SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं - २५, [भा. २५११] ९७ द्रष्टव्यम् । अत एतौ द्वावपि गुरुतरौ । प्राकृतकापराधस्तु बहुजनं न स्पृशति । अपि च प्राकृतकः 'तस्य वा' संयतस्य नृपस्यवा भयाद् 'न प्रतिकुर्याद्' न प्रत्यपकारं करोति ॥ [भा. २५१२] अविय हु कम्मद्दन्नो, न य गुत्ती ओ सि नेव दारट्ठा । तेन कयं पिन नज्ज, इतरत्थ पुनो धुवा दोसा ॥ वृ- 'अपि च इत्यभ्युच्चये, प्राकृतकः क्षेत्र-खलादिकर्मभि अन्न: - अक्षणिकः ततस्तासां प्रतिमानामुदन्तं न वहति, न च तत्सम्बन्धिनीषु देवद्रोणीषु 'गुप्ति' आत्यन्तिकी रक्षा, न वा ‘द्वारस्थाः’ द्वारपालाः ततः कृतमपि प्रतिमाप्रतिसेवनं न ज्ञायते । 'इतरत्र तु' दण्डिक-कौटुम्बिकेषु पुनः 'ध्रुवाः' अवश्यम्भाविनः प्रस्तारादयो दोषाः, द्वारपालादिरक्षासद्भावात् ॥ अत एव तेषां प्रतिमा पूर्व प्रभूततरं प्रायश्चित्तमुक्तम्, न केवलं प्रतिमासु किन्तु स्त्रीष्वपि तदीयासु गुरुतरं प्रायश्चित्तं भवतीति प्रसङ्गतो दर्शयितुमाह [भा. २५१३] नोय इत्थियाए, संपत्तीकारणम्मि पारंची। अमी अणवठप्पो, मूलं पुन पागयजणम्मि ।। वृ- 'राज्ञः स्त्रियाम्' अग्रमहिष्यां यद् मैथुनसंपत्तिलक्षणं कारणं तत्र पाराश्चिको भवति । अमात्यायामनवस्थाप्यः । प्राकृतजनस्त्रियां पुनर्मूलम् । शिष्यः प्राह [भा. २५१४] तुल्ले मेहुणभावे, नाणत्ताऽऽ रोवणाय कीस कया । जेन निवे पत्थारो, रागो वि य वत्थुमासज्ज ॥ वृ- दण्डिकादिपरिगृहीतासु प्रतिमासु स्त्रीषु वा तुल्ये मैथुनभावे कस्माद् 'आरोपणायाः’ प्रायश्चित्तस्य 'नानाता' विसध्शता कृता ? । सूरिराह-येन कारणेन 'नृपे' राज्ञि 'प्रस्तारः' कटकमर्दो भवति, अतस्तत्राधिकतरंप्रायश्चित्तम्। तदपेक्षया कौटुम्बिके प्राकृते च यथाक्रमं स्वल्पाः स्वल्पतरा दोषास्तस्तयोः प्रायश्चित्तमपि हीनं हीनतरम् । रागोऽपि च वस्तु आसाद्य भवति, याध्शं जघन्यं मध्यममुत्कृष्टं वा वस्तु रागोऽपि तत्र ताद्दशो भवतीति भावः ।। इदमेव भावयति [भा. २५१५] जइभागगया मत्ता, रागादीनं तहा चओ कम्मे । रागाइविहरया वि हु, पायं वत्थूण विहुरत्ता ।। वृ-रागादीनां 'मात्रा' जघन्यादिरूपा यतिषु यावत्सङ्ख्याकेषु भागेषु गता स्थिता 'कर्मण्यपि ' ज्ञानावरणादौ ‘चयः' बन्धस्तथैव द्रष्टव्यः । अथ रागादीनां मात्रानानात्वं कथं भवति ? इत्याहराकादीनां 'विधुरताऽपि' मात्रावैषभ्यमपि प्रायः 'वस्तूनां' स्त्रीप्रभृतीनां 'विधुरत्वात्' सुन्दरसुन्दरतर- सुन्दरतमविभागाद् भवति । प्रायोग्रहणं कस्यापि कदाचिद् वस्तुवैसध्श्यमन्तरेणापि रागादिवैस६श्यं भवतीति ज्ञापनार्थम् । यतश्चैवमतो युक्तियुक्तं दण्डिकादिपरिगृहीतासु स्त्रीषु प्रतिमासु वा प्रायश्चित्तनानात्वम् । तदेवमुक्तं दिव्यं प्रतिमायुतम् । अथ दिव्यस्यैव देहयुतस्यावसरःतच्चाचिततं न सम्भवति, जीवच्युतस्य दिव्यशरीरस्य तत्क्षणादेव विध्वंसनात् । यत्तु सचित्तदेवीशरीररूपं देहयुतं तत्र स्थानप्रायश्चित्तं यथा प्रतिमायुते, प्रतिसेवनाप्रायश्चित्तं तु यथा मनुष्यस्त्रीषु भणिष्यते । गतं दिव्यरूपम् । अथ मानुष्यरूपमाह [भा. २५१६ ] मानुस्सं पि य तिविहं, जहन्नगं मज्झिमं च उक्कोसं । 197 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy