________________
१७०
बृहत्कल्प-छेदसूत्रम् -२-१/४२ किं पुन तमस्सईए, कप्पिस्सइ सव्वरीए उ॥ वृ-यदितावत् 'तमः' अन्धकारमितिकृत्वा नीचद्वारकोष्ठकादिषु दिवाऽपि भक्तपानं ग्रहीतुं न कल्पते, “नीयदुवारं तमसं, कोट्टगं परिवजए।" इति वचनात् ततः किं पुनः 'तमस्वत्यां' बहलतमःपटलकलितायां 'शर्वर्या रात्रौ कलपिष्यते? नैवेति भावः॥यच्चोक्तम्-‘रात्रिभक्ते दोषान सन्ति' इति तदप्यपरिभावितभाषितम्, यतः साक्षादेवामी दोषास्तत्रोपलभ्यन्ते[भा.२८४१] मिच्छत्तम्मी भिक्खू, विराधना होइ संजमायाए।
पक्खलण खाणु कंटग,विसम दरी वाल साणे य॥ वृ-भगवता प्रतिषिद्धंरात्रिभोजनं कुर्वताआज्ञाभङ्गः कृतो भवति।तं दृष्टवाऽन्येऽपि रात्रिभक्ते प्रवर्त्तन्ते इत्यनवस्थाऽपिस्यात्। मिथ्यात्वेतुभिक्षुद्दष्टान्तो वक्तव्यः-जहा-कालोदाई नामभिक्खुगो रयणीए एगस्स माहणस्स गिहं भिक्खट्टापविट्ठो। तओ माहणी तस्स भिक्खानिमित्तंजाव मज्झे पविसइ ताव अंधयारबहलयाए अग्गओखीलओ न दिट्ठो। तत्थावडियाए तीसे खीलएण कुछी फाडिओ। सा य गुम्विणी आसि । गब्भो फुरफुरंतो पडिओ मओ य । सा वि य मया । तं दटुं लोगेण भणियं-अदिट्ठधममाणो एए त्ति । एवं साधुरपि रात्रौ भिक्षामटन् भगवत्यसर्वज्ञत्वशङ्कामुत्पादयति । तथा विराधना द्विविधा-संयमे आत्मनि च । तत्रात्मविराधना भाव्यते-रात्रौ मार्गमपश्यतः प्रस्खलनं भवति, स्थाणु-कण्टकाभ्यां वा पादयोः परिताप्येत, विषम-निम्नोन्नतं दरी-गर्ता तयोर्वा प्रपतेत्, व्यालः-सर्पस्तेन वा दश्येत, श्वानो वा रात्रावुपद्रवं कुर्यात् ।। [भा.२८४२] गोणे य तेणमादी, उब्भामग एवमाइ आयाए।
संजमविराधनाए, छक्काया पानवहमादी। वृ. 'गौः' बलीवर्दस्तेन अभिहन्येत, स्तेना आदिशब्दादारक्षिकादयो वा तमकाले पर्यटन्तं गृह्णीयुः । यद्वा स एव साधुरकाले पर्यटन स्तेन आदिशब्दाच्चारिको वा अभिमरोवा उद्भ्रामको वाआरक्षिकपुरुषैः शङ्कयेत, ततश्च प्रान्तापनादयो दोषाः। एवमादयोदोषाआत्मविराधनाविषया भवन्ति । संयमविराधनायां तु षट् काया निशि तमस्यद्दश्यमानाः स्फुटमेव विराध्यन्ते, अथवा प्राणवधादयो दोषा रात्रौ पिण्डं गवेषयतो भवन्ति ।। तानेव भावयति[भा.२८४३] पाणवह पाणगहणे, कप्पट्ठोद्दाणए असंका उ।
भणिओ न ठाइ ठाणे, मोसम्मि उ संकणा साणे ।। वृ-दिवा बीजसंसक्तोदकार्द्रादीनि सुप्रत्युपेक्षतया सुखेनैव साधुः परिहर्तुमीष्टे, रात्रौ तु दुःप्रत्युपेक्षतया तेषां परिहारः कर्तुं न शक्यते, अतः प्राणिग्रहणे प्राणवधो भवति । कल्पस्थके चापद्राणेऽगारिणो वक्ष्यमाणनीत्याशङ्का भवेत्-नूनमेतेनापद्रावित इति।तथा कोऽपिसाधुरगारिणा भणितः-रात्रौ मा मदीयं गृहमायासीरिति । ततः श्वानस्ते गृहमायास्यन्ति' इति प्रतिज्ञां कृत्वा गतः, परमसौ 'स्थाने स्ववचने न तिष्ठति ततश्च मृषावादमसौ ब्रूत इति शङ्का गृहस्थस्य स्यात् । एतदुत्तरत्र भावयिष्यते ।। अथ कल्पस्थकेऽपद्राणे यथा शङ्का भवति तदेतदुपदर्शयति[भा.२८४०] हंतुं सवित्तिनिसुयं, पडियरई काउमऽग्गदारम्मि।
समणेण नोल्लियम्मी, पवेदण जणस्स आसंका ।। काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमग्रद्वारे कृत्वा कपाटस्य पृष्ठतस्तमवष्टभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org