________________
उद्देश : २, मूलं- ६५, [भा. ३५८८ ]
३२७
अंतोघरे न इच्छह, इह गहणं दुट्ठधम्मो त्ति ।।
वृ- यः सागारिको भद्रकः सः 'तन्निश्रया' वानमन्तरनिवेदनाव्याजेनान्यदप्यात्मीयमाहारजातं तत्र प्रक्षिपेत् । यस्तु प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति 'अन्तर्गृहे' गृहाभ्यन्तरे दीयमानं मदीयं पिण्डं नेच्छथ, इह पुनरेवं दीयमानस्य ग्रहणं कुरुथ, अहो ! दुष्टधर्माणो यूयमिति । तथैतद्दोषभयान्न गृह्णन्ति ततः किं भवति ? इत्याह
[भा. ३५८९] तेसु अगिण्हंतेसु य, तीसे परिसाए एवमुप्पजे । कोजाइ किं एते, साहू घेत्तुं न इच्छंति ॥
वृ- 'तेषु' साधुषु तं शय्यातरसत्कं निवेदनापिण्डमगृह्णानेषु 'तस्याः' सङ्घडिकारिण्याः पर्षद एवं चिन्ता समुत्पद्यते, यथा-'को जानाति' को नामामुमर्थं सम्यग् वेत्ति किम् 'एते' साधव इदं शय्यातरसत्कमाहारजातं ग्रहीतुं नेच्छन्ति ? |
[भा. ३५९० ] नूनं से जाति कुलंव गोत्तं, आगंतुओ सो य तहिं सगारो । भूणघऽसोयं व ततो एवि, जं अम्ह इच्छंति न सेजदातुं ॥
वृ- नूनं "से" तस्य शय्यास्वामिनो जानन्त्यमी कुलं वा गोत्रं वा, यथाऽयं नीचकुलोत्पन्नो हीनगोत्रो वेति । स च सागारिकः 'तत्र' ग्रामादावागन्तुकः अतो न तदीयं कुलादि तत्र कोऽपि वेत्ति । यद्वा ते गृहस्थाश्चिन्तयेयुः - 'भ्रूणघ्नः' बालमारकोऽयं शौचं वा शुचिसमाचारतारूपमस्य नास्ति, तत एतदीयं पिण्डं त्यक्त्वा यदमी अस्माकं चोल्लकं ग्रहीतुमिच्छन्ति, न शय्यादातुः सम्बन्धिनम् ।। ततः सागारिक इत्थं चिन्तयेत्
[भा. ३५९१] ओभामिओ नेहि सवासमज्झे, चंडालभूतो य कतो इमेहिं । गेहे वि निच्छंति असाधुधम्मा, अतो परं किं व करेज्ज अन्नं ॥
वृ- अपभ्राजितोऽहम् 'अमीभि' श्रमणकैः 'स्ववासमध्ये' स्वकीयसहवासिजनमध्ये, चाण्डालभूतश्च कृतोऽहममीभिर्मुण्डैः, गेहेऽपि च मदीये नेच्छन्त्यमी असाधुधर्माणः पिण्डं ग्रहीतुम्, अतः परं किं वा मम ‘अन्यद्' अपरं कुर्यु ? यत् कर्त्तु योग्यं तदमीभि कृतमिति भावः ॥ ततश्च[भा. ३५९२]राओ दियावा वि हु नेच्छुभेज्जा, एगस्सऽ णेगाण व सेज्जछेदं । अद्वाण निंता व अलंभे जंतू, पावेज तं वा वि अगिण्हमाणा ||
वृ- रात्रौ वा दिवा वा साधून् प्रतिश्रयाद् निष्काशयेत् । 'एकस्य वा' तस्यैव गच्छस्य 'अनेकेषां वा' बहूनां गच्छानां शय्यादानव्यवच्छेदं कुर्यात् । ततोऽध्वनि वहमाना निर्गच्छन्तोवा साधवस्तदीयदोषेण वसतिमलभमाना यत्परितापनादिकं प्राप्नुयुः तत् ते शय्यातरचोल्लकमगृह्णानाः प्राप्नुवन्ति, तन्निष्पन्नं तेषां प्रायश्चित्तमिति भावः ।।
एवमसंसृष्टपिण्डविषया दोषा उक्ताः । अथ संसृष्टपिण्डविषयानाह
[भा. ३५९३]
संसस्स उ गहणे, तहियं दोसा इमे पसजंति । तन्नीसाए अभिक्खं, संखडिकारावणं होज्जा ।।
वृ- यद्यन्यदीयचोल्लकैः संसृष्टं सागारिकपिण्डं गृह्णन्ति तदा तत्रैते दोषाः प्रसजन्ति-'तन्निश्रया' 'यद्यन्यदीयपिण्डसंसृष्टो मदीयः पिण्डो अमीषां कल्पते तत इत्थं कृत्वा भूयो भूयो दापयिष्यामि' इत्यालम्बनेन वाटकवास्तव्यजनैरभीक्ष्णं सङ्घडीकारापणं भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org