________________
१७१
उद्देशक : १, मूलं-४२, [भा. २८४४] 'प्रतिचरति' प्रतिजाग्रती तिष्ठति । श्रमणश्च तदानीं भिक्षार्थमायातः तेन कपाटं प्रेरितम्, सच दारकः सहसैव भूमौ पतितः । ततस्तया प्रवेदनं कृतं पूत्कृतमित्यर्थः, यथा-आः ! कष्टं संयतेन दारको व्यापादित इति । ततश्च जनस्याशङ्का भवति-किं मन्ये सत्यमेवेदम् ? इति । तत्र ग्रहणाकर्षणादयो दोषाः॥अथ मृषावादे विराधनामाशङ्कांचाह[भा.२८४५] मा निसि मोकं एजसु, भणाइ एहिंति ते गिहं सुणगा।
___ पुनरिंतं सडिपई, भणाइ सुणओ सि किं जातो॥ [भा.२८४६] एवं चिय मे रत्तिं, कुसणं दिजाहि तंच सुणएण।
खइयं ति य भणमाणे, भणाइ जाणामि ते सुणए । वृ-काचिदविरतिकाकस्यापि साधोरुपशान्ता, सातस्य रात्रावप्यागतस्य भक्त-पानंप्रयच्छति, तद् दृष्ट्वा तदीयेन भास साधुरभिहितः-मा 'निशि' रात्रौ मदीयम् 'ओकः' गृहमायासीः। ततः साधुणति-एष्यन्तित्वदीयं गृहं शुनकाइति।ततःससाधुर्जिह्वादण्डदोषेणाकृष्यमाणः पुनस्तदीयं गृहमागतवान् । तं पुनरायान्तं स श्राद्धिकापतिर्भणति-किमेवं त्वं श्वा नो जातः ? । एवं मृषावाददोषमापद्यते।अथवा एवमेव केनचिदगारिणा साधुनिशि समागच्छन्प्रतिषिद्धः 'स्वानस्ते गृहमागमिष्यन्ति' इति प्रतिज्ञां कृतवान् । अन्यदा च तेनाविरतिकेन दिवा भुआनेन महिला भणिता-मनिमित्तमद्य कुसणंस्थापयेः, पश्चाच्च मम रात्रौ भुञानस्य ‘दद्याः' परिवेषयेः । ततस्तया स्थापितम् । तच्च शुनकेन भक्षितम् । एवं भणन्त्यां तस्यां गाथायां पुंस्त्वनिर्देश प्राकृतत्वात् स प्राह-जानाभ्यहं 'ते' त्वदीयान् शुनकान् । एवं मृषावादविषया शङ्का भवेत् ।। अथ तृतीयचतुर्थव्रतयोर्विराधनामाशङ्कां च प्रतिपादयति[भा.२८४७] सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी ।
वाणिगिणी मेहुन्नं, बहुसो व चिरंव संका या॥ कृ-कश्चिल्लुब्धो भिक्षार्थं प्रविष्टोरजन्यामाकीर्णविप्रकीर्णं वस्त्र-हिरण्यादिदृष्ट्वास्यमेवापहरेत्। अथवातं संयतंप्रतीत्य कर्मकरी काचिदपहरेत्, 'संयतेन हृतं भविष्यतीतिगृहपतिप्रभृतयश्चिन्तयिष्यन्ति' इति बुध्द्या सासुवर्णादिकं चोरयेदिति भावः । तथा काचिद्वाणिजिका प्रोषितभर्तृका मैथुनमवभाषेत, तद्वचनाभ्युपगमेचतुर्थव्रतविराधना ।तथा आहारनिमित्तंबहुशःप्रवेश-निर्गमौ कुर्वाणश्चिरं चालाप-संलापादिभिस्तिष्ठन् मैथुनप्रतिसेवायां जनैःशङ्कयेत ॥
अथ पञ्चमव्रतविषये विराधना-शङ्के दर्शयति[भा.२८४८] अनभोगेन भण व, पडिनीओम्मीस भत्तपानं तु ।
दिजा हिरनमादी, आवजण संकणा दिढे॥ वृ-कश्चिदनाभोगेन भक्त-पानोन्मिश्रितं हिरण्यादि दद्याद् भयेन वा । यथा-कयाचिद् व्यक्षरिकया हिरण्यादिकमपहृतम्, सा च तं न शक्नोति सङ्गोपयितुंवा प्रत्यर्पियितुंवा, ततः संयतस्य भक्षे समं दद्यात् । प्रत्यनीकतया वा दद्यात्, यथा काष्ठश्रेष्ठिसाधोर्वजानामिकया प्राक्तनभार्यया इति । एवं च हिरण्यादिके गृहीते सति कश्चित् तत्रैव मूर्छा कुर्यात्, मूर्छया चैकान्ते सङ्गोप्य धारयतः परिग्रहदोषस्यापत्तिर्भवति । तथा तत् सुवर्णादिकं भक्तपानसम्मिश्रं दीयमानं दत्तं वा प्रतिग्रहे जाज्वल्यमानं कश्चित् पश्येत्, हष्टे च तस्य शङ्का जायेत-किं मन्येऽयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org