________________
उद्देश : ३, मूलं - ८८, [भा. ३९६० ]
वडइ भइ धूयापयाण कुलएण ओवम्मं ॥
वृ- इह पारसविषये कस्यचिद् गृहे प्रभूताः प्रतिवर्षप्रसविन्यो वडवाः सन्ति । तत एव च तुरङ्गमा अपि तस्य बहवः समजायन्त । तेन चाश्वस्वामिना 'एतावदश्वसमूहमध्ये त्वया वर्षान्ते अश्वद्वयं भृतौ ग्राह्यम्' इत्युक्त्वा कश्चिद् द्रमकोऽश्व- वडवारक्षणार्थं धृतः । तस्य च तत्पुत्र्या सार्धं सङ्गतिरभूत् । भृतिकाले च समायाते तेनाश्वरक्षकेण सा तद्दुहिता पृष्टा कथय, अमीषां मध्ये किमपि लक्षणयुक्तमश्वद्वयं येन तद् गृह्णामि । ततस्तयाऽभिहितोऽसौ - सर्वेष्वश्वेष्वरण्ये वृक्षच्छायायां विश्रब्धमुपविष्टेषु चर्ममयं कुतपं पाषाणखण्डानां भृत्वा वृक्षशिखरमारुह्य ततः स चर्मकुतपः खडखडारवं कुर्वन्त्रधस्ताद् मोक्तव्यः, पटहश्च तदग्रतो वादनीयः एवंकृते यौ न समुत्रस्यतः तथा खुरुखुरकेण चर्ममयेण पाषाणखण्डभृतेन पृष्ठतो वाद्यमानेन सर्वानपि वाहय, यौ शेषाश्ववाहनिकातोऽधिकं निर्वहतः तौ द्वावपि गृहाणेति । तेन सर्वं तथैव कृतम् । मूल्यकाले च तेनाश्वस्वामी याचितः-ममामुकममुकं चाश्वं देहि । तुरङ्गमस्वामी तु 'समस्तलक्षणयुक्ताविमावश्वौ' इति कृत्वा ब्रवीति-शेषान् द्वौ त्रीन् सर्वान् वा गृहाण, किमेताभ्यां करिष्यसि ? । सोऽपि तदश्वद्वयवर्जमपरं कथमपि नेच्छति । ततश्चाश्वस्वामिना स्वभार्याऽभिहिता- प्रदीयतामस्मै स्वपुत्रिकायेन गृहजामातृत्वं प्रतिपन्नो नसलक्षणा वश्वौ गृहीत्वाऽन्यत्र व्रजति । सा च 'हीनोऽसौ ' इति नेच्छत्यमुमर्थम् । ततोऽश्वस्वामी भार्यावबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति, यथा
४०१
केनापि वर्द्धकिना भागिनेयः स्वसुतां दत्त्वा गृहजामाता कृतः । स च कमपि व्यवसायं न करोति ततो वर्द्धकिदुहित्र्या प्रेरितः किमिति पुरुषव्रतरहितः परदत्तमुपजीवंस्तिष्ठसि ? विधेहि किञ्चित् कर्मान्तरमिति । ततः कुठारं गृहीत्वा काष्ठकर्त्तनार्थमटवीं गतः । स्वाभिलषितकाष्ठप्राप्तयभावाच्च प्रतिदिवसं रिक्तं एव निवर्त्तते । षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठम् । घटितस्तत्र कुलकः- कलसिकाचतुर्थाशरूपो धान्यमानविशेषः । ततः प्रेषित स्वभार्या 'द्रव्यलक्षेण यो गृह्णाति तस्मै प्रदातव्यः' इत्युक्त्वा हट्टमार्गे विक्रयार्थम् । सा च तन्मूल्ये लक्षं याचमाना लोकैरुपहस्यते । समायातश्च तत्र कश्चिद् बुद्धिमान् वणिक्, परिभावितं च तेन स्वचेतसि - नूनमत्र कारणेन भवितव्यम्, यदेवमियमस्य काष्ठस्य मूल्ये लक्षं याचते । ततो यावत् तेन धान्यं मिमीते तावन्न कथञ्चित् क्षीयते । अतो धान्याद्यक्षयनिमित्तं लक्षमपि दत्त्वा गृहीतस्तेन कुलकः । ततः प्रभृति तेन सलक्षणजामातृकेण गृहे धृतेन सर्वमपि वर्द्धकिकुटुम्बं धन-धान्यादीना वृद्धिमुपययौ ॥ तथा त्वमपि निजदुहितरं यद्यस्मै प्रयच्छसि ततोऽनेनास्मद्गृहे तिष्ठता समस्तलक्षणोपेतमद्वयमपि तिष्ठति । ततोऽश्वद्वयमाहाल्येन च सर्वा सम्पदः करस्था एवास्माकं भवन्ति इत्यादि बहुविधमुक्त्वा दापिता तस्मै दुहिता ॥
अथ गाथाद्वयस्याक्षरार्थ-स्थायिन्यो नाम वडवास्ता उच्यन्ते या वर्षे वर्षे विजायन्ते । ताश्च वर्षमेकं कश्चिद् द्रमकः पालयति, उपलक्षणमिदम्, तेनाश्वानपि पालयतीत्यादि द्रष्टव्यम् । कथं पालयति ? इत्याह-‘तस्य' अश्वाधिपतेः 'भागेन' वेतनभूताश्वद्वयलक्षणेन । ततश्च तस्य तत्राश्वडवं पालयतश्चेटिकया समं घटना । तया च स निकाचनां कारितः एवंविधलक्षणोपेतमेवाश्वद्वयं ग्रहीतव्यं समं घटना । तया च सनिकाचनां कारितः - एवंधलक्षणोपेतमेवाश्वद्वयं ग्रहीतव्यं
19 26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org