SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-३०, [भा. २६०८] ११५ मध्यमशब्दायाम्, तदलाभेऽपद्राणभर्तृकायास्थविरायांतीव्रशब्दायाम्, तदप्राप्तौ प्रोषितभर्तृकायां स्थविरायां तीव्रशब्दायां स्थातव्यम् । एवमेव मध्यमासु तरुणीषु च अपद्राण-प्रोषितभर्तृकासु क्रमो द्रष्टव्यः। ततःस्वाधीनभर्तृकायामपिप्रथमस्थविरायांततोमध्यमायांततस्तरुण्यांयथाक्रम मन्द-मध्यम-तीव्रशब्दायां स्थाव्यम् । अथवा "जा जस्स गुरुगि"त्ति यस्य साधोर्यो मन्दादिकः शब्दोरोचते तेन यायुक्ता सातस्य गुरुरागहेतुत्वाद्गुरुका, तेन च सर्वप्रयलेनतयागुरुकस्त्रिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः । अथवाऽयमपरःक्रम उच्यते[भा.२६०९] उद्दाण परिठ्ठविया, पउत्थ कन्ना सभोइया चेव । थेरी मज्झिम तरुणी, तिव्वकरी मंदसहाय।। वृ-कन्याशब्दो बन्धानुलोम्याद् मध्येऽभिहितोऽप्यादौ कर्तव्यः, ततः पूर्वं 'कन्यायाम्' अपरिणीतस्त्रियाम्, तदभावेऽपद्राणभर्तृकायाम्, ततः ‘भर्तृपरिष्ठापितायां दौर्भाग्यात् पतिना परित्यक्तायाम, तदलाभेप्रोषितभर्तृकायां स्थविरायांस्थातव्यम्।तदप्राप्तावेतास्वेवप्रथमंमध्यमासु, ततस्तरुणीषु, ततः सभोक्तृका-स्वाधीनभर्तृका तस्यामपि स्थविरादिक्रमेण स्थेयम् । नवरं सा तीव्रशब्दकरी मन्दशब्दा चशब्दाद् मध्यमशब्दा चेति त्रिविधा । तत्र पूर्व मन्दशब्दायां ततो मध्यमशब्दायां ततस्तीव्रशब्दायामपिस्थातव्यम् ।। "सद्द वएचेव तिविह" ति व्याख्यानयति[भा.२६१०] थेरी मज्झिम तरुणी, वएण तिविहित्थि तत्थ एकेका। तिव्वकरी मज्झकरी, मंदकरीचेव सद्देणं ।। वृ-स्थविरा मध्यमा तरुणी चेति वयसा त्रिविधा स्त्री । तत्रैकैका त्रिविधा-तीव्रशब्दकरी मध्यमशब्दकरी मन्दशब्दकरी चेतिशब्देन त्रिविधा ॥अथ प्रश्रवणप्रतिबद्धादिषु चतुर्वपि या भाष्यकृता सविस्तरं यतना प्रोक्ता तामेव नियुक्तिकृदेकगाथया सङ्घ ह्याह[मा.२६११] पासवम मत्तएणं, ठाणे अन्नत्थ चिलिमिली रुवे । सज्झाए झाणे वा, आवरणे सद्दकरणेवा ।। वृ-कायिकीप्रतिबद्धे प्रतिश्रये प्रश्रवणं मात्रकेण परिष्ठापयितव्यम् । स्थानप्रतिबद्धेऽन्यत्र गत्वास्थातव्यम्। रूपप्रतिबद्धे चिलिमिली दातव्या शब्दप्रतिबद्धेस्वाध्यायोध्यानंवा 'आवरणं वा' कर्णयोः स्थगनं विधेयम् । तथापि शब्दे श्रूयमाणे 'शब्दकरणं तथा शब्दः कर्त्तव्यो यथा तयोर्लज्जितयोर्मोह उपशाम्यति ।। अथास्या एव पश्चाव्याचष्टे[भा.२६१२] वेरग्गकरंजवा, विपरिजियं बाहिरं व इअरंवा। सो तंगुणेइ साहू, झाणसलद्धी उझाएजा ॥ वृ-'वैराग्यकरम् उत्तराध्ययनादि, यद्वाऽपि परिजितं' स्वभ्यस्तंपरावर्तयमानमस्खलितमागच्छतीति भावः, तच्च ‘अङ्गबाह्यं वा प्रज्ञापनादि 'इतरद्वा' अङ्गप्रविष्टमाचारादि यद्यस्य साधोरागच्छति सतत् सूत्रंतथा गुणयतियथा परिचारणाशब्दोन श्रूयते। यस्तु ध्यानसलब्धिः' ध्यानलब्धिसम्पन्नः सध्यानं ध्यायति।। [भा.२६१३] दोसु वि अलद्धि कण्णे, ठएइ तह विसवणे करे सदं । जह लज्जियाण मोहो, नासइजणनायकरणं वा ।। -'द्वयोरपि स्वाध्याय-ध्यानयोर्य साधुरलब्धिकः स की स्थगयति । तथापि शब्दश्रवणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy