________________
उद्देशक : १, मूलं-४६, [भा. ३०८६]
. २२३ . वृ-यत्रैकः सार्थवाहस्तत्र तमनुज्ञापयन्ति, येवा प्रधानपुरुषास्तेऽनुज्ञापयितव्याः । अथ द्वौ सार्थाधिपती ततोद्वावप्यनुज्ञापयितव्यौ, यदि प्रीतिकं ततोगमनं कर्तव्यम् । अथैकस्याप्रीतिकम् अपरस्य प्रीतिकंततोभजना भवति, यस्तयोःप्रेरकः प्रमाणभूतस्तस्य प्रीतिकेगन्तव्यम् अप्रीतिके न गन्तव्यम्।सार्थं चाप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । सार्थं प्राप्ताः पुनःसार्थस्यैव शकुनेन गच्छन्ति । सार्थप्राप्ताश्च तिः परिषदः कुर्वन्ति, तद्यथा-पुरतो मृगपरिषदं मध्ये सिंहपरिषदं पृष्ठतो वृषभपरिषदम् ।। अथ "दोण्ह वि"त्ति पदं विवृणोति[भा.३०८७] दोनि वि समागया सत्थिगो य जस्स व वसेण वच्चति तु ।
अणनुन्नविते गुरुगा, एमेव य एगतरपंते ।। वृ-सार्थवाह आदियात्रिकश्च द्वावपिमिलितोसमागतौसमकमनुज्ञापयन्ति।अथवा 'सार्थिकः' सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाह एक एवानुज्ञाप्यते । यस्य वा वशेन सार्थो व्रजति सोऽनुज्ञाप्यः ।अथाननुज्ञापिते सार्थवाहादौ व्रजन्ति तदा चत्वारोगुरुकाः । अथ द्वौ सार्थावेकत्र मिलितौ स्याताम्, तत्र च द्वौ सार्थाधिपती, द्वावप्यनुज्ञापयितव्यौ । अथैकमनुज्ञापयन्ति तत्र 'एवमेव' चतुर्गुरुकाः ।अथैकतरः प्रान्तः ततश्चिन्तनीयम्-स प्रेरको वा स्याद् अप्रेरको वा । यदि प्रेरकस्ततो न गन्तव्यम् । अथ गच्छन्ति ततः एवमेव' चतुर्गुरुकाः॥ ' कथं तहिं गन्तव्यम् ? इत्याह[भा.३०८८] जो होइ पेल्लतो तं, भणंति तुह बाहुछायसंगहिया।
वच्चामऽनुग्गहो त्तिय, गमनं इहरा उगुरु आणा ।। वृ- यस्तत्र 'प्रेरकः' प्रमामभूतो भवति तं धर्मलाभयित्वा भणन्ति-यद्यनुजानीत ततो वयं युष्माभिः समं युष्मद्बाहुच्छायासङ्गहीताव्रजामः। एवमुक्तेयद्यसौ ब्रूयात्-भमवन्! अनुग्रहोऽयं मे, अहं सर्वमपि भगवतामुदन्तमुद्वहामीति; एवमनुज्ञाते गमनं विद्येयम् । 'इतरथा' यद्यसौ तूष्णीकस्तिष्ठतिब्रवीति वा ‘मा समागच्छत' इति ततोयदि गच्छन्तिततश्चत्वारोगुख आज्ञादयश्च दोषाः ।। यदि सार्थवाहस्यापरस्यवा प्रेरकस्याप्रीतिके गम्यते तत एते दोषाः. [भा.३०८९] पडिसेहण निच्छुभणं, उवकरणं बालमादि वा हारे।
अतियत्त गुम्मिएहि व, उड्डुभंते न वारेति॥ वृ-स सार्थवाहादिः प्रान्तः सन्नटवीमध्यप्राप्तानांसाधूनांभक्त-पानप्रतिषेधंसार्थाद्वा निष्काशनं विदध्यात्, उपकरणं वा बालादीन् वा अन्येन स्तेनादिना 'हारयेत्' अपहरणं कारयेदित्यर्थः, आदियात्रिकैर्वा' सार्थारक्षकैः ‘गौल्पिकैर्वा' स्थानरक्षपालैः 'उद्दह्यमानान्’ मुष्यमाणान् साधून 'न वारयति' उदासीन आस्ते इत्यर्थः । यत एवं ततः किं कर्तव्यम् ? इत्याह[भा.३०९०] भद्दगवयणे गमनं, भिक्खे भत्तट्ठणाए वसधीए।
थंडिल्ल असति मत्तग, वसभा य पदेस वोसिरणं ।। वृ-सार्थवाहादिर्भद्रको ब्रूयात् ययूयमादिशत तदहंसर्वमपि सम्पादयिष्यामि, सिद्धार्थकवत् चम्पकपुष्पवद्वा शिरसि स्थिता अपि मे भारं न कुरुथ । एवं वचने भणिते सप्ति गमनं कर्तव्यम्। गच्छद्भिश्चाध्वनि भैक्षविषया भक्तार्थना-समुद्देशनं तद्विषया वसतिविषया च यतना कर्त्तव्य। संज्ञांकायिकी वा स्थण्डिलेव्युत्सृजेयुः। स्थण्डिलस्यासतिमात्रके व्युत्सुज्य तावद् वहन्ति यावत्
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org