________________
उद्देशक :
: ३, मूलं - ९४, [भा. ४२९४]
४६९
'अविषहमाणे' सोढुमशक्ते साधवोऽनया यतनया स्वक्षेत्रे परक्षेत्रे वा वस्त्राणि गृह्णन्ति ॥ पंचूने दो मासे, दसदिवसूने दिवड्डमासं वा । दस-पंचऽधियं मासं, पणुवीसदिने व वीसं वा ॥
[भा. ४२९५ ]
[ भा. ४२९६ ] पत्ररस दस य पंच व दिनानि परिहरिय गेण्ह एगं वा । अहवा एक्केक्कदिणं, अउनट्ठिदिणाई आरम्भ ॥
वृ-आगाढे कारणे पञ्चभिर्दिवसैरूनौ द्वौ मासौ परिहृत्य वस्त्र ग्रहीतव्यम् । अथ तावन्तं कालं यावद् बाल-वृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति ततो दशदिवसोनौ द्वौ मासौ परिहृत्य वस्त्रं ग्राह्यम् । एवं सार्धमासं दशदिवसाधिकं वा पञ्चदिवसाधिकं वा अन्यूनाधिकं वा मासं पञ्चविंशतिदिनानि विंशतिदिनानि पञ्चदशदिनानि दशदिनानि पञ्च वा दिनानि यथाक्रमं परिहृत्य वस्त्र गृह्णीयात् । अथ पञ्च दिवसानपि वस्त्रभावे बाल-वृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपि दिनं परिहृत्य ग्रहीतव्यम् ।
अथवा एकैकदिनहानिरत्र द्रष्टव्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र षष्टिदिनानि परिहृत्य उत्सर्गतो वस्त्रग्रहणं कर्त्तव्यम्, कारणे पुनरेकोनषष्टिदिनान्यारभ्यैकैकदिनं हापयता तावद् वक्तव्यं यावदेकमपि दिनं परिह्वत्य वस्त्रग्रहणं कार्यम् ॥
व्याख्यातं प्रथमसमवसरणसूत्रम्, सम्प्रति द्वितीयसमवसरणसूत्रं व्याख्याति[भा. ४२९७ ] बिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होंति । ओमत्थगपरिहाणीय पंच पंचेव य जहने ॥
वृ- द्वितीयं समवसरणं नाम - ऋतुबद्धकालः, तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पादयन्ति, मासकल्पानन्तरं च तत्र द्वौ मासावुत्कर्षतः परिहर्त्तव्यौ भवतः ।
कारणे तु तथैवावाङ्मुखपरिहाण्या पञ्च पञ्च दिनानि हापयता तावद् नेयं यावद् जघन्यत एकंदिनं परिहर्त्त-व्यम् ।।
अमुमेवार्थं स्फुटतरमाह[भा. ४२९८]
अपरिहरंतस्सेते, दोसा ते च्चैव कारणे गहणं । बाल-वुड्डाउले गच्छे, असती दस पंच एक्को य ।।
वृ- यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मासावपरिहरतस्त एव दोषा मन्तव्या ये वर्षावासमासद्वयमपरिहरत उक्ताः । कारणे तु ग्रहणं कर्त्तव्यम्, कथम् ? इत्याह-बाल-वृद्धाकुले गच्छे वस्त्राभावे पञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद् वक्तव्यं यावद् दश वा पञ्च वा एको वा दिवसः परिहर्त्तव्यः । यत्र संविग्नैर्मासकल्पो वर्षाकल्पो वा कृतस्तत्र मासद्वयादुपरि पञ्चसु दिवसेष्वपूर्णेष्वन्येषां न कल्पते किञ्चिदपि ग्रहीतुम् ।।
यो गृह्णाति तस्य दोषानुपदर्शयति
[भा. ४२९९ ] करणानुपालयाणं, भगवतो आणं पडिच्छमाणाणं ।
जो अंतरा उ ण्हति तट्ठाणारोवणमदत्तं ॥
वृ- करणस्य - पिण्डविशुध्यादेः अनु-पश्चात् पूर्वऋषिपरम्पराक्रमेण पालकाः करणानुपालकास्तेषाम्, करणस्य च चरणाविनाभावित्वात् चरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org