SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उद्देशकः २, मूलं-५७, [भा. ३४७२] ३०३ दिवा बहिः स्थित्वा सन्ध्यायां तत्र प्रविशन्ति । यद्वा बहिः स्थितानां 'स्तेन-श्वापदादिभयमत्र रात्रौ भवति' इति श्रुत्वा ग्राममध्ये 'अतिगमनं प्रवेशो भवति, तत्र च सप्रदीपायां वसतौ स्थितैर्ये पूर्वं शैक्षविषयाः प्रतापनादयो दोषा उक्ताः ते इहागाढे कारणे यतनया परिहर्तव्याः ॥ यदि प्रमादतः प्रदीपनकं भवेत् ततः को विधि ? इत्याह[भा.३४७३] अन्नाए तुसिणीया, नाए दह्ण करण सविउलं । बाहिं देउल सद्दो, समागयाणं खरंटो य॥ वृ-यदि केनापि न ज्ञातम् यथा-'अत्र संयताः स्थिताः सन्ति' ततस्तूष्णीका भूत्वा पलायन्ते। अथ ज्ञातम्-'संयता अत्र स्थिताः सन्ति' इति ततः प्रदीप्तं दृष्ट्वा महता शब्देन 'सविउलं' बोलं कुर्वन्ति यावद् भूयान् जनो मिलितः । ततो बहुजनस्य पुरतो भणन्ति-पश्यत पश्यत केनापि पापेन प्रदीपनकं कृतमिति । यद्वा देवकुला बहिर्निर्गत्य तथैव शब्दः' बोलः क्रियते, समागतानां लोकानां खरण्टना कर्तव्या-नूनं युष्माभिरेवैतत्प्रदीपितं येनैते श्रमणा दह्यन्ते, अस्माकंचोपकरणं सर्वमप्यत्र दग्धम् । एवं खरण्टिताः सन्तो न किञ्चिदुल्लपन्ति॥ मू. (५८) उवस्सगस्स अंतो वगडाए पिंडए वा लोयए वा कीरे वा दहिं वा नवनीए वा सप्पिं वा तेल्ले वा फाणिए वा पूर्व वा सक्कुलीवासिहरिणी वा उक्खित्ताणिवा विक्खित्ताणिवा विइकिन्नाणि वा विप्पइन्नाणि वा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३४७४] देहोवहीण डाहो, तदन्नसंघट्टणाय जोतिम्मि । संगाल चरणडाहो, एसो पिंडस्सुवग्घाओ॥ वृतेन-शैक्षेण अन्येन वा-श्वान-गवादिना ज्योतिषः सङ्घट्टने कृते देहस्य वा उपधेर्वा दाहो भवति इति पूर्वसूत्रे उक्तम् । अत्रापि पिण्डादियुक्तोपाश्रये स्थितस्य ‘साङ्गारं' सरागं “रागेण सइंगालं" ति वचनात् पिण्डादिकं समुद्दिशतश्चरणस्य दाहो भवतीति । एष पिण्डसूत्रस्य पूर्वसूत्रेण सह 'उपोद्धातः' सम्बन्धः ।।अनेन सम्बन्धेनायातस्यास्य व्याख्या-उपाश्रयस्यान्तर्वगडायांपिण्डको वा लोचकं वा क्षीरं वा दधि वा नवनीतं वा सर्पितैिलं वा फाणितं वा पूपो वा शष्कुलिका वा शिखरिणी वा, एतान्युत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा भवेयुः, नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुमिति सूत्रार्थः ॥अथ भाष्यम्[भा.३४७५] पिंडो जं संपन्नं, पिंडगेझं व पिंडविगई वा। जंतु सभावा लुत्तं, तं जाणसु लोयगं नाम ।। वृ-पिण्डो नाम-यदशनादिकं ‘सम्पन्नं विशिष्टाहारगुणयुक्तं षडरसोपेतमिति यावत्, यद्वा यत् 'पिण्डग्राह्यं' पिण्डरूपतया हस्ते ग्रहीतुं शक्यते, 'पिण्डविकृतिर्वा' गुडादिघनविकृतिरूपा पिण्डोऽभिधीयते । 'यत्तु' यत् पुनरशनादि स्वभावादेव 'लुप्तम्' आहारगुणैरनुपेतं तद् लोचकं नाम जानीहि क्षीर-दधि-नवनीत-सर्पि-तैलादीनि सुप्रसिद्धानीति ॥ [भा.३४७६] पूवो उ उल्लखजं, छुट्टगुलो फाणियं तु दविओ वा । सक्कुलिगाई सुक्कं, तु खज्जगं सूयिअंसव्वं ॥ वृ. 'पूपः' आर्द्रखाद्यकविशेषः, तद्ग्रहणेन लपनश्रीप्रभृतिकं सर्वमप्याखाद्यकं गृहीतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy