________________
उद्देशक : ३, मूलं-८७, [भा. ३८९१]
भवति ।। अथवा
भा. (३८९२] दो दक्खिणावहा तु, कंचीए नेलओ स दुगुणो य । एगो कुसुर्मनगरगो, तेन पमाणं इमं होति ॥
३८७
वृ-दक्षिणापथी द्वी रूपकौ काञ्चीपुर्या द्रविडविषयप्रतिबद्धाया एकः 'नेलकः' रूपको भवति । 'सः' काञ्चीपुरीरूपको द्विगुणितः सन् कुसुमनगरसत्क एको रूपको भवति । कुसुमपुरं पाटलिपुत्रमभिधीयते । 'तेन च' रूपकेणेदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति ।। अथ मूल्यवृध्या प्रायश्चित्तवृद्धिमुपदर्शयति
[भा. ३८९३]
अट्ठारस वीसा या, अगुणापन्ना य पंच य सयाई । एगूनगं सहस्सं, दस पन्नासं सतसहस्सं ॥
[भा. ३८९४] चत्तारि छच्च लहु गुरु, छेदो मूलं च होइ बोद्धव्वं । अवप्पो यता, पाति पारंचियं ठाणं ॥
वृ- अष्टादशरूपकमूल्यं वस्त्र गृह्णाति चत्वारो लघवः । विंशतिरूपकमूल्ये चत्वारो गुरवः । एकोनपञ्चाशन्मूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । एकोनसहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहस्नमूल्ये पाराञ्चिकं स्थानं प्राप्नोति ।। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह
[ भा. ३८९५ ]
अट्ठारस वीसा या, सयमड्डाइज पंच य सयाइं । सहसं च दससहस्सा, पन्नास तथा सतसहस्सं ।
[भा. ३८९६ ] लहुगो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥
दृ- अष्टादशरूपकमूल्ये वस्त्र गृह्यमाणे लघुमासः । विंशतिमूल्ये चतुर्लघवः । शतमूल्ये चतुर्गुरवः । अर्धतृतीयशतमूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । सहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम् । पञ्चाशत्सहनमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराञ्चिकम् ।। अथवा
[भा. ३८९७]
अट्ठारस वीसा या, पन्नास तथा सयं सहस्सं च ।
पन्नासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥
[ भा. ३८९८ ] चउगुरुग छच्च लहु गुरु, छेदो मूलं च होति बोद्धव्वं । अणवटुप्पो य तहा, पावति पारंचियं ठाणं ॥
वृ- अष्टादशरूपकमूल्ये चतुर्गुरवः । विंशतिमूल्ये षड्लघवः । पञ्चाशन्मूल्ये षड्गुरवः । शतमूल्ये छेदः । सहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराञ्चिकम् ॥ प्रकारान्तरेण भावकृत्स्नमुपदर्शयति
[भा. ३८९९ ] अहवा रागसहगतो, वत्थं धारेति दोससहितो वा । एवं तु भावकसिणं, तिविहं परिणामनिष्फन्नं ।।
वृ- अथवा 'अहो ! रमणीयं वस्त्रम्' इत्येवं रागसहगतो यद्वा 'अहो ! मे मलिनं कुथितं वस्त्रम्' इत्येवं द्वेषसहितो यद् वस्त्र धारयति तदेतद् भावकृत्स्नं मन्तव्यम् । इदं च परिणामनिष्पन्नं त्रिविधम्, तद्यथा - जघन्येन राग-द्वेषपरिणामेन जघन्यम्, मध्यमेन मध्यमम्, उत्कृष्टेनोत्कृष्टम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org