________________
बृहत्कल्प-छेदसूत्रम् -२-१/४२
जानानो लुब्धतया गृह्णाति ? उताजानानः प्रमादात् ? इत्यादि । यत एते दोषा अतो रात्रौ न पर्यटितव्यम् ॥ अथ रात्रिभक्तमेव भेदतः प्ररूपयन्नाह -
[भा. २८४९]
तं पिय चउव्विहं राइभोयणं चोलपट्टमइरेगे । परियावन्न विगिंचण, दरगुलिया रुक्ख सुन्नघरे ॥
वृ- तदपि च रात्रिभोजनं चतुर्विधम्, तद्यथा - दिवा गृहीतं दिवा भुक्तं 9 दिवा गृहीतं रात्री भुक्तं २ रात्रौ गृहीतं दिवा भुक्तं ३ रात्रौ गृहीतं रात्रौ भुक्तं च ४ इति । एतेषु चतुर्ष्वपि भङ्गेषु यथाक्रमं तपःकाललघु १ कालगुरु २ तपोगुरुको ३ भयगुरुकरूपाश्चत्वारो गुरवः । तत्र प्रथमभङ्गो भाव्यते- “चोलपट्ट” त्ति कस्यापि संयतस्य संज्ञातकानां सङ्घडिरुपस्थिता, स च तस्मिन् दिवसे प्रातरेवा भक्तार्थं प्रत्याख्यातवान्, ततः 'मा मामेतेऽभक्तार्थिनं न ज्ञास्यन्ति' इति कृत्वा पात्रकैरनुद्ग्राहितैश्चोपलट्टकसिहतो गतः संज्ञातकगृहं पृष्ठश्च किं भवद्भिर्भाजनानि नानीतानि? ; ततस्तेनान्येन वा साधुना भणितम् - अद्याभक्तार्थिक इति; ततस्ते संज्ञातकाः 'कल्ये वयं दास्यामः' इति कृत्वा यत् तदर्थं स्थापयन्ति द्वितीयदिने च यद्यसौ तद् गृहीत्वा भुङ्क्ते तदा प्रथमभङ्गो भवति । “अइरेगे” त्ति सङ्खड्यामन्यत्र वा कचिदतिरिक्तमवगाहमादि लब्धम्, तच्च 'पर्यापन्नं' परिष्ठापनायोग्यता प्राप्तम्, ततस्तस्य 'विगिञ्चणं' परिष्ठापनं तदर्थं निर्गतः तच्चोत्कृष्टविनाशि द्रव्यं मत्वा द्वितीयदिने समुद्देशनार्थं दर-गुलिका- वृक्ष- शून्यगृहे सथापयति । दर:- बिलम्, गुलिका नाम-पिटकं बुसपुञ्ज वा, वृक्षकोटरमुच्यते, यद्वा “गुलिया रुक्ख "त्ति गुलिकाः - पिण्डकास्तान् कृत्वा वृक्षकोटरे स्थापयति, शून्यगृहं-प्रतीतम् । एतेषु स्थापयित्वा द्वितीयदिवसे भुञ्जानस्य प्रथमभङ्गो भवतीति निर्युकितगाथा समासार्थः ।। अथ भाष्यकार एवैनां व्याख्यानयति
१७२
[भा.२८५०] खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा ।
गच्छइ सचोलपट्टो, पुच्छ ट्ठवणं पढमभंगो ॥
वृ- एकेन साधुना क्षपणं कृतं उपवास इत्यर्थः तच्च मोहचिकित्सार्थं वा प्रायश्चित्तविशुद्धिहेतोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा, 'क्षपको वा' एकान्तरितादिक्षपणकर्त्ताऽसौ; तद्दिने च तस्य संज्ञातकानां सङ्घडिरुपस्थिता, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः, क्षपकसाधुश्चानुद्राहितपात्रकः 'सचोलपट्टः' चोलपट्टकद्वितीयो 'मामेतेऽत्र स्थितमभक्तार्थिनं न ज्ञास्यन्ति, अजानानाश्च न मदर्थं संविभागं स्थापयिष्यन्ति' इति बुध्या प्रस्थितः, आचार्यान् प्रतिब्रवीति च ते स्वभावत एवातिप्रान्ता मां विना न पर्याप्तं प्रदास्यन्ति, न वा अवगाहिमादीन्युत्कृष्टद्रव्याणि ढौकयिष्यन्ति, ततोऽहं गच्छामीति । स च तत्र गतः सन्ननुद्राहितपात्रको दृष्ट्वा तैः पृष्टः- किमद्योपवासी ज्येष्ठार्य ? इति । स प्राह-आमम् । ततस्तदर्थमवगाहिमादिसंविभागमभणिता अपि ते स्थापयन्ति 'कल्ये पारणकदिवसे दास्यामः' इति कृत्वा । यद्यपि ते न स्थापयन्ति तथापि क्षपकस्य चत्वारो गुरुकाः, भावतस्तेन सन्निधिस्थापनायाः कारितत्वात् । द्वितीयदिवसे च तद् गृहीत्वा भुञ्जनस्य प्रथमभङ्गो भवति ।। अथातिरिक्तादिपदानि व्याचष्टे
[भा.२८५१] कारणगहिउव्वरियं, आवलियविहीए पुच्छिऊण गओ ।
भक्खं सुए दराइसु, ठवेइ साभिग्गहऽन्नो वा ॥
वृ- इह साधूनां भिक्षामटतां क्वचिदतर्कितः प्रभूतभक्तस्य लाभोऽभवत् सङ्खड्यां वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org