________________
उद्देशक : १, मूलं- ४२, [भा. २८५१ ]
१७३
प्रचुरमवगाहिमादि लब्धम्, अनुपचितक्षेत्रे वा गुरु-ग्लानादीनां प्रायोग्यग्रहणाय सर्वैरपि सङ्घाटकैर्मात्रकाणि व्यापारितानि, एवमादिभि कारणैः प्रायोग्यद्रव्यमतिरिक्तंगृहीतं तच्चौद्वरितम् । तत आवलिका - आचाम्लिका-ऽभक्तार्थिकादिपरिपाटिरूपां विधिना प्रत्याख्याननिर्युक्त्यादिशास्त्रप्रसिद्धेन प्रकारेण 'पृष्वा' निमन्त्रय तथाप्यतिरिक्तं परिष्ठापनाय गत एकान्तमनापातं बहुप्राशुकं स्थण्डिलम् । तत्रचप्राप्त उत्कृष्टाविनाशिद्रव्यलोभेन "सुए "त्ति ' श्वः' कल्ये भोक्ष्येऽहमिति चिन्तयित्वा दरे आदिशब्दाद् गुलिका - वृक्षकोटर शून्यगृहेषु स्थापयति । स च साभिग्रहो वा स्याद्‘अन्यो वा' अनभिग्रहः । साभिग्रहो नाम 'यत् किञ्चिदाहारोपकारणादिकं परिष्ठापनायोग्यं भवति तत् सर्वं मया परिष्ठापयितव्यम्' इत्येवं प्रतिपन्नाभिग्रहः, तद्विपरीतोऽनभिग्रह इति ॥ अथैतेषु स्थापयतः प्रायश्चित्तमाह
[भा. २८५२] बिले मूलं गुरुगा वा, अनंते गुरु लहुग सेस जं चऽन्नं । थेरीय उ निक्खित्ते, पाहुण-साणाइखइए वा ।।
[भा. २८५३ ] आरोवणा उ तस्सा, बंधस्स परूवणा य कायव्वा । कुल नामऽट्ठिगमाउं, मंसाऽजिन्नं न जाऽऽउट्टो ||
वृ-बिले स्थापयतो मूलं गुरुका वा यदि वसिमे बिले स्थापयति तदा मूलम्, उद्वसे चत्वारो गुरवः । अनन्तवनस्पतिकोटरे स्थापयतश्चतुर्गुरवः । 'शेषेषु' प्रत्येकवनस्पतिकोटर - गुलिकाशून्यगृहेषु स्थापयतश्चतुर्लघवः, यच्च 'अन्यद्' आत्म-संयमविराधनादिकमापद्यते तन्निष्पन्नं प्रायश्चित्तम् । अथ स्थविरागृहे स्थापयति ततस्तत्र निक्षिप्ते चत्वारो लघवः । अथ तया तत् प्राघुणकाय दत्तं स्वयमेववा प्राघुणकेन भुक्तं श्वान - गवादिभिर्वा भक्षितं तदा 'तस्य' स्थापकस्यारोपणा कर्त्तव्या, चतुर्लघुकादिकं यथायोग्यं प्रायश्चित्तं दातव्यमिति भावः । तत्र चप्राघुणकादिना भुक्ते कियन्तं कालं यावत् कर्मबन्धो भवति ? इत्याशङ्कायां बन्धस्य प्ररूपणा कर्त्तव्या । सा चेयम्-“कुल" इत्यादि । केचिदाचार्यदेशीयाः ब्रुवते यावत् तस्य प्राघुणकस्य सप्तमः कुलवंशः तावदनुसमयं तस्य स्थापकस्य साधोः कर्मबन्धो मन्तव्यः । अपरे प्राहुः यावत् तस्य नाम-गोत्रं नाद्यापि प्रक्षीणम् । अन्ये भणन्ति यावत् तस्यास्थीनि ध्रियन्ते । इतरे ब्रुवते - यावदसावायुर्धारयति । तदपरे कथयन्ति यावत् तस्य तप्रत्ययो मांसोपचयो ध्रियते । अन्ये प्रतिपादयन्ति यावत् तस्य तद् भक्तमद्यापि न जीर्णम् । आचार्य प्राह-एते सर्वेऽप्यनादेशाः, सिद्धान्तसद्भावः पुनरयम् - यावदसौ स्थापकसाधुरद्यापि तस्मात् स्थानाद् 'नावृत्तः ' नालोचनाप्रदानादिना प्रतिक्रान्तः तावत् तस्य कर्मबन्धो न व्यवच्छिद्यते ॥
गतः प्रथमो भङ्गः । अथ शेषभङ्गत्रयीं भावयति
[भा. २८५४ ] संखडिगमने बीओ, वीयारगयस्स तइयओ होइ । सन्नायगमण चरिमो तस्स इमे वन्निया भेदा ॥
वृ- अपराह्णे या सङ्घडी तस्यां गमने 'दिवा गृहीतं रात्रौ भुक्तम्' इति द्वितीयभङ्गो भवति । अनुद्गते सूर्ये बहिर्विचारभूमौ गतस्य बलिना निमन्त्रितस्य 'रात्रौ गृहीतं दिवा भुक्तम्' इति तृतीयो भङ्गः । संज्ञातककुलगमने संज्ञातकानामेव वचनेनात्मीयलौल्येन वा रात्रौ गृहीत्वा रात्रावेव भुञ्जानस्य 'चरमः' चतुर्थो भङ्गः । तस्य च चतुर्थभङ्गस्य 'इम' वक्ष्यमाणाः प्रायश्चित्तभेदा वर्णिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org