________________
२८४
बृहत्कल्प-छेदसूत्रम् -२-२/५२ वृ-'स्फिटितं' दिङ्मूढतया द्वारात् परिभ्रष्टं धान्यार्थिनं वा' धान्यभक्षणाभिलाषिणं साधुं यतनया वारयन्ति, न पुनस्तस्य सम्मुखं 'स्फुटं' रूक्षवचनं ब्रुवते । कुतः ? इत्याह-मा स्फुटमभिधीयमानमन्यः श्रोष्यति, स च श्रुत्वा अन्येषां कथयेत्, ततश्च परम्परया सर्वैरपि साधुभिज्ञति नित्थक्कः' निर्लज्जो भवेत्। यद्वा ज्ञातोऽस्यहम्' इति लज्जयाप्रतिगमन-वैहायसादीनि विदध्यात् ।। कथं पुनर्वारयन्ति? इत्याह[भा.३३७५] दारं न होइ एत्तो, निद्दामत्ताणि पुंछ अच्छीणि ।
भण जं व संकियं ते, गिण्हह वेरत्तियं भंते!॥ वृ- यः स्फिटितो धान्यार्थी वा साधुः स वक्तव्यः-आर्य ! यत्र भवान् गच्छति इतो द्वारं न भवति, निद्राप्रमत्ते वाऽक्षिणी 'प्रोञ्छ' हस्तेन परिस्पृश्योन्मीलयेत्यर्थः, यच्च किमपि ते सूत्रेऽर्थे वा शङ्कितं तदस्माकमग्रे भण यएन निःशङ्कितं कुम्रहे । यद्वा साधवो वक्तव्याः-'भदन्ताः!' आर्या! गृहीध्वं वैरात्रिकं कालं येन स्वाध्यायः क्रियते ॥गता स्वपक्षयतना । अथ परपक्षयतनामाह[भा.३३७६] परपक्खम्मि वि दारं, पिहंति जतणाए दो वि वारेति ।
तह वि य अठायमाणे, उवेह पुट्ठा व साहिति ॥ कृ'परपक्षे गो-श्वान-मार्जारादौ प्रतिश्रयं प्रविशति यतनया द्वारंपिदधति।अथ द्वारंपिधातव्यं न भवति ततः 'द्वावपि' तिर्यङ्-मनुष्यौ दासी-दासौ वा स्त्री-पुरुषौ वा आक्रान्तिकाऽनाक्रान्तिकस्तेनौ वा प्रविशन्तौ निवारयन्ति । यदि तथापि न तिष्ठन्ति' धान्यग्रहणाद् नोपरमन्ते तत उपेक्षां कुर्वन्ति, तूष्णीकास्तिष्ठन्तीति भावः । सागारिकेण च ‘केनेदं धान्यं नीतम् ?' इति पृष्टाः सन्तः कथयन्ति-अमुकेनामुकया वा इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवरीषुराह[भा.३३७७] पेहिय पमज्जिया नं, उवओगं काउंसणिय ढक्केति ।
तिरिय नर दोन्नि एते, खर-खरि पुं-थी निसिडितरे ॥ वृ-चक्षुषा प्रत्युपेक्ष्य रजोहरणेन प्रमृज्य शनैर्यथा जीवानां विराधना न स्यात् तथा 'तं' द्वारं 'ढक्कयन्ति' स्थगयन्ति । अथ तदानीमचक्षुर्विषयं ततः श्रोत्रादिभिरिन्द्रियैरुपयोगंकृत्वा द्वारपिधानं कुर्वन्ति । तथा द्वौ नाम-तिर्यङ्-नरौ, अथवा खरः-दासःखरिका-दासी एतौ, यद्वा पुरुष-स्त्रीरूपौ, अथवा निसृष्टः इतरश्च-अनिसृष्टः । निसृष्टो नाम-यस्य शय्यातरेण प्रवेशोऽनुज्ञातः, अनिसृष्टस्तद्विपरीतः । अथवा निसृष्टाः-आक्रान्तिकाः स्तेनाः, अनिसृष्टाः अनाक्रान्तिकाः । एते धान्यग्रहणं कुर्वन्तो वारणीयाः । कथम् ? इत्याह[भा.३३७८] गेण्हतेसु य दोसु वि, वयणमिणं तत्थ बिंति गीयत्था ।
बहुगं च नेसि धन्नं, किं पगतं होहिती कल्लं ॥ वृ-स्त्री-पुरुषादिरूपयोर्द्वयोरपि धान्यं गृह्णानयोर्गीतार्था इदं वचनं ब्रुवते-भो भद्र ! बह्विदं धान्यमद्य नयसि किं कल्ये 'प्रकृतं' प्रकरणं भविष्यति ? ॥ __ [भा.३३७९] नीसढेसु उवेहं, सत्थेण व तासिता उ तुहिक्का ।
बहुसो भणाति महिलं, जह तं वयणं सुणति अन्नो । वृ- निसृष्टाः-आक्रान्तिकस्तेनाः ये बलादपि हरन्ति तेषु समागतेषु उपेक्षां कुर्वन्तितूष्णीकास्तिष्ठन्ति । अथवा खड्गादिना शस्त्रेण त्रासिताः सन्त इतरेष्वप्यनाक्रान्तिकेषु तूष्णीका
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org