________________
२८०
बृहत्कल्प-छेदसूत्रम् - २-२/५२
करो वोढव्यः सञ्जातः । एषा स्वपक्षविषया अयतनाऽभिहिता । अथ परपक्षविषयामयतनामाह[भा. ३३५१] परपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा । पिहणे वि होंति लहुगा, जंते तसपाणघातो य ॥
वृ- मनुष्य- गवादयो येऽसंयतास्ते परपक्षः तद्विषया अयतना भाव्यते - इह कोलिकादिजीवविराधनाभयाद् यदि द्वारमपावृतं करोति-न स्थगयतीत्यर्थः ततश्चतुर्लघवः । अथ द्वारस्य पिधानं कुर्वन्ति तदापि चतुर्लघवः । 'यन्त्रे' चचुइआरकाख्ये सञ्चारिमानामुद्देहिकादीनां त्रसप्राणिनां घातो भवतीति तन्निष्पन्नं प्रायश्चित्तम् ॥
[भा. ३३५२] गोणे य साणमादी, वारण लहुगा य जं च अधिकरणं । खरए तेन या, गुरुगा य पदोसओ जं च ॥
वृ- अपिहिते द्वारे गौः प्रविष्टो धान्यं भक्षयेत्, श्वानो वा आदिशब्दाद् मार्जारो वा प्रविश्य धान्यं विकिरेत् खादेद्वा, ते च यदि वार्यन्ते तदा चतुर्लघवः । ते च वारिताः प्रतिनिवृत्य व्रजन्तो हरितमर्दनादिरूपं यदधिकरणं कुर्वन्ति तन्निष्पन्नम्; चशब्दादन्तरायं च तेषां कृतं भवति । तथ शय्यातरस्य यद् व्यक्षरकं-दास-दासीरूपं ये च स्तेनकास्ते धान्यं हर्तुकामा यदि वार्यन्ते तदा चतुर्गुरुकाः । ते च वारिताः प्रद्वेषतो यदभ्याख्यान- परितापनादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् [भा. ३३५३] तेसि अवारणे लहुगा, गोसे सागारियस्स सिट्ठम्मि ।
लहुगा य जं च जत्तो, असिट्टे संकापदं जंच ॥
वृ- अथैतद्दोषभयात् 'तेषां ' व्यक्षरकादीनां वारणं न करोति तदा चतुर्लघवः । ते चावारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि 'गोसे' प्रत्यूषे सागारिकस्य कथयन्ति यथा 'अमुकेनामुकेन च रात्रौ धान्यमपहृतम्' ततश्चतुर्लघुकाः । 'शिष्टे' कथिते सति स रुष्टः सन् यद् द्व्यक्षरकादीनां परितापनादि 'यतः' बन्धन- घातनविशेषतः करिष्यति तन्निष्पन्नं प्रायश्चित्तम् । अथ न कथयन्ति ततोऽपि चतुर्लघुकाः । यच्च साधूनामुपरि शङ्कापदं शय्यातरः करोति - 'नूनमेतैरपहृतं यदेवं न कथयन्ति' तत्र चतुर्लघु । निशङ्किते चतुर्गुरु ॥ गवादीनां वारणे दोषानुपदर्शयति
[भा. ३३५४] तिरियनिवारण अभिहनन मारणं जीवघातो नासंते। खरिया छोभ विसाऽगणि, खरए पंतावणादीया ॥
वृ-गवादीनां तिरश्चां निवारणे शृङ्गादिना संयतानामभिघातो मारणं वा भवेत् । ते च निवारिता नश्यन्त जीवघातं कुर्युः । द्व्यक्षरिका च निवारिता संयताना 'छोभम्' अभ्याख्यानं दद्यात् एष श्रमणो मां प्रार्थयते; विषं वा दद्यात्, वसतिं वाऽग्निना प्रज्वालयेत् । द्व्यक्षरको वा प्रद्विष्टः प्रान्तापनादिकं कुर्यात् ।। अथ स्तेनका येन कारणेन धान्यमपहरन्ति तत् प्रतिपादयति[भा. ३३५५ ] आसन्नो य छनूसवो, कजं पि य तारिसेण धनेणं । तेनाण य आगमनं, अच्छह तुण्डिक्कका तेना ॥
वृ- क्षणः - एकदैवसिकः, उत्सवः - बहुदैवसिकः, क्षणयुक्त उत्सवः क्षणोत्सवः, शाकपार्थि'वादिवद् मध्यपदलोपी समासः, क्षण उत्सवो वा इत्यर्थः । स स्तेनानां प्रत्यासन्नो वर्त्तते, तत्र च तेषां ताध्शेन धान्येन कार्यमस्ति ततः स्तेनानामागमनम्, ततश्चागीतार्था भणन्ति-भदन्त ! स्तेनाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org