SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ बृहत्कल्प-छेदसूत्रम् -२-२/६३ एतेहि परिग्गहिया, होंति घडातो तदा काले || वृ- महत्तरोऽनुमहत्तरको ललितासनिकः कटुको दण्डपतिकश्चेति, एतैः पञ्चभि परिगृहीतास्तदा पूर्वकाले 'घटाः' गोष्ठयः 'भवन्ति' बभूवुरित्यर्थः ।। अथामूनेव महत्तरादीन् व्याख्यानयति[ भा. ३५७५ ] सव्वत्थ पुच्छणिज्जो, तु महतरो जेट्ठमासण धुरे य । तहियं तु असन्निहिए, अनुमहतरतो धुरे ठाति ॥ वृ- यः 'सर्वत्र' सर्वेषु गोष्ठिकार्येषूत्पद्यमानेषु सर्वैरपि गोष्ठिपुरुषैः प्रच्छनीयः, यस्य च ज्येष्ठं बृहत्तरमासनम्, 'धुरि च ' सर्वेषामादौ स्थाप्यते स महत्तरः । ततः 'तस्मिन्' मूलमहत्तरेऽ सन्निहिते यस्तत्र सर्वैरपि प्रच्छनीयः 'धुरि च' प्रथमं तिष्ठति सोऽनुमहत्तरः ॥ [भा. ३५७६ ] भोयणमासणमिट्टं, ललिए परिवेसिया दुगुणभागो । कडुओ उ दंडकारी, दंडपती उग्गमे तं तु ॥ वृ-यस्य भोजनमासनं च 'इष्टम्' मनोभिरुचितं क्रियते, परिवेषिका च स्त्री तस्याभीष्टा क्रियते, भोजनस्य द्विगुणो भागो दीयते स ललितमशनमासनं वाऽस्येति व्युत्पत्त्या त्वलिताशनिको ललितासनिको वा । अपराधापन्नस्य गोष्ठिकस्य यो दण्टपरिच्छेदकारी स कटुको भण्यते । यः पुनस्तं दण्डमुद्गमयति स दण्डपति । एतेषां महत्तरादीनां यद् देवकुल- सभादिकं तस्य कथमनुज्ञापना विधेया ? इत्याह [भा. ३५७७] उल्लोमाऽणुत्रवणा, अप्पभुदोसा य एक्कओ पढमं । ट्ठादि अनुन्नवणा, पाहुणए जं विहिग्गहणं ॥ बृ- महत्तरादिक्रममुल्लङ्घ्य यदि उल्लोमं प्रतीपक्रमेणानुज्ञापनां करोति तदा मासलघु, 'अप्रभुदोषाश्च' निष्काशनादयो भवेयुः, अतः सर्वेऽप्येकतो मिलिताः प्रथममनुज्ञापनीयाः । अथ सर्वे मिलिता नावाप्यन्ते ततो ज्येष्ठमहत्तरस्य, तदभावे यथाक्रममनुमहत्तरादीनामनुज्ञापना विधेया । अथ महत्तरादीनामेकोऽपि गृहे न प्राप्यते ततो यस्तेषामभ्यर्हितः प्राघुणकस्तमनुज्ञापयन्ति । एवंविधेन विधिना यदुपाश्रयस्य ग्रहणं तदेवानुज्ञातम्, नाविधिग्रहणम् ॥ अमुमेवार्थं स्फुटतरमाह[भा. ३५७८ ] उल्लोम लहू दिय निसि, तेनेक्कहि पिंडिए अनुन्नवणा । असहीणे जेट्ठादि व, जइ व समाणा महतरं वा ॥ वृ-यदि 'उल्लोमं' महत्तरादिक्रमव्यत्यासेनानुज्ञापयन्ति तदा मासलघु । तेनैकत्र 'पिण्डितानां मिलितानां पञ्चानामप्यनुज्ञापना कर्त्तव्या । अथ सर्वेऽपि मिलिता अस्वाधीनाः न प्राप्यन्ते इत्यर्थः ततो ज्येष्ठ - महत्तरादिगृहेषु गत्वा अनुज्ञापना विधेया । 'यति वा' यावतः त्रिप्रभृतीन् तत्र सतःस्वाधीनान् पश्यन्ति तावतामनुज्ञापनां कुर्वन्ति । महत्तरं वा एकमप्यनुज्ञापयन्ति, तस्य प्रमाणभूततया सर्वेषामनतिक्रमणीयत्वात् ।। गतं घटाद्वारम्, व्रजद्वारमाह - [भा. ३५७९ ] बाहिं दोहणवाडग, दुद्ध-दही-सप्पि-तक्क-नवनीते । आसन्नम्मि न कप्पति, पंच पर उप्परं वोच्छं ॥ वृ- कस्यापि शय्यातरस्य सम्बन्धी ग्रामाद् बहिर्गवां दोहनवाटको भवेत्, तस्मिन् दुग्धदधिसर्पिस्तक्र-नवनीताख्यानि पञ्च 'पदानि' द्रव्याणि भवन्ति । एतच्च द्रव्यपञ्चकम् 'आसन्ने' क्षेत्राभ्यन्तरे दीयमानं न कल्पते, शय्यातरपिण्डत्वात् । अथैतानि दुग्धादीनि क्षेत्रस्य 'उपरि' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy