________________
४३३
उद्देशकः ३, मूलं-९०, [भा. ४१२१] [भा.४१२१] जोहो मरुंडजड्डो, नाडइणी लंखिया कतलिखंभो ।
___अज्जाभिक्खग्गहणे, आहरणा होंति नायव्वा ॥ वृ- आर्याया भिक्षाग्रहणे यद् उपकरणप्रावरणं तत्रैतान्युदाहरणानि ज्ञातव्यानि । तद्यथा'योधः' प्रतीतः १ 'मरुण्डजड्डो' मरुण्डस्य राज्ञो हस्ती २ 'नाटकिनी' नर्तकी ३ 'लझिका' वंशाग्रनर्तकी ४'कदलीस्तम्भः' प्रतीतः ५॥ तत्रयोधष्टान्तमाह[भा.४१२२] वणिओ पराजितो मारिओ व संखे अवम्मितो जोहो।
सावरणे पडिपक्खो, भयं च कुरुते विवक्खस्स ॥. वृ-योधः सङ्ख्ये' सङ्ग्रामे अवर्मितः प्रविशन् व्रणितः पराजितो मारितो वा जायते । 'व्रणितो नाम परैः प्रहारजर्जरीकृतः, 'पराजितः' पराभग्नः, 'मारितः पञ्चत्वंप्रापितः।यस्तुसावरणस्तस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति?-यः सन्नाहं पिनह्य रणशिरसि प्रविशतिस न प्रहारैर्जर्जरीभवति, न वा पराजीयते, न वा मरणमासादयति, प्रत्युत विपक्षस्य भयं कुरुते; एवमार्याऽपि यथोक्तोपकरणप्रावरणमन्तरेण भिक्षां प्रविष्टा तरुणैरुपद्रूयते, सुप्रावृतातु सर्वथैव तेषामगम्या भवति ।। उक्तो योधष्टान्तः । सम्प्रति मुरुण्डजड्डदृष्टान् गाथाचतुष्टयेनाह[भा.४१२३] विहवससा उ मुरुंडं, आपुच्छति पव्वयामऽहं कत्थ ।
पासंडे य परिक्खति, वेसग्गहणेण सो राया॥ [भा.४१२४] डोंबेहिं च धरिसमा, माउग्गामस्स होइ कुसुमपुरे ।
उब्भावणा पवयणे, निवारणा पावकम्माणं॥ [भा.४१२५] उज्झसुचीरे सा यावि निवपहे मुयतिजे जहाबाहिं।
उच्छूरिया नडी विव, दीसति कुप्पासगादीहिं।। [भा.४१२६] धिद्विकतो यहाहकतो य लोएण तज्जतो मेंठो ।
ओलोपणहितैन य, निवारितो रायसीहेण॥ - वृ-कुसुमपुरे नगरे मरुण्डो राया । तस्स भगिनी विहवा । सा अन्नया रायं पुच्छइ- अहं पव्वइउकामा, तो आइसह कत्थ पव्वयामि? त्ति । तओ राया पासंडीणं वेसग्गहणेण परिक्खं करेइ । हस्थिमिठा संदिट्ठा, जहा-पासंडिमाउग्गामेसु हत्थिं सन्निजाह, भणिजाह य-पोत्तं मुयाहि, अनहाइमिणा हिथणा उवद्दवेस्सामित्ति, एक्कम्मि यमुक्केमा ठाहिह, ताव गहग्गहावेह जावसब्वे मुक्का । तओ एगेण मिंठेण चरियाए रायपहे तहा कयं जाव नग्गीभूया। रन्ना सव्वं दिटुं । नवरं अज्जा विहीए पविठ्ठा । रायपहोत्तिन्नाए हत्थी सनिओ- मुयसु पुत्तं ति । तीए पढमं मुहपोत्तिया मुक्का, ततो निसिज्जा, एवं जानि जानि बाहिरिल्लाणि चीवराणि तानि तानि पढमं मुयइ, जाव बहूहिं वि मुक्केहिं नडी विव कंचुकादीहिं सुप्पाउया दीसइ ताहे गोलेण अकंदो कओ-हा पाव ! किमेवं महासइतवस्सिणिं अभिद्दवेसि? त्ति । रन्ना विओलोयणट्ठिएण वारिओ, चिंतियंच-एस धम्मो सव्वत्रुदिह्रो । अन्नेण य बहुजनेन कया सासनस्स पसंसा॥ __ अथाक्षरार्थः-विधवा स्वसा मुरुण्डं राजानमापृच्छति-कुत्राहं प्रव्रजामि? इति। ततः स राजा वेषग्रहणेन पाषण्डिनः परीक्षते । परीक्षार्थमेव च ‘डोम्बैः' हस्तिमिण्ठैः कुसुमपुरे 'मातृग्रामस्य' 1928
For Private & Personal Use Only
Jain Education, International
www.jainelibrary.org