________________
३०२
बृहत्कल्प-छेदसूत्रम् -२-२/५७
संस्तारकादौ तृणानि भवेयुः तानि दह्येरन् । श्वानादिना वा प्रदीपस्य चालना भवेत्, मूषको वा ‘लालां’ वर्त्तिमपहरेत् ततः स्तम्भः प्रदीप्येत तृणानि वा प्रदीप्येरन् ॥ ततश्च
[भा. ३४६६ ] गाउय दुगुणाद्गुणं, बत्तीसं जोयणाइं चरिमपदं । चत्तारि छ छ लहु गुरु छेदो मूलं तह दुगं च ॥ वृ- उक्तार्था । द्वितीयपदे प्रदीपशालायामपि वसेयुः । कथम् ? इत्याह[भा. ३४६७ ] अद्धाणनिग्गयाई, तिक्खत्तो मग्गिऊण असईए । यथा जणा, वसंत तो दीवसालाए ।
वृ- अध्वनिर्गतादयस्त्रिकृत्वः शुद्धां वसतिं मार्गयन्ति । यदि न प्राप्यते ततो गीतार्था यतनया प्रदीपशालायां वसन्ति ।। कथं पुनर्यतना कर्त्तव्या ? इत्याह
[भा. ३४६८ ] ते तत्थ सन्निविट्ठा, गहिया संधारगा विहीपुव्वं । जागरमाण वसंती, सपक्खजयणाए गीतत्था ।।
प्राग्वत् ॥ विशेषयतनामाह
[भा. ३४६९ ] पडिमाझामण ओरुभण, लिंपणा दीवगस्स ओरुभणं । ओसक्कण उस्सक्कण, छुक्कारण वारणोकट्ठी ॥
वृ-यत्र प्रतिमाध्यापनभयं तत्र तस्मादवकाशात् प्रतिमायाः 'अवरोहणम्' अन्यत्र सङ्क्रामणं कर्त्तव्यम् । अथ प्रतिमा सङ्क्रामयितुं न शक्यते ततः स्तम्भ - कुड्यादीनां लिम्पनं प्रदीपस्य च ततः स्थानाद् 'अवरोहणं' सङ्क्रामणं विधेयम् । अथ शृङ्खलादीपोऽसौ न ततः स्थानादवतारयितुं शक्यते ततो लालाया अवसर्पणमुत्सर्पणं वा कुर्यात् । श्वान गवादीनां च 'छुक्कारणं छिछिरिति प्रतिषेधकरणेन, वारणं वा दण्डादिदर्शनेन, अपकर्षणं वा वत्तेः कर्त्तव्यम् ॥
अथोत्सर्पणमवसर्पणं च व्याख्यानयति
[भा. ३४७० ]
संकलदीवे वत्तिं, उव्वत्ते पीलए व मा डज्झे । रूण व तं नेहं घेत्तूण दिवा विगिंचिंति ॥
वृ- 'शृङ्खलादीपे' स्थानान्तरं सङ्क्रामयितुमशक्ये वर्त्तिमुद्वर्त्तयेद्वा निष्पीडयेद्वा, 'मा' दह्यतां' मा प्रदीप्यतामिति कृत्वा । रूतेन वा 'तं' प्रदीपवर्त्तिनं 'स्नेह' तैलं गृहीत्वा ततो दिवा “विगिंचंते” परिष्ठापयन्ति ॥
[भा. ३४७१] हेट्ठा तणाण सोहण, ओसक्कऽभिसक्क अनहिं नयनं । आगाढे कारणम्मिं, ओसक्कऽ हिसक्कणं कुज्जा ।।
वृ- प्रदीपस्याधस्तात् तृणानां शोधनं कर्त्तव्यम् । यद्वा तं प्रदीपमवसर्पयति वा अभिसर्पयति वा अन्यत्र वा नयति सङ्क्रामयतीत्यर्थः । एतच्चावसर्पणमभिसर्पणं वा आगाढे कारणे समुत्पन्ने गीतार्थः कुर्यात्, नानागढे ॥
[भा. ३४७२] मज्झे व देउलाई, बाहिं व ठियाण होइ अतिगमनं ।
जे तत्थ सेहदोसा, ते इह आगाढे जयणाए ।
वृ- ते साधवो विकाले सम्प्राप्ताः सन्तः सप्रदीपे देवकुले स्थिता भवेयुः । यद्वा ग्रामादेर्मध्ये देवकुलम्, आदिशब्दात् प्रपा-सभादिकं वा, तच्चं दिवा सागारिकाकुलं तत्र प्रभातेऽपि समागता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org