________________
बृहत्कल्प-छेदसूत्रम् -२-१/२५ साताः।धूर्तेश्चसहसंयोगः। कथम्? इत्याह-'सिन्दूर' सिन्दूरारुणंयदेवकुलंतत्रशालभञ्जिकानां पञ्च शतानि ताभिर्देवताभिः परिगृहीतानि।तत्र स्थिताश्च धूर्ते समं सम्प्रलग्नाः । “तुह मज्झे"ति 'नेयंतव, ममेयम्' इत्येवंतेधूर्ता कलहायितवन्तः। ततस्तासांपूर्वभववृत्तान्तं श्रुत्वा अवर्णोऽयमस्माकम्' इति कृत्वा पुत्रादिभिर्विद्याप्रयोगेण तासांकीलना कारितेति॥उक्तःप्रथमो भङ्गः। अथ शेषभङ्गत्रयं भावयति[भा.२५०८] बिइयम्मि रयणदेवय, तइए भंगम्मि सुइगविज्जाओ।
गोरी-गंधाराइ, दुहविण्णप्पा य दुहमोया ॥ वृ-द्वितीयभङ्गे रत्नदेवता निदर्शनम्, सा ह्यल्पर्द्धिकत्वात् कामातुरत्वाच्च सुखविज्ञपना सर्वसुखसम्पादकतया च दुःखमोचा। तृतीये भङ्गे शुचयो विद्यादेव्यो निदर्शनम्, ता हिशुचितया महर्द्धिकतयाच दुःखविज्ञपना उग्रतया नित्यमत्यन्ताप्रमत्तैराराधनीयत्वात्पर्यन्ते सापायत्वाच्च सुखमोचाः । चतुर्थेभङ्गे गौरी-गान्धारीप्रभृतयो मातङ्गविद्यादेवताद्रष्टव्याः, तथाहि-ताः साधनकाले लोकगर्हिततया दुःखविज्ञप्या यथेष्टकामसम्प्रापकतया च दुःखमोचा इति॥
भाविताश्चत्वारो भङ्गाः । अथ प्राजापत्यादित्रिविधपरिगृहीते गुरुलाघवमाह[भा.२५०९] तिण्ह विकतरो गुरुतो, पागइ कोडुबि दंडिए चेव ।
साहस अपरिक्ख भए, इयरे पडिपक्ख पभु राया। वृ-शिष्यः पृच्छति-'त्रयाणां' प्राजापत्य-कौटुम्बिक-दण्डिकपरिगृहीतानां मध्यात् कतरद गुरुतरम् ? । गाथायां प्राकृतत्वात् पुंस्त्वनिर्देशः । शिष्य एवाह-अहं तावद् भणामि-प्राजापत्यपरिगृहीतं गुरुकम्, कौटुम्बिक-दण्डिकपरिगृहीतं लघुतरम्, यतः “साहस"त्ति प्राकृतजनो मूर्खतया साहसिकोऽपरीक्षितकारी च भवति, अनीश्चरतया च तस्य तथाविधं भयं न भवति, अतोऽसौ मरणमप्यध्यवस्य तं साधुं मारयेत्, तेनास्य गुरुतरो दोषः। 'इतरौ नाम' कौटुम्बिकदण्डिकौतौप्राकृतिकस्यप्रतिपक्षभूतौ। किमुक्तंभवति?-तौन साहसिकौ, नाप्यपरीक्षितकारिणी, भयं च तयोर्भवति । अत्राचार्य प्राह-दण्डिक-कौटुम्बिकौ गुरुतरौ, प्राकृतो लघुतरः, यतो राजा उपलक्षणत्वात् कौटुम्बिकश्च प्रभुः, प्रभुत्वाच्च स एकस्य रुष्टः सङ्घस्य प्रस्तारं कुर्यादिति ॥अथ कौटुम्बिक-दण्डिकानां यद् भयमुत्पद्यते तद् दर्शयन् परः स्वपक्षं द्रढयन्नाह[भा.२५१०] ईसरियत्ता रज्जा व भंसए मन्नुपहरणा रिसओ।
तेय समिक्खियकारी, अन्ना वि य सिं बहू अस्थि॥ वृ-एत ऋषयः 'मन्युप्रहरणाः' शापायुधा अतः कोपिताः सन्तो मामैश्वर्याद भ्रंशयेयरिति कौटुम्बिकश्चिन्तयेत्, राजा तु आममी राज्याद् भ्रंशयेयुरिति चिन्तयति । ते च' राजादयः 'समीक्षितकारिणः' नाविमृश्य कार्यं कुर्वन्ति । अन्यच्च तेषामन्या अपि बहवः प्रतिमाः सन्ति अतस्तस्यामेकस्यामेव तेषां नादरः॥एवं परेण स्वपक्षे भाविते सति सूरिराह[भा.२५११] पत्थारदोसकारी, निवावराहो य बहुजने फुसइ।
पागइओ पुन तस्सव, निवस्स व भया न पडिकुज्जा ॥ वृ-प्रस्तारः-कटकमदः, एकस्य रुष्टः सर्वमपि यत्र व्यापादयतीत्यर्थः, तद्दोषकारी राजा, नृपापराधश्च 'बहुजनान् स्पृशति' बहुजनमध्ये प्रकटीभवतीति भावः । एवं कौटुम्बिकस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org