________________
३२६
[ भा. ३५८४ ] गिण्हंति वारएणं, अनुग्गहत्थीसु जह रुई तेसिं । पक्कनपरीमाणं, संतमसंतेयरे दव्वे ॥
वृ- यद्वा ते सर्वेऽपि शय्यातरा अनुग्रहार्थिनः ततो यथा तेषं रुचिरुपजायते तथा वारकेण गृह्णन्ति । तत्र च पक्के - उपस्कृते अन्ने परिमाणं ज्ञातव्यम् - किं परिमितानामुपस्क्रियते ? उतापरिमितानाम् ? इति । तदपि द्रव्यं तस्य गृहे तत्र देशे वा 'सद्' विद्यमानम् ? उत 'असद्' अविद्यमानम् ? । यदि पूर्वपरिणामेन सद् द्रव्यमुपस्कुर्वन्ति तदा कल्पते, अन्यथा भजनीयम् । एवं तस्य शय्यातरस्य द्रव्ये सम्यगुपयोगो दातव्यः ॥
मू. (६४) नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारियपिंड बहिया अनीहडं सट्ठ पडिग्गाहित्तए ।
बृहत्कल्प-छेदसूत्रम् -२-२/६३
मू. (६५) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागरिय पिंड बहिया अनीहडं असंसठ्ठे पडिग्गाहेत्ता ॥
[भा. ३५८५ ] अंतो नून न कप्पइ, कप्पइ निक्खामिवो हु मा एवं । पत्तेय विमिस्सं वा, पिंडं गेण्हेज्जऽ तो सुत्तं ॥
वृ- नूनम् ' अन्तः' गृहाभ्यन्तरे शय्यातरपिण्डो न कल्पते, गृहाद् बहिर्निष्क्रामितस्तु कल्पते। एवं विचिन्त्य मा ‘प्रत्येकम्' असंसृष्टं 'विमिश्रं वा' संसृष्टं पिण्डं गृह्णीयात्, अत एतत् सूत्रमारभ्यते । वक्ष्यमाणसूत्रद्वयस्याप्ययमेव सम्बन्धो द्रष्टव्यः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकपिण्डं बहिर्वाटकाद् 'अनिर्हतम्' अनिष्कामितम् 'असंसृष्टं वा’ अन्यदीयपिण्डैः सहामीलितं 'संसृष्टंचा ' अन्यदीयपिण्डैः समं मीलितं प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ भाष्यविस्तरः
[भा. ३५८६ ] वाडगदेउलियाए, इच्छा देंतम्मि गहण तह चेव । नीसमणीसट्टे, गहणा - Sगहणे इमे दोसा ॥
वृ-शय्यातरवाटकस्य मध्ये काचिद् देवकुलिका तस्या यद् वानमन्तरं तदर्थं वाटकवास्तव्या अगारिणः सङ्घडीं कुर्वन्ति । तत्र च भिक्षाचरेभ्यो दातुं तेषामिच्छा समजनि । ततो वाटकवास्तव्यजने 'ददति' दातुमुपस्थिते ग्रहणं तथैव मन्तव्यं यथा पूर्वसूत्रे अभिहितम् । तथा निसृष्टं नाम-यद् वल्यादिकं वानमन्तरस्य निवेदितम्, अनिसृष्टं तु तद्विपरीतम्, तयोर्ग्रहणेऽग्रहणे च 'अमी' वक्ष्यमाणा दोषा भवन्तीति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति -
[भा. ३५८७] उप्पत्तियं वा वि धुवं व भोजं, तस्सेव मज्झम्मि उ वाडगस्स । अमिस्सिते सागरिचोल्लगम्मि, अन्नेहिं सो चेव उ तस्स पिंडो ॥
वृ- 'तस्यैव' सागारिकसत्कस्य वाटकस्य मध्ये वानमन्तरमुद्दिश्य 'भोज्यं' सङ्घडिर्भवेत्, तच्चौत्वत्तिकं या स्वाद् ध्रुवं वा । औत्पत्तिकं नाम-पर्वतिथिमन्तरेणाकस्मिकम् । ध्रुवं तु-पर्वतिथिभावि, यथा नवम्यां दशम्यां वा । तत्रान्यैश्चोल्लकैः समममिश्रितो यः सागारिकचोल्लकस्तस्मिन् सङ्घव्यां दीयमाने स एव तस्य शय्यातरस्य पिण्डो भवति ॥
अस्य निवेदितस्यानिवेदितस्य वा ग्रहणे तावदिमे दोषाःभद्दो तन्नीसाए, पंतो घेप्पंते दवणं भणइ ।
For Private & Personal Use Only
[भा. ३५८८]
Jain Education International
www.jainelibrary.org