________________
७८
बृहत्कल्प-छेदसूत्रम् -२-१/१९
जोगाए वा असती, चिट्ठे दगतीरऽनोयारे ॥
वृ-ग्लानो वैद्यस्य समीपं नीयमानो द्रव्यम् - औषधं तदर्थं वाऽन्यत्र नीयमानोऽन्यत्र वसतेरभावे दकतीरेऽपि तिष्ठेत् । अथवा विद्यते वसति परं न ग्लानयोग्या ततो योग्याया वसतेरसति तत्र वसेत् । अथवा विश्रामणार्थं दकतीरे मुहूर्त्तमात्रं ग्लानस्तिष्ठेत् । तमपि मनुष्य-तिरश्चाम् 'अनवतारे' अप्रवेशमार्गेऽवतारयेत् ॥ तत्र च स्थितानामियं यतना
[भा.२४२२] उदगंतेण चिलिमिणी, पडियरए मोत्तु सेस अन्नत्थ । पडियर पडिसंलीना, करिज्ज सव्वाणि वि पयाणि ॥
वृ- उदकं येनान्तेन-पार्श्वेन भवति ततश्चिलिमिली कटको वा दीयते, ये च ग्लानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेऽप्यन्यत्र तिष्ठन्ति । प्रतिचरका अपि प्रतिसंलीनास्तथा तिष्ठन्ति यथा सम्पातिमा - S सम्पातिमसत्त्वानां सन्त्रासो न भवति । एवं सर्वाण्यपि स्थान-निषदनादीनि पदानि कुर्यात् ।। गता दकतीरयतना । अथ यूपकयतनामाहअद्धाणनिग्गयादी, संकम अप्पाबहुं असुन्नं च ।
[भा. २४२३]
- सेहभावो, संससिणं व निव्वविरं ।।
वृ- अध्वनिर्गतादयः साधवोऽन्यस्या वसतेरभावे यूपके तिष्ठन्ति । तत्राल्पबहुत्वं ज्ञात्वा य एकाङ्गिकोऽचलो अरिशाटी निष्प्रत्यपायश्च सङ्क्रमस्तेन गन्तव्यम् । दिवा च रात्रौ च वसतिमशून्यां कुर्वन्ति । तत्र स्थितानां ग्लानस्य वा शैक्षस्य वा यदि 'पानीयं पिबामः' इत्यशुभो भाव उत्पद्यते ततस्तौ प्रज्ञाप्येते । तथाप्यस्थिते भावे तयोः संसृष्टपानकमुष्णोदकं वा 'निर्वाप्य' सुशीतलं कृत्वा दातव्यम् ॥ अथातापनायतनामाह
[ भा. २४२४] ओलोयण निग्गमणे, ससहाओ दगसमीवे आयावे । उभदढो भोगजढे, कज्जे आउट्ट पुच्छणया ॥
वृ-चैत्यविनाश-तद्रव्यविनाशादिविषयं किमपि कार्यं राजाधीनं ततो राज्ञ आवर्जनार्थं दकसमीपे आतापयेत् । तच्च दकतीरं राज्ञोऽवलोकनपथे निर्गमनपथे वा भवेत्। तत्र चातापयन् 'ससहायः ' नैकाकी 'उभयध्ढः' धृत्या संहननेन च बलवान् "भोगजढे "त्ति ग्रामेयका-ऽऽरण्यकानां तिर्यङ्मनुष्याणामवतरणमार्गं मनुजानां च स्नादिभोगस्थानं वर्जयित्वा अपरिभोग्ये प्रदेशे आतापयति । ततः स राजा तं महातपोयुक्तमातापयन्तं दृष्ट्वा आवृत्तः सन् कार्यं पृच्छेत्-भगवन् ! किमेवमातापयसि ? आज्ञापय, करोम्यहं युष्मदभिप्रेतं कार्यम्, भोगान् वा भगवतां प्रयच्छामि । मुनिराह-महाराज! न मे कार्यं भोगादिभिर्वरैः, इदं सङ्घकार्यं चैत्यविनाशनिवर्त्तनादिकं विदधातु महाराज इति ।। अथ तस्य कीदृशः सहायो दीयते ? इत्याह
[भा. २४२५] भाविय करणो तरुणो, उत्तर-सिंचणपहे य मुत्तूणं । मज्जणमाइनिवारण, न य हिंडइ पुप्फ वारेइ ॥
वृ- ‘भावितो नाम' परिणतजिनवचनः तस्य ह्यप्कायपाने परिणामो न भवति, “करणु"त्ति इषुशास्त्रे संयमे वा कृतकरणः, 'तरुणः' समर्थ, ईदृशः सहायस्तस्य नातिदूरे वृक्षच्छायायामुपविष्टस्तिष्ठति । स चातापकस्तिर्यङ्-मनुष्याणामुत्तरणपथं सिञ्चनपथं च मुक्त्वा आतापयति । तथाप्यातापयन्तं यदि कोऽपि मज्जयति वा सिञ्चयति वा ततस्तं सहायो निवारयति । स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org