________________
उद्देशकः १,मूलं-१९, [भा. २४१७]
७७
तण्हुण्हपरिगयस्स व, परिणामो ण्हाण-पियणेसु ॥ वृ-“णं" इति तमातापकं प्रत्यनीकतया अनुकम्पया वा केचिद् ‘मज्जयन्ति वा' स्नपयन्ति 'सिञ्चन्ति वा' शृङ्गच्छटादिभिरञ्जलीभिर्वा निर्वापयन्ति । यद्वा तस्यातापकस्य ‘तृषितोऽहम्' इत्येवंतृष्णापरिगतस्य ‘धर्माभिभूतगात्रोऽहम्' इत्येवमुष्णपरिगतस्यवा स्नान-पानयोः परिणामः सआयते ।। वृत्तिद्वारं प्रान्तदेवताद्वारं चाह[भा.२४१८] आउट्ट जणे मरुगाणअदाने खरि-तिरिक्खिछोभादी।
पञ्चक्खदेवपूयण, खरियाऽऽवरणं व खित्ताई ॥ वृ- तस्यातापनया आवृत्तः-आवर्जितो जनो मरुकाणां दानं न ददाति, ततस्तेषामदाने खरीद्व्यक्षरिका तिरश्ची-महाशब्दिकाप्रभृतिका तद्विषयं छोभम्-अभ्याख्यानं तदादयो दोषा भवेयुः । तथा प्रत्यक्षदेवताऽयम्' इति कृत्वा तस्य साधोः पूजनं देवतायाश्चापूजनम्, ततः "खरियाऽऽवरणं"तिसंयतवेषमावृत्य तत्प्रतिरूपं कृत्वा व्यक्षरिकांप्रतिसेवमानंदेवता दर्शयेत्, क्षिप्तचित्तादिकं वा तं श्रमणं सा देवता कुर्यादिति ॥अथैनामेव नियुक्तिगाथां स्पष्टयति[भा.२४१९] आयावण साहुस्सा, अनुकंपं तस्स कुणइ गामो उ।
मरुयाणंच पओसो, पडिनीयाणंच संका य॥ कृतस्य साधोर्दकतीरे आतापनांकुर्वतो ग्रामजनः सर्वोऽप्यावृत्तः, ततश्चानुकम्पांतस्य करोति, पारणकदिवसे भक्तादिकंसविशेषंददातीत्यर्थः, 'अयंप्रत्यक्षदेवः, किम्माकमन्येषां मरुकादीनां दत्तेन ? एतस्य दत्तं बहुफलं भवति' इति कृत्वा । ततो मरुकाणामदीयमाने प्रद्वेषः सातेः, ततस्ते व्यक्षरिका-महाशब्दिकादिविषयमयशः प्रदधु, यथा-एष संयतोऽस्माभिव्यक्षरिकां महाशब्दिकां वा प्रतिसेवमानो इष्ट इति । तत्र ये प्रत्यनीकास्तेषां शङ्का भवति तत्र चतुर्गुरु, निशङ्किते मूलम्; अथवा येप्रत्यनीकास्तेशन्ते-कस्मादेष तीर्थस्थाने आतापयति ? किं स्तैन्यार्थी? उत मैथुनार्थी ? इति । गतं वृत्तिद्वारम् । अथ “पञ्चक्खदेव" इत्यादि पश्चाद्धं भाव्यते-यत्रासावातपयति तत्रप्रत्यासना देवता वर्तते तस्यालोकः सर्वोऽपिपूर्वं पूजापर आसीत्।तंच साधुं तत्रातापयन्तं दृष्ट्वा अयं प्रत्यक्षदैवतमिति कृत्वा लोकस्तं पूजयितुं लग्नः । ततः सा देवता अपूज्यमाना प्रद्विष्टा सती द्व्यक्षरिकाद्यभ्याख्यानं दद्यात् । अथवा साधुरूपमावृत्य तत्प्रतिरूपं द्व्यक्षरिकां तिरश्ची वा प्रतिसेवमानं दर्शयेत्, क्षिप्तचित्तं वा कुर्यात्, अपरां वा अकल्पप्रतिसेवनादिकामक्रियादर्शयेत् । यस्मादियन्तोदोषास्तस्माद्दकतीरेयूपके वान स्थानादीनि पदानि कुर्यात्, द्वितीयपदे कुर्यादपि । कथम् ? इत्याह[भा.२४२०] पढमे गिलाणकारण, बीए वसहीए असइए वसइ।
रायणियकजकारण, तइए बिइयपय जयणाए। वृ-प्रथम-दकतीरंतत्र ग्लानकारणात् तिष्ठेत् । द्वितीयं-यूपकंतत्र निर्दोषाया वसतेः 'असति' अभावे ‘वसति' तिष्ठति । 'तृतीयम्' आतापनापदं तत्र रात्निकः-राजा तदायत्तं यत् कुल-गणसङ्घकार्यं तत्कारणे तिष्ठेत् । एवं त्रिष्वपि दकतीरादिषु 'यतनया' वक्ष्यमाणलक्षणया 'द्वितीयपदं' तत्रावस्थानलक्षणं सेवेत ॥अथैनामेव नियुक्तिगाथां भावयति
[भा.२४२१] विज-दवियट्ठयाए, निजंतो गिलाणो असति वसहीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org