________________
४४८
बृहत्कल्प-छेदसूत्रम् -२-३/९२
[भा. ४१९९ ] तदसति पुव्वुत्ताणं, चउण्ह सीसति य तेसि वावारो । हानी जातिन्नि सयं, तदभावें गुरु उ सव्वं पि ।।
वृ- तस्या अपि-सकलगच्छपूजाभमायाः सामग्यरा अभावे ये पूर्वमाचार्योपाध्याय प्रवर्तिसङ्घाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजा करोति । 'तेषां च ' आचार्यादीनां 'व्यापारः ' अर्थकथनादिस्तस्य पुरतः 'शिष्यते' कथ्यते, यथा - आचार्योऽर्थं व्याख्यानयति, उपाध्यायः सूत्रं वाचयति, प्रवर्ती तपः संयमादी प्रवृत्तिं कारयति, सङ्घाटकसाधुर्भिक्षा- विचारभूम्यादौ गच्छतां साहाय्यं विधत्ते, अत एतेषां पूजां विधेहीति । अथ नास्त्येतावती शक्तिस्ततो यथाक्रमं हान्या प्रथममाचार्योपाध्याय प्रवर्त्तिनाम्, तदभावे आचार्योपाध्याययोः, तथाप्यशक्तौ केवलस्यैवाचार्यस्य पूजां करोति । एवमप्यशक्तौ स्वयमात्मनो योग्यान् त्रीन् प्रत्यवतारान्, तदभवे द्वौ द्वयोरभावे एकमपि प्रत्यवतारमादाय प्रव्रजति । अथ नास्ति तस्यैकोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः प्रयच्छन्ति ॥
1
अथास्य विद्यमानविभवस्योद्रमकोटिदोषैर्विशोधिकोटि-दोषैर्वा अविशुद्धानि वस्त्रणि प्रयच्छतो ग्रहीतुं कल्पन्ते न वा ? इति चिन्तां चिकीर्षुराह
[ भा. ४२०० ] अप्पणो कीतकडं वा, आहाकम्मं व घेत्तु आगमनं । संजोए चेव तधा, अनिदिट्ठे मग्गणा होति ।।
वृ- स गृहस्थ शैक्ष आत्मनो योग्यं वस्त्र - पात्रादि क्रीतकृतं वा आधाकर्म वा गृहीत्वा गुरुणामन्तिके दीक्षाग्रहणायागमनं कुर्यात् । अत्र क्रीतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः, आधाकर्मग्रहणेन चाविशोधिकोटिदोषा गृहीताः । अमीषांच दोषाणामनिर्दिष्टे उपलक्षणत्वाद् निर्दिष्टे च ये संयोगाःभङ्गकास्तेषां मार्गणा कर्तव्या भवतीति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति
[भा. ४२०१ ] कीयम्मि अनिद्द्द्दिट्ठे, तेनोग्गहियम्मि सेसगा कप्पे । निट्ठिम्मिन कप्पति, अहव विसेसो इमो तत्थ ॥
वृ- क्रीतकृतं द्विधा - निर्दिष्टम् अनिर्दिष्टं च । निर्दिष्टं नाम-वस्त्र- पात्रादिकं क्रीणान इत्थं निर्देशं करोति-अमूनि मम भविष्यन्ति अमूनि साधूनां दास्यामि । तद्विपरीतमनिर्दिष्टम्। एवमन्येष्वपि दोषेषु भावना कर्तव्या । तत्र यानि वस्त्रणि तेनानिर्दिष्टानि क्रीतानि तेषां मध्ये यत् तस्याभिरुचितं तत्र वस्त्रजाते तेनावगृहीते सति शेषाणि साधूनां कल्पन्ते । 'निर्दिष्टे तु' साधूनामर्थाय यत् क्रीतं तत् किमपि न कल्पते । अथवा 'तत्र' निर्दिष्टेऽयुं विशेषोऽभिधीयते ॥
[भा. ४२०२ ] मज्झांतिगामि गिण्हह, अहगं तुज्झच्चए परिग्धिच्छं ।
सेहे दिति व वत्थं, तदभावे वा विगिंचंति ।।
वृ- 'मदीयानि' मया आत्मार्थं क्रीतानि वस्त्रणि यूयं गृह्णीथ, अहं तु 'युष्मदीयानि' युष्मदर्थं मयैव क्रीतानि वस्त्राणि परिग्रहीष्ये । एवं तेनोक्ते तान्यात्मार्थक्रीतानि कल्पन्ते । अथवा स ब्रूयात्-मया तावद् युष्मदर्थमेतानि क्रीतानि, इत ऊर्ध्वं यद् जानीथ तत् कुरुथ । ततः तद् निर्दिष्टं ‘वस्त्र' वस्त्रप्रत्यवतारं ‘शैक्षे' शैक्षस्यानुपस्थापितस्य प्रयच्छन्ति । अथ नास्ति शैक्षः, अस्ति वा परं 'किमहं साधुर्न भवामि यदेवमेतानि मम दीयन्ते ? ' इति कृत्वा नेच्छति ततस्तानि “विगिंचंति” परिष्ठापयन्ति ।। एवं परिष्ठाप्यमानेषु स शैक्षो ब्रूयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org