________________
उद्देशक : १, मूलं- १९, [भा. २४२५]
७९
चातापकस्तस्मिन् ग्रामे नगरे वा भिक्षां न हिण्डते, 'मा मरुकादयः प्रद्विष्टा अभ्याख्यानं विषगरादि वा दद्यु' इति कृत्वा । यश्चातापकस्य पुष्पादीन्यालगयति तमप्यसौ सहायो वारयति ॥ सू. (२०) नो कप्पइ निग्गंथाण वा निग्गंथीण वा सचित्तकम्मे उवस्सए वत्थए ॥ मू. (२१) कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे उवस्सए वत्थए । वृ- अस्य सूत्रस्य सम्बन्धमाह
[भा.२४२६] पढम-चउत्थवयाणं, अतिचारो होज्ज दगसमीवम्मि । इह वि य हुज चंउत्थे, सचित्तकम्मेस संबंधो ॥
वृ-प्रथम चतुर्थव्रतयोरप्कायपान- स्त्रीपशसंसर्गादिभिरतिचारो दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्युक्तम् । इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव्रतस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेन प्रतिपाद्यते । एष सम्बन्धः ॥ प्रकारान्तरेण तमेवाह[ भा. २४२७] नो कप्पइ जागरिया, चिट्ठणमाई पया य दगतीरे । चित्तगयमानसाणं, जागरि-झाया कुतो अहवा ।।
वृ- अनन्तरसूत्रे नो कल्पते 'जागरिका' धर्मध्यानं स्थानादीनि च पदानि दकतीरे कर्तुमित्यक्तम्। इह तु चित्रगतमानसानां कुतो जागरिका-स्वाध्यायौ सम्भवतः ? इत्ययम् ' अथवा ' द्वितीयः सम्बन्धः ॥ अनेन सम्बन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'सचित्रकर्मणि' चित्रकर्मणा संयुक्त उपाश्रये वस्तुम् ।। कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थ ।। अथ भाष्यविस्तरः
[भा. २४२८] निद्दोस सदोसे वा, सचित्तकम्मे उ दोस आणादी । सइकरणं विकहा वा, बिइयं असतीए वसहीए ।
वृ- निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः । ये च ताशे चित्रकर्मखचिते वेश्मनि पूर्वं भोगान् बुभुजिरे तेषां स्मृतिकरणम्, उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र - वसतावसत्यां तत्रापि वसेत् ।। अथैनामेव निर्युक्तिगाथां व्याख्याति
[भा.२४२९] तरु गिरि नदी समुद्दो, भवणा वल्ली लयावियाणा य । निद्दोस चित्तकम्मं, पुत्रकलस-सोत्थियाई य ॥
वृ- तरवः - सहकारादयः, गिरयः - हिमवदादयः नद्यः - गङ्गा - सिन्धुप्रभृतयः, समुद्र:लवणोदादिकः, भवनानि चतुःशालादीनि गृहाणि, वल्लयः - नागवल्लयादयः, लताः - माधवी - चम्पकलतादयः तासां वितानं निकुरुम्बम्, तथा पूर्णकलश-स्वस्तिकादयश्च ये माङ्गलिकाः पदार्था, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ॥ अथ सदोषमाह
[भा. २४३०] तिरिय-मनुय-देवीणं, जत्थ उ देहा भवंति भित्तिकया । सविकार निव्विकारा, सदोस चित्तं हवइ एयं ॥
वृ- 'तिर्यड्-मनुज- देवीनाम्' इति तिरश्चीनां मानुषीणां देवीनां चेत्यर्थः, एतासां देहाः सविकारा निर्विकारा वा यत्र भित्तौ कृताः- आलिखिता भवन्ति एतत् चित्रकर्म सदोषं भवति ।
अथात्रैव तिष्ठतां प्रायश्चित्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org