________________
१९६
बृहत्कल्प-छेदसूत्रम् -२-१/४३ सन्मार्गपरिभ्रष्टो 'मृतश्च' संयमजीवितविरहितो भवतीति ॥ अथ पूर्वोक्तमेवार्थं विशेषयन्नाह[भा.२९५३] तस्सेव य मग्गेणं, वारणलक्खेण निति वसभा उ ।
भूमितियम्मि उ दिढे, पञ्चप्पिय मो इमा मेरा ॥ वृ-'तस्यैव' ज्योतिरानेतुः साधोः 'मार्गेण' पृष्ठतः 'वारणालक्ष्येण' निवारणव्याजेन वृषभा निर्गच्छन्ति। ततः 'भूमित्रिके उच्चार-प्रश्रवण कालभूमिलक्षणे द्दष्टे सतिप्रदीपे प्रत्यर्पिते “मो" इति निपातः पादपूरणे इयं 'मर्यादा' सामाचारी ॥ तामेवाह[भा.२९५४)खरंटण वेंटिय भायण, गहिए निक्खिवण बाहि पडिलेहा।
वसभेहि गहियचित्ता, इयरे पसाइंति कल्लाणं॥ वृ-येन प्रदीपानयनायाविरतकःप्रेरितोयेनवाप्रदीपआनीतः तस्य गुरुभिखरण्टना कर्तव्या। ततोऽसौ वेण्टिकां भाजनानिच गृहीत्वा "निक्खिवण"तिबहिस्थाप्यते, निर्गच्छास्माकंगच्छाद् नत्वयाकार्यमिति।ततोऽसौ कैतवनिष्काशितोबहिस्थितःप्रतिलेखयति प्रतिक्रमणंच विदधाति। ततोवृषभैर्गृहीतचित्ताः 'इतरे मृगा गुरुं 'प्रसादयन्ति प्रसन्न कुर्वन्ति।ततोगुरवस्तंभूयोऽप्यानाय्य पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति ॥अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्ति? इत्याह[भा.२९५५] तुम्ह य अम्ह य अट्ठा, एसमकासी न केवलं सभया।
खामेमुगुरुं पविसउ, बहुसुंदरकारओ अम्हं॥ वृ-आर्या! युष्माकमस्माकंचसदिप्रत्यपायरक्षणार्थमेषएवमकार्षीत्, न केवलंस्वभयादेव, अत आगच्छत येन सर्वेऽपि 'गुरुं' क्षमाश्रमणं क्षमयामः, प्रविशतु 'बहुसुन्दरकारकः' प्रत्यपायरक्षकतया बहुकल्याणकरोऽस्माकंभूयः प्रतिश्रयम्। एवमुक्तामृगावृषभैः सह समागत्य गुरुप्रसादयन्ति ततो गुरवः क्षाम्यमामा ब्रुवते-आर्या ! यूयमपि निर्धाणः सजाताः? ।। [भा.२९५६] अन्ने वि विद्दवेहिइ, अलमजो! अहव तुम मरिसेमि ।
तेसि पि होइ बलियं, अकजमेयं न यतुदंति॥ वृ- एष एवं कुर्वनन्यानपि साधून 'विद्रावयिष्यति' विनाशयिष्यति अत आर्या ! 'अलं' पर्याप्तमस्माकमेतेन।साधवो ब्रुवते-क्षमाश्रमणाः!नभूय एवं करिष्यति, एकवारमपराधं क्षमयन्तु भगवन्तः ।गुरवोभणन्ति-यद्येवंततोऽहं युष्माकंमर्षयामि, परमेतस्य पञ्चकल्याणकंप्रायश्चित्तं प्रदीयते । एवमुक्ते तेषामपि' अगीतार्थानां बलिकम् अत्यर्थंहृदये भवति, यथा-ननूमकार्यमेतदिति।नच पश्चाद्ज्योतिस्पर्शनादौनोद्यमानास्तुदन्ति,प्रतिनोदनयान व्यथामुत्पादयन्तीत्यर्थः।। [भा.२९५७] एसो विही उ अतं, बाहि निरुद्धे इमो विही होइ ।
सावय तेनय पडिनीय देवयाए विही ठाणं॥ वृ- एष विधि 'अन्तः' ग्रामाभ्यन्तरे प्रविष्टानामुक्तः । अथ बहिस्तिष्ठतां विधिरुच्यतेतत्राध्वप्रतिपन्नास्ते साधवो विकाले तं ग्रामं प्राप्ताः, परं द्वाराणि तत्र स्थगितानि, ततो 'निरुद्ध' स्थगितद्वारे ग्रामादौ विकाले वा तत्रापूर्व प्रवेशं न लभते इत्यादिकारणसम्भवे बहिस्थितानां यदि श्वापदभयं स्तेनकमयं प्रतनीकभयं वा भवति तदा वक्ष्यमाणो विधि कर्तव्यो भवति, यावद् देवताया आकम्पनार्थं विधिना 'स्थानं' कायोत्सर्लक्षणं क्षपेण कर्तव्यमिति ।। यतनामेवाह[भा.२९५८] भूमिघर देउले वा, सहियावरणे व रहियआवरणे।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org