________________
१९१
-
उद्देशकः १, मूलं-४३, [भा. २९२८]
दुल्लभ वसहि ग्गामे, रुक्खाइठियाण समुदानं ।। वृ-यतो ग्रामात् प्रस्थिताः ततो यत्र गन्तुमीप्सितं सोऽन्यग्रामो दूरे, अथवा 'उद्वाताः' परिश्रान्तास्ततो विश्राम्यन्तः समायाताः, स्तेन-श्वापदभयाद्वा सार्थमन्तरेणागन्तुं न शक्यते स चसार्थश्चिरेणलब्धः, नदी वाप्रव्यूढा; एतैः कारणैर्यस्मिन्ग्रामेप्रस्थितास्तमसम्प्राप्ताअपान्तरालग्रामे भिक्षावेलायां प्राप्ताः, तत्रच वसतिदुर्लभा, अतो मार्गयद्भिरपि तत्क्षणंन लब्धा, ततोवृक्षादिमूले बहिः स्थित्वा सर्वेऽपि 'समुदानं' भैक्षं हिण्डितवन्तः॥
तैश्च हिण्डमानैरमूषां वसतीनामेकतरा दृष्टा भवति[भा.२९२९] कम्मार-नंत-दारग-कलाय-सभ भुजमाणि दिय दिट्ठा ।
तेसुगएसु विसंते, जहि दिट्ठा उभयभोमाई॥ वृकर्माराः-लहकारास्तेषां शाला कारशाला, नन्तकानि-वस्त्राणि तानि यत्र व्यूयन्ते सा नन्तकशाला, दारकाः-बालकास्ते यत्र दिवसतः पठन्तिसादारकशाला लेखशालेत्यर्थः, कलादाःसुवर्णकारास्तेषां शाला कलादशाला, सभा-बहुजनोपवेशनस्थानम् । यद्वा सभाशब्दः शालापर्यायोऽतः प्रत्येकमभिसम्बध्यते-कर्मारसभा नन्तकसभा इत्यादि । एतासामेकतरा दिवा भुज्यमानाष्टा, ततोव्यतीतायांसन्ध्यायां तेषु लोहकारादिषुगतेषुताननुज्ञाप्यतत्र कर्मरारशालादौ प्रविशन्ति । तत्रापि यत्र दिवसत एव 'उभयभूमिके' उच्चार-प्रश्रवणभूमिकालक्षणे आदिशब्दात् कालभूमिश्च यत्र दृष्टाः' प्रत्युपेक्षिता भवन्ति तत्र रजन्यामपिगन्तुंकल्पते, अत्रच सूत्रनिपातः ।।
एवमापवादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते-पूर्वमप्रत्युपेक्षितास्वपि संस्तारकोच्चारप्रश्रवणभूमिषु तिष्ठन्ति । कथम् ? इत्याह[भा.२९३०] मज्झे व देउलाई, बाहिं व ठियाण होइ अइगमनं ।
सावय मक्कोडग तेन वाल मसयाऽयगर साणे ।। वृ-'मध्ये वा' ग्रामादेमध्यभागे यद् देवकुलम् आदिग्रहणात् कोष्ठकशाला वा तत्र दिवसतो विधिना स्थिताः, अथवा ग्रामादेः 'बहि' देवकुलादौ सकलमपि दिवसं स्थिताः, ततो लोकस्तत्र स्थितान् दृष्टवा ब्रूयात्-“सावय" इत्यादि, अत्रदेवकुलादौ रात्रौ श्वापदः-सिंह-व्याघ्रादिस्तभयं भवति अतोनात्र भवतां वस्तुं युज्यते; अथवा-मर्कोटका अत्र रात्रावृत्तिष्ठन्ते, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्यालो वा सर्पस खादति, मशका वा निशायामत्राभिद्रवन्ति, अजगरो वाऽत्ररात्रोगिलति,श्वानोवासमागत्यदशति; एतैव्यार्घातकरणैरात्रावन्यस्यांवसतौ 'अतिगमनं' प्रवेशो भवति ॥ इदमेव स्फुटतरमाह[भा.२९३१] दिवसट्ठिया विरत्तिं, दोसे मक्कोडगाइए नाउं ।
अंतो वयंति अन्न, वसहिं बहिया व अंतो उ । कृ-देवकुलादौदिवसतःस्थिताअपिरात्रौमर्कोटकादीन्दोषान् ज्ञात्वायदि अन्तः' ग्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तवर्तिनीमेवान्यांवसतिव्रजन्ति, तदप्राप्तौबाहिरिकायांगच्छन्ति।अथदिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्रापि रात्रौ पूर्वोक्तान् दोषान् मत्वा 'बहि' बाहिरिकाया अन्तः समागच्छन्ति॥अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयति
[भा.२९३२] पुवट्टिए य रत्तिं, दह्ण जनो भणाइ मा एत्थं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org