________________
बृहत्कल्प-छेदसूत्रम् -२-३/८८ नान्यदिति । किं पुनस्तल्लक्षणम् ? इत्याह-उपविष्टेष्वश्वेषु द्रुममारुह्य चर्मकुतपस्य पाषाणभृतस्य भूमौ पातनेन भेषणा कर्त्तव्या, यौ न त्रस्यतस्तौ लक्षणयुक्तौ । ततो भृतिकाले 'द्वयोरपि तयोः ' सलक्षणयोरश्चयोरसौ ग्रहणं करोति । 'अलं मे परैरश्चैः, इदमेवाश्वद्वयं समर्पण' इत्येवम् 'आश्चिकम्' अश्वस्वामिनं भणति । स च स्वभार्यावबोधाय 'वर्द्धके:' रथकास्य 'भच्चक:' भागिनेयस्तस्य यद् वर्द्धकिना दुहितुः प्रदानं ततः स्वभार्यया प्रेरितेन तेन कृष्णचित्रकाष्ठमानीय यत् कुलको घटितस्तेनोपलक्षितम् 'औपम्यं' दृष्टान्तं कृतवान् । एवं गच्छेऽपि लक्षणयुक्ते नोपधिना ज्ञानादीनां वृद्धिरुपजायते । ततश्च स्थितमेतत्-विधिनैव तथा वस्त्र छेदनीयं यथा प्रमाणयुक्तं भवति ॥
अथ प्रमाणादिस्वरुपनिरुपणाय द्वारगाथामाह
४०२
[भा. ३९६१ ]दव्वप्पमाण अतिरेग हीन, परिकम्म विभूसणा य मुच्छा य । उवहिस्स य प्पमाणं, जिन थेर अहक्कमं वोच्छं ।
वृ- इह द्रव्यं वस्त्र तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् । अतिरिक्ते हीने वा वस्त्र दोषा अभिधातव्याः । परिकर्मणं सीवनमित्येकोऽर्थ, तन्निरुपयितव्यम् । “विभूसणा य” त्ति विभूषार्थं यदि वस्त्र क्षालयति वा रजति वा घर्षति वा सम्प्रमार्ष्टि वा तदा प्रायश्चित्तं भवतीति वक्तव्यम् । “मुच्छाय” त्ति मूर्च्छया यदि वस्त्र न परिभुङ्क्ते तदाऽपि प्रायश्चित्तं वक्तव्यम् । तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिक स्थविरकल्पिकानङ्गीकृत्य यथाक्रममहं वक्ष्ये ॥ प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधिं गणनाप्रमाणतो निरुपयति[भा. ३९६२]
पत्तं पत्ताबंधो, पायठ्ठवणं च पायकेसरिया । पडलाई रइत्ताणं, च गोच्छओ पायनिजोगो ॥
वृ- 'पात्रं ' प्रतिग्रहः, 'पात्रबन्धः' येन वस्त्रखण्डेव चतुरस्त्रण पात्रकं धार्यते, 'पात्रस्थापनं' कम्बलमयं यत्र पात्रकं स्थाप्यते, 'पात्रकेसरिका' यया पात्रं प्रत्युपेक्ष्यते, 'पटलकानि' यानि भिक्षां पर्यटभिः पात्रोपरि स्थाप्यन्ते, 'रजस्त्राणं' पात्रवेष्टकम्, 'गोच्छकः' कम्बलमयोयः पात्रकोपरि दीयते । एष सप्तविधः 'पात्रनिर्योगः' पात्रपरिकरभूत उपकरणकलाप इत्यर्थः ॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो वुवालसविहो, उवही जिनकप्पियाणं तु ।।
[भा. ३९६३]
वृ-तथा-'त्रय एव' न चतुः - पञ्चप्रभृतयः, क एते ? इत्याह- 'प्रच्छादकाः ' प्रावरणरूपाः कल्पाः, सौत्रिकाकश्च र्णामयइत्यर्थः । 'रजोहरणं' प्रतीतम् । 'चः' समुच्चये । एव शब्दः पादपूरणे । 'मुखपोतिका' प्रसिद्धा । एष द्वादशविध उपधिर्जिनकल्पिकानां मन्तव्यः । तुशब्दो विशेषणे, स चैतद् विशिनष्टि-जिनकल्पिका द्विविधाः पाणिपात्राः प्रतिग्रहधारिणश्च । पुनरेकैके द्विविधाःअप्रावरणाः सप्रावरणानां तु त्रिविधो वा चतुर्विघो वा पञ्चविधौ वा तत्र त्रिविधो रजोहरणं मुखवस्त्रिका एकः सौत्रिकः कल्पः, चतुर्विधः स एवीर्णिककल्पसहितः, पञ्चविधश्चतुर्विध एव द्वितीयसीत्रिककल्पेन सहितः । प्रतिग्रहधारिणां प्रावरणवर्जितानां च नवविध उपधि, तद्यथापात्रं १ पात्रकबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पटकलानि ५ रजस्त्राणं ६ गोच्छकः ७ रजोहरणं ८ मुखवस्त्रका ९ चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे शविधः, कल्पद्वयप्रक्षेपे एकादशभेदः, कल्पत्रयप्रक्षेपे तु द्वादशविधः । तदेवमुत्कर्षतो जिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org