________________
११६
बृहत्कल्प-छेदसूत्रम् -२-१/३० शब्दं तथा कुर्यात् यथा तयोलज्जितयोर्मोहो नश्यति, यथा-किमेवं भोः ! न पश्यसि त्वमस्मानत्र स्थितान् यदेवं लज्जनीयानि चेष्टितानि कुरुषे । यद्येवमप्युक्तो न तिष्ठति ततो जनज्ञातं कुर्वन्ति, यथा-पश्यत पश्यत भोइन्द्रदत्त ! यज्ञदत्त ! सोमशर्मन् ! अयं विगुप्त इत्थमस्माकंपुरतोऽनाचारं सेवते ॥गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह[भा.२६१४] उभओ पडिबद्धाए, भयणा पन्नरसिया उ कायव्वा ।
दव्वे पासवणम्मि य, ठाणे रूवे य सद्दे य॥ वृ-'उभयतः' द्रव्यतो भावतश्च या प्रतिबद्धा वसति तस्यां पञ्चदशका ‘भजना' भङ्गकरचना कर्तव्या। तद्यथा-द्रव्यतःप्रतिबद्धाभावेचप्रश्रवण-स्थान-रूपशब्दैः प्रतिबद्धा १ द्रव्यतःप्रतिबद्धा भावतश्च प्रश्रवण स्थान-रूपैः प्रतिबद्धान शब्देन २ द्रव्यतः प्रतिबद्धा भावतः प्रश्रवण-स्थानशब्दैः प्रतिबद्धा न रूपेण ३ द्रव्यतः प्रतिबद्धा भावे सच प्रश्रवण-स्थानाभ्यां प्रतिबद्धा न रूपशब्दाभ्याम् ४ एतेचत्वारोभङ्गाः स्थानप्रतिबद्धपदेन लब्धाः । एवं स्थानाप्रतिबद्धपदेनापि चत्वारो लभ्यन्ते जाता अष्टौ भङ्गाः । एते प्रश्रवणप्रतिबद्धपदेन लब्धाः, एवं प्रश्रवणाप्रतिबद्धपदेनाप्यष्टौ लभ्यन्ते, जाताः षोडश भङ्गाः॥अत्रच षोडशो भङ्गः 'द्रव्यतः प्रतिबद्धा नपुनः प्रश्रवणादिभि' इत्येवंलक्षणो नाधिक्रियते, उभयतः प्रतिबद्धाया अधिकारात्, अत्र च भङ्गे भावतः प्रतिबद्धाया अभावात् । ततो ये आद्याः पञ्चदश भङ्गकास्तेषु तिष्ठतो दोषानाह[भा.२६१५] उभओपडिबद्धाएष ठायंते आणमाइणो दोसा।
तेचेव पुव्वभणिया, तंचेव यहोइ बिइयपयं ।। वृ-उभयतः प्रतिबद्धायां वसतौ तिष्ठत आज्ञादयो दोषाः । ये च प्रथमद्वितीयभङ्गयोः पूर्वमधिकरणादय आत्मपरोभयसमुत्थादयश्च दोषा भणितास्त एवात्रापि समुदिता वक्तव्याः। यच्च प्रथमद्वितीयभङ्गयोद्धितीयपदमुक्तं तदेवात्रापि ज्ञातव्यम् । गतस्तृतीयो भङ्गः । चतुर्थस्तु भङ्गो न द्रव्यतः प्रतिबद्धा नापि भावत इत्येवंलक्षणः स चोभयथाऽपि निर्दोष इति न काचित् तदीया विचारणा ॥ सूत्रम्
मू. (३१) कप्पइ निग्गंथीणं पडिबद्धसिज्जाए वत्थए। [भा.२६१६] एसेव कमो नियमा, निग्गंथीणं पि नवरिचउलहुगा।
सुत्तनिवाओ निद्दोसे, पडिबद्धे असइ उ सदोसे । वृ-'एष एव क्रमः' द्रव्यभावोभयतःप्रतिबद्धव्याख्यापरिपाटिरूपो नियमाद् निर्ग्रन्थीनामपि वक्तव्यः । नवरंप्रतिबद्धे तिष्ठन्तीनांतासांचतुर्लघुकाः ।नोदकः प्राह-यद्येवंतर्हि सूरंनिरर्थकम्, तत्र निर्ग्रन्थीनामवस्थानस्यानुज्ञातत्वात् । आचार्य प्राह-सूत्रनिपातो निर्दोषप्रतिबद्ध प्रतिश्रये भवति, प्रायश्चित्तंतुसदोषप्रतिबद्धे द्रष्टव्यम्।अथ निर्दोषप्रतिबद्धोनप्राप्यते ततस्तस्य 'असति' अभावे सदोषप्रतिबद्धे स्थातव्यम्॥ [भा.२६१७] आउज्जोवणमादी, दव्वम्मि तहेव संजईणं पि।
नाणत्तंपुन इत्थी, नऽच्चासन्ने न दूरे य॥ वृ- द्रव्यप्रतिबद्धे संयतीनामप्यकाय-शकटयोजनादयो दोषास्तथैव भवन्ति, परं तासां सागारिकनिश्रया तिष्ठन्तीनां न दोषः । “नाणत्तं पुन इत्थि" त्ति स पुनः प्रतिबद्धः स्त्रीभिरेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org