________________
२२८
बृहत्कल्प-छेदसूत्रम् -२-१/४६
[भा. ३१११] भंडी बहिलग-भरवाहिगेसु एसा तु वण्णिया जतणा । ओदरिय विवित्सु य, जयण इमा तत्थ नातव्वा ॥
वृ-भण्डी - बहिलक - भारवाहिसार्थेषु 'एषा' अनन्तरोक्ता यतना वर्णिता । अथौदरिकेषु 'विविक्तेषु च ' कार्पटिकेष्वियं यतना ज्ञातव्या ।। तामेवाह[ भा. ३११२] ओदरिपत्थयणाऽसइ, पत्थयणं तेसि कंद-मूल-फला । अग्गहणम्मिय रज्जू, वलिंति गहणं च जयणाए ।
वृ- आगाढे राजद्विष्टादिकार्ये औदरिकादिभिः सह गम्यमाने 'पथ्यदनस्य' शम्बलस्याऽभावे यदि तेषाम्' औदरिकादीनां कन्द-मूल-फलान्याहरो भवेत् ततः साधूनामपि तमेवाहारं स्वयं प्रयच्छन्ति । ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति । अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थं रज्जुर्वलयन्ति, ततो यतनया ग्रहणं कुर्वन्ति ॥ इदमेव स्पष्टयतिकंदाइ अभुंजंते, अपरिणए सत्धिगाण कहयंति ।
[भा. ३११३]
पुच्छा वेधासे पुन, दुक्खिहरा खाइउं पुरतो ।।
वृ- अपरिणते कन्दादिकमभुञ्जने वृषभाः सार्थिकानां कथयन्ति एतान् तथा भापयत यथा खादन्ति । ततस्ते सार्थिका रज्जुवलनं कुर्वन्ति । ततो गीतार्था कृतसङ्केताः पृच्छन्ति - कथयत, किमेताभी रज्जुभि प्रयोजनम् ? । सार्थिका भणन्ति - वयमेकनाचारूढाः, अतो योऽस्माकं कन्दादीनी न भक्षयति तं वयमेताभिर्विहायसि लम्बयामः, 'इतरथा' तस्य बुभुक्षार्त्तस्य पुरतः खादितुं 'दुःख' दुष्करम्, न वयं भक्षयितुं शक्नुम इति भावः ॥
[भा. ३११४] इहरा वि भरति एसो, अम्हे खायामो सो वि तु भएन । कंदादि जगहणे, इमा उ जतणा तहिं होति ।।
वृ- कन्दादीन्यभक्षयन्नितरथाऽप्यस्यामटव्यामवश्यमेष म्रियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः इत्युक्ते 'सोऽपि ' अपरिणतो भयेन कन्दादिभक्षणं करोति । एवमादिपु कार्येषु कन्दादिग्रहणे प्राप्ते इयं यतना भवति ॥ तामेवाह
[भा. ३११५] फासुग जोनिपरित्ते, एगट्ठिगऽबद्ध भिन्न भिन्ने अ । बद्धट्ठिए वि एवं एमेव य होइ बहुबीए ॥ एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए । साहारणरसभावा, आईए बहुगुणं जंच ॥
[मा. ३११६]
वृ-द्वे अपि व्याख्यातार्थे ।। पानकयतनामाह
[भा. ३११७] तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु ।
पासंदणे पवाते, आतवतत्ते वहे अवहे ॥
वृ- एषाऽपि गतार्था ।। गता अशिवविषया यतना । अथावमौदर्यविषयां यतनामाह[भा. ३११८] ओमे एसणसोहिं, पजहति परितावितो दिगिंच्छाए ।
अलभंते वि य मरणे, असमाही तित्थवोच्छेदो ॥
वृ- अवमौदरिकं विज्ञायानागतमेव द्वादशभिर्वर्षे निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततश्चतुर्गुरु आज्ञादयश्च दोषाः । तत्र च तिष्ठन् 'दिगिञ्छया' क्षुधा परितापितः सन्नेषणाशुद्धिं प्रेजहाति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org