहजागरह नरा ! निच्चं, जागरमाणस्स वढते बुद्धी । जो सुवति न सो धन्नो, जो जग्गति सो सया धन्नो ॥ [भा. ३३८२ ] वृ- भो नराः ! नित्यं 'जागृत' जाग्रतस्तिष्ठत, यतो जाग्रतो बुद्धि सूत्रा ऽर्थानुप्रेक्षादिना वर्द्धते, अत एव यः स्वपिति नासौ 'धन्यः' ज्ञानादिधनार्हः, यस्तु जागर्त्ति स सदा धन्यः ॥ [भा. ३३८३ ] सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था । तम्हा जागरमाणा, विधुनय पोराणयं कम्मं ॥ वृ-स्वपतां पुरुषाणाम् 'अर्था' ज्ञानादयः 'लोकसारार्था' त्रैलोक्यप्रधानप्रयोजनभूताः 'सीदन्ति’ हानिमुपगच्छन्ति । यत एवं तस्माद् जाग्रतः सन्तः पुरातनं कर्म विधूनयत ॥ [भा. ३३८४] सुवति सुवंतस्स सुतं, संकित खलियं भवे पमत्तस्स । जागरमाणस्स सुतं, थिर-परिचितमप्पमत्तस्स ।। वृ- 'स्वपतः' निद्रायमाणस्य 'श्रुतम्' आचारादिकं 'स्वपिति' विस्मरति । 'प्रमत्तस्य' विकथादिप्रमादनिमग्नस्य 'शङ्कितं' 'किमत्र प्रदेशे इदमालापकपदमर्थपदं वा भवति ? उत न?' इति संशयक्रोडीकृतम्; स्खलितं वा भवति, न परावर्त्तयतः शीघ्रमागच्छति किन्तु संस्मरणेनेति भावः । 'जाग्रतस्तु' विकथादिप्रमादेनाप्रमत्तस्य श्रुतं स्थिर-परिचितं भवति । स्थिरं नाम-निशङ्कितम् अविस्मरणधर्मकं वा, परिचितं नाम-परावर्त्तयमानं क्रमेणोत्क्रमेण वा समागच्छति द्रुतं वा समाप्तिं याति ॥ [भा. ३३८५] नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं ममत्तेणं, नारंभेण दयालुया ॥ वृ- नालस्येन समं सौख्यं, न विद्या सह निद्रया । न वैराग्यं ममत्वेन, नारम्भेण दयालुता ।। इति ।। अपि च[भा. ३३८६ ] जागरिया धम्मीणं, आहम्मीणं च सुत्तया सेया । वच्छाहिव भगिणीए, अकहिंसु जिनो जयंतीए । वृ- धार्मिकाणां जागरिका श्रेयसी, अधार्मिकाणां तु सुप्तता श्रेयसी, एवं वच्छाधिपस्यशतानीकनृपतेर्भगिन्याः जयन्तीनामिकायाः 'जिनः' वर्द्धमानस्वामी कथितवान् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy